श्री गणेश गीता - अथ एकादशोऽध्यायः
श्रीमद्गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.
यथा भक्तेः सात्त्विकराजसतामसभेदेन त्रैविध्य्मुक्तमेवं तपाआदीनामपि त्रैविध्यमाह सात्त्विकानामुपादेयत्वं राजसतामसानां हेयत्वं च दर्शयन्गजानन उवाच-
तपोऽपि त्रिविधं राजन्कायिकादिप्रभेदतः ।
ऋतुजार्जवशौचा(नि)श्व ब्रह्मचर्यमहिंसनम् ॥१॥
गुरुविज्ञाद्विजातीनां पूजनं चासुरद्विषाम् ।
स्वधर्मपालनं नित्यं कायिकं तप ईद्दशम् ॥२॥
वाचिकं सात्त्विकं तप आह-
मर्मास्पृक्च प्रियं वाक्यमनुद्वेगि हितमृतम् ।
अधीतिर्वेदशास्त्राणां वाचिकं तप ईद्दसम् ॥३॥
मानसिंक सात्त्विकं तप आह-
अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः ।
निर्मलाशयता नित्यं मानसं तप ईद्दशम् ॥४॥
त्रिभिस्त्रिभिः पादैर्द्वाभ्यां च सात्विकराज सतामसानि तपांसि स्वरुपतः फलतश्व विभजते-
अकामतः श्रद्धया च यत्तपः सात्त्विंक तु तत् ।
ऋद्ध्यै सत्कारपूजाभ्यां सदम्भ्यं राजसं तपः ॥५॥
तदस्थिरं जन्ममृती प्रयच्छति न संशयः ।
परात्मपीडकं यच्च तपस्तामसमुच्यते ॥६॥
गुणमेदेन दानत्रैविघ्यमाह-
विधिवाक्यप्रमाणार्थ सत्पात्रे देशकालतः ।
श्रद्धया दीयमानं यद्दांन तत्सात्त्विकं मतम् ॥७॥
राजसं दानमाह-
उपकारं फलं वाऽपि काङ्क्षद्धिर्दीयते नरैः ।
क्लेशतो दीयमानं वाऽभक्त्या राजसमुच्यते ॥८॥
तामसं दानमाह-
अकालदेशतोऽपात्रेऽवज्ञया दीयते तु यत् ।
असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम् ॥९॥
ज्ञानकर्मकर्तृणां प्रत्येक त्रैविध्यं वक्तुं प्रतिजानीते-
ज्ञानं च त्रिविधं राजञ्शृणुष्वं स्थिरचेतसा ।
त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसङतः ॥१०॥
सात्त्विकज्ञानमाह-
नानाविधेषु भूतेषु मामेकं वीक्षते तु यः ।
नाशवत्सु च नित्यं मां तज्ज्ञानं सात्त्विकं नृप ॥११॥
राजसं ज्ञानमाह-
तेषु वेत्ति पृर्थग्भूतं विविधं भावमाश्रितः ।
मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् ॥१२॥
तामसं ज्ञानमाह-
हेतुहीनमसत्यं च देहात्मविषयं च यत् ।
असदर्थाल्पविषयं तामसं ज्ञानमुच्यते ॥१३॥
कर्मत्रैविध्यं प्रतिज्ञाय सात्त्विकमाह सार्धेन-
भेदतास्त्रिविधं कर्म विद्धि राजन्मयेरितम् ।
कृतं विना फलेच्छा यत्कर्म सात्त्विकमुच्यते ॥१४॥
राजसं कर्माऽऽह-
यद्धहुअक्लेशतः कर्म कृतं यच्च फलेच्छया।
क्रियमाणं नृभिर्दम्भात्कर्म राजसमुच्यते ॥१५॥
तामसमाह-
अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् ।
अज्ञानात्क्रियमाणं यत्कर्म तामसमीरितम् ॥१६॥
कर्तारं त्रिविधं विद्धि कथ्यमानं मया नृप ।
धैर्योत्साही समोऽसिद्धौ चाविक्रियस्तु यः ॥
अहंकारविमुक्तो यः स कर्ता सात्त्विको नृप ॥१८॥
राजसं कर्तारमाह-
कुर्वन्हर्षं च शोकं च हिंसां फलस्पृहां च यः ।
अशुचिर्लुब्धको यस्तु राजसोऽसौ निगद्यते ॥१९॥
तामसं कर्तारमाह-
प्रमादाज्ज्ञानसहितः परोच्छेदपरः शठः ।
अलसस्तर्कवान्यस्तु कर्ताऽसौ तामसो मतः ॥२०॥
तन्त्रेणैव सात्त्विकराजसतामसानां सुखानां दुःखानां च विभागं वक्तुं प्रतिजानीते-
सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु ।
सात्त्विकं राजसं चैव तामसं च मयोच्यते ॥२१॥
स्पष्टार्थः श्लोकः-
सात्त्विके सुखदुःखे विभजते सार्धेन-
विषवद्धासते पूर्वं दुःखस्यान्तकरं च यत ।
इच्छय (ष्य) मानं(णं) तथा वृत्त्या यदन्तेऽमृतवद्धवेत् ॥२२॥
राजसं सुखं विभजते-
विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा ।
हालाहलमिवान्ते यद्राजसं सुखमीद्दशम् ॥२४॥
तामसं सुखं विभजते-
तन्द्रीप्रमादसंभूतमालस्यप्रभवं च यत् ।
सर्वदा मोहकं स्वस्य सुखं तामसमीद्दशम् ॥२५॥
न तदस्ति यदेतैर्यन्मुक्तं स्यात्रिविधैर्गुणैः ॥२६॥
कथं तर्हि गुणेभ्यो मुच्यत इत्यपेक्षायां स्वधर्माचरणादेव मुच्यत इति विवक्षुः स्वधर्माचरणानिबन्धकं चिदुपासनप्रकारं तावद्धिधत्ते-
राजन्ब्रह्यापि त्रिविधमोंतत्सदितिभेदतः ।
त्रिलोकेषु त्रिधा भूतमखिलं भूप वर्तते ॥२७॥
एवं विदुषां सात्त्विकानां मोक्षोपायभूतानि कर्मश्रितानि कानिचिद्धिशेषणान्युक्त्वा चतुर्णां वर्णानामावश्यककर्मविभागं वक्तुं प्रतिजानीते-
ब्रह्मक्षत्रियविट्शूद्राः स्वभावाद्धिन्नकर्मिणः ।
तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे ॥२८॥
अथ ब्राह्मणानां स्वाभाविकनि कर्माण्याह-श्लोकद्धयेन-
अन्तर्बाह्येन्द्रियाणां च वश्यत्वमृजुता क्षमा ।
नानातपांसि शौचं च द्बिविधं ज्ञाजमात्मनः ॥२९॥
वेदशास्त्रपुराणानां स्मृतीनां ज्ञानमेव च ।
अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाह्रतम् ॥३०॥
अथ क्षत्रजातेरुचितं स्वभावजं कर्माऽऽह-
दार्ध्य शौर्यं च दाक्ष्यं च युद्धे पृष्ठाप्रदर्शनम् ।
शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् ॥३१॥
प्रभुता मनऔन्नत्यं सुनीतिर्लोकपालनम् ।
पञ्चकर्माधिकारित्वं क्षात्रं कर्म समीरितम् ॥३२॥
वैश्यकर्म विभजते-
नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् ।
त्रिधा कर्माधिकारित्वं वैश्यानां कर्म ईद्दशम् ॥३३॥
शूद्रकर्माणि विभजते-
दानं व्दिजानां शुश्रुषा सर्वदा शिवसेवनम् ।
एताद्दशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥३३॥
चातुर्वर्ण्यकर्मविभागफलमुपसंहरति-
स्वस्वकर्मरता एते मय्यर्प्याखिलकारिणः ।
मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप ॥३४॥
उपपादितं शास्त्रमुपसंहरति-
इति ते कथितो राजन्प्रसादाद्योग उत्तमः ।
साङोपाङः सविस्तारोऽनादिसिद्धो मया प्रिय ॥३५॥
एतस्य गोपने परा सिद्धिरस्तीत्याह-
इत्थं योगं मयाऽऽख्यातं नाऽऽख्यातं कस्य चिन्नृप ।
गोपायैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ॥३६॥
तमिमं गजाननवरेण्यसंवादमुपसंहरन्व्यास उवाच-
इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः ।
गणेशस्य वरेण्यः स चकार च यथोदितम् ॥३७॥
एतदेव स्पष्टयति-
त्यक्त्वा राज्यं कुटुम्बं च कान्तारं प्रययौ रयात् ।
उपादिष्टं यथायोगमास्थाय मुक्तिमाप्नुयात् ॥३८॥
एतच्छास्त्रश्रवणफलमाह-
इमं गोप्यतमं योगं श्रृणोति श्रद्ध्या तु यः ।
सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ॥३९॥
अस्य ग्रन्थस्य श्रावयितुर्व्याख्यातुश्व फलमाह-
य इमं श्रावयेद्योगं कृत्वाऽस्यार्थं सुबुद्धिमान् । न्
यथा योगी तथा सोऽपि परं निर्वाणमृच्छति ॥४०॥
द्विविधस्यापि पाठिनः समं फलं विवक्षुराह-
यो गीतां सम्यगभस्य ज्ञात्वा चार्थं गुरोर्मुखात् ।
कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ॥४१॥
अनयोर्ध्दयोरपि फलं स्तौति प्रवृत्त्यतिशयार्थं पञ्चभिः-
एककालं द्बिकालं वा त्रिकालं वाऽपि यः पठेत् ।
ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यते नरः ॥४२॥
न यज्ञैर्न व्रतैर्दानैनीग्नित्रैर्महाधनैः ।
न वेदैः सम्यगभ्यस्तैः सम्यग्ज्ञातैः सहाङकैः ॥४३॥
पुराणश्रवणैर्नव न शास्त्रैः साधुचिन्तितैः ।
प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ॥४४॥
ब्रह्मघ्नो मद्यपः स्तेनो गुरुल्पगमोऽपि यः ।
चतुर्णां यस्तु संसर्गी महापातककारिणाम् ॥४५॥
स्त्रीहिंसागोवधादीनां कर्तारो ये च पापिनः ।
ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ॥४६॥
नित्यपाठफलं चतुर्थीपाठफलं चाऽऽह-
यः पठेत्प्रयतो नित्यं स गणेशो न संशयः ।
चतुर्थ्या यः पठेद्धक्त्या सोऽपि मोक्षाय कल्पते ॥४७॥
पक्षद्धयेऽप्यशक्तस्य पक्षान्तरमाह-
ततः क्षेत्रं समासाद्य स्त्रात्वाऽभ्यर्च्य गजानन ।
सकृद्गीतां पठन्भक्त्या ब्रह्मभूयाय जायते ॥४८॥
क्षेत्रस्याप्यलाभ उपायान्तरमाह चतुर्भिः-
भाद्रे मासि सिते पक्षे चतुर्थ्यां भक्तिमान्नरः ।
कृत्वा महीमयीं मूर्तीं गणेशस्य चतुर्भुजाम् ॥४९॥
सवाहनां सायुधं च समभर्च्य यथाविधि ।
यः पठेत्सप्तकृत्वस्तु गीतामेतां प्रयत्नतः ॥५०॥
ददाति तस्य तुष्टोऽसौ गणेशो भोगमुत्तमम् ।
पुत्रान्पौत्रान्धनं धान्यं पशुरत्नदिसंपदः ॥५१॥
विद्यार्थिनो भवेद्वेद्या सुखार्थी सुखमाप्नुयात् ।
कामनन्यल्लँभेत्कामी मुक्तिमन्ते प्रयान्ति ते ॥५२॥
ॐ तत्सदिति श्रीमध्दणेशगीतासूपनिषदर्थर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्येसंवादे गुणत्रयविकृतियोगो नामेकादशोऽध्यायः ॥११॥
श्रीचातुधर्रभणितौ गणेशगीताटीकायां गणपतिभावदीपिकायाम् । गम्भीरप्रतसदर्थदर्शिकायामध्यायो दशमपरोऽन्तिमः स्फुटोऽभूत ॥११॥
गगनशरगिरिन्दौ १७५० विक्रमार्कस्य शाके पुरहरपुरि काश्यां भाद्रशुल्के चतुर्थ्याम् ॥ सुरगुरुदिवसेऽभूत्पूर्ण एष प्रबन्धो गणपतिपदपद्मे चार्पितोऽतीव भक्त्या ॥१॥
इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां गणपतिभावदीपिकायां गुणत्रयविकृतियोगो नामैकादशोऽध्यायः ॥११॥
समाप्तेयं सटीका गणेशगीता ॥
N/A
References : N/A
Last Updated : February 13, 2011
TOP