श्री गणेश गीता - अथ अष्टमोऽध्यायः
श्रीमद्गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.
पूर्वस्मिन्नध्याये भावनाव्यदेशेन यज्ञोऽहमित्यादिना काश्र्विद्विभूतयस्त्वया मुखत एवोक्ता यद्यच्छ्रेष्ठतममित्यन्ते विभूतीनां लक्षणं चोक्तम् । नारदमुखाच्च काश्र्विद्विभूतयः श्रुताः । अन्तस्तु तासां नास्त्येवातो विश्र्वरुपमेव त्वदीयं द्रष्टुअमिच्छामि यस्मिन्द्दष्टे कार्त्स्न्येन ताः सम्यग्विदिता भवन्तीत्यभिप्रायवान्वरेण्य उवाच-
भगवन्नरदो मह्मं तव नानाविभूतयः ।
उक्तवांस्ता अहं वेद न सर्वाः सोऽपि वेत्ति ताः ॥१॥
एवं तर्हि मयाऽपि वक्तुमशक्या इत्यत आह-
त्वमेव तत्त्वतः सर्वा वेत्सि ता द्बिरदानन ।
निजं रुपमिदानीं मे व्यापकं चारु दर्शय ॥२॥
तमिष्टार्थसमर्पणेनानुगृह्रन्गजानन उवाच-
एकस्मिन्मयि पश्य त्वं विश्र्वमेतच्चराचरम् ।
नानाश्र्वर्याणि दिव्यानि पुरा द्दष्टानि केनचित् ॥३॥
बाह्येन चक्षुषा यद्दृष्टं तदल्पमेव रुपं न तु कृत्सुमतस्ते तुभ्यं ज्ञानचक्षुः सृजामि ददामीत्याह-
ज्ञानचक्षुरहं तेऽद्य सृजामि स्वप्रभावतः ।
चर्मचक्षुः कथं पश्येन्मां विभुसजमव्यम ॥४॥
तमिमं वरेण्यगणेशसंवादं सूताग्रे कथयन्व्यास उवाच-
ततो राजा वरेण्यः स दिव्यचक्षुरवैक्षत ।
ईशितुः परमं रुपं गजास्यस्य महाद्धुतम् ॥५॥
अद्धुतत्वमेव वर्णयति सार्धाभ्याम्-
असंख्यवक्त्रललितमसंख्याङघ्रिकरं महत् ।
अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्त्रजम् ॥६॥
असंख्यनयनं कोटिसूर्यरश्मि धृतायुधम् ।
तद्वर्ष्मणि त्रयो लोका द्दष्टास्तेन पृथग्विधाः ॥७॥
द्दष्टैश्वरं परं रुपं प्रणम्य स नृपोऽब्रवीत् ॥
ललितं मनोहरं, ये हि सर्वेषां जन्तूनामवयवास्त एव सर्वात्मनो गणेशस्यावयवाः । अतस्तस्यासंख्यवक्त्रत्वादिकमुपन्नं मनोहरत्वमनुलिप्रमित्यादिना दर्शितं, कोट्यः सूर्या रश्मिरेकोंऽशो यस्य तत्कोटिसूर्यरस्मि । असंखैर्हस्तैर्धृतानि, आयुधानि धनुर्बाणादीनि येन तत् । तद्वर्ष्मणि तस्य शरीरे, एवमब्रवीदित्यन्तः स्पष्टार्थः ॥
व्यास एव वरेण्यवाक्यमवतारयति वरेण्यउवाच-
वीक्षेऽहं तव देहेऽस्मिन्देवानृषिगणान्पितृन् ॥८॥
पातालानां समद्राणां द्बीपानां चैव भृभृताम् ।
महर्षीणां सप्तकं च नानार्थैः संकुलं विभो ॥९॥
भुवाऽन्तरिक्षं स्वर्गांश्र्व मनुष्योरगराक्षसान् ।
ब्रह्माविष्णुमहेशेन्द्रान्देवाञ्जन्तूननेकधा ॥१०॥
अनाद्यनन्तं लोकादिमनन्तभुशीर्षकम् ।
प्रदीप्तानलसंकाशमप्रमेयं पुरातनम् ॥११॥
किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहम् ।
एताद्दशं निरिक्षे त्वां विशालवक्षसं प्रभुम् ॥१२॥
सुरविद्याधरैर्यक्षेः किन्नरैर्मुनिमानुषैः ।
नृत्यद्धिरप्सरोभिश्व गन्धर्वैर्मुर्गानतत्परैः ॥१३॥
वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुअदायुतैः ।
सेव्यमानं महाभव्त्या वीक्ष्यमाणं सुविस्मितैः ॥१४॥
वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरम् ।
पातालानि दिशः स्वर्गान्भुवं व्याप्याखिलं स्थितम् ॥१५॥
भीता लोकास्तथा चाहमेवं त्वां वीक्ष्य रुपिणम् ।
नानादंष्ट्राकरालं च नानाविद्याविशारदम् ॥१६॥
प्रलयानदीप्तास्यं जटिलं च नभःस्पृशम् ।
द्दष्टा गणेश ते रुपमंह वान्त इवाभवम् ॥१७॥
ननु परमानन्दरुपिणो मम कथं भयहेतुत्वमित्याशङ्रक्य द्वितीयाद्वै भयं भवति (बृ० १।४।२) इति श्रुतेः सदर्पभयहेतु द्वैतं सर्वं त्वदुदरे एव तिष्ठति । तेषु नागाद्याः खलाः परपीडकाः स्वकर्मजं दुःखं त्वत्त एव लभन्ते त्वय्येव लयं यान्तीत्याह-
देवा मनुष्याना गाद्याः खलास्त्वदुदरेशयाः ।
नानायोनिभुजश्वान्ते त्वय्येव प्रविशन्ति च ॥१८॥
त्वय्येव प्रविशन्ति चेत्यत्र द्दष्टान्तमाह-
अब्धेरुत्पद्यमानास्ते यथा जीमूतबिन्दवः ॥१९॥
न केवलं भूमत्वं त्वत्त उद्धूतामिदं त्वय्येव लयं यात्यापि तु स्वि (स्थि) तिकोलेऽपि त्वमेवेदं सर्वमित्याह-
त्वमिन्द्रोऽग्निर्यमश्वैव निऋतिर्वरुणो मरुत् ।
गह्यकेशस्तथेशानः सोमः सूर्योऽखिलं जगत् ॥२०॥
यद्येवं जानासि तर्हि कृतकृत्योऽसीत्यत आह-
नमामि त्वामतः स्वामिन्प्रसादं कुरु मेऽधुना ।
दर्शयस्व निजं रुपं सौम्यं यस्पूर्वमीक्षितम् ॥२१॥
दुरन्तं त एव माहात्म्यमित्याशयेननाऽऽह-
को वेद लिलास्ते भूमन्क्रिमाणा निजेच्छया ।
अनुग्रहान्मया द्दषमैश्वरं रुपमीद्दशम् ॥२२॥
एवं प्रार्थितो वरेण्यमनुगुह्यन्गजानन उवाच-
नेदं रुपं महाबाहो मम पश्यन्ति योगिनः ।
सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहात् ॥२३॥
ईद्दशं मद्रुपदर्शनमत्यन्तदुर्लभमित्याह-
चतुर्वेदार्थतत्त्वज्ञाश्वतुः शास्त्रविशारदाः ।
यज्ञदानतपोनिष्ठा न मे रुपं विदन्ति ते ॥२४॥
भक्तिमतां सद्धाववतां चाहं वीक्षितुं प्रष्टु शक्यो वीक्षितश्व ज्ञातुं शक्यो ज्ञातश्व प्रवेष्टुं शक्यो यस्मादेवं तस्मात्त्व यद्ध्येयं रुपं तदेव पश्येत्याह-
शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः ।
त्यज भीति च मोहं च पश्य मां सौम्यरुपपिणम् ॥२५॥
अध्यायार्थमुपसंहरति-
मद्धक्तो मत्परः सर्वसङहीनो मदर्थकृत् ।
निष्क्रोधः सर्वभूतेषु समो मामेति भूभुज ॥२६॥
ॐ तत्सेदिति श्रीमद्धणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्यसंवादे विश्वरुपवीक्षणयोगो नामाष्टमोऽध्यायः ॥८॥
श्रीचातुर्धरभणितौ गणेशगीताताटीकायां गणपतिभावदीपिकायाम् । मध्यायः स्फुटह्रदयोऽष्टमो बभूव ।
इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुअर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां गणपतिभावदीपिकायां विश्वरुपवीक्षणयोगो नामाष्टमोऽध्यायः ॥८॥
N/A
References : N/A
Last Updated : February 13, 2011
TOP