वाक्यकांड - भाग २

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


ये च संभविनो भेदाः पदार्थेष्व् अविभाविताः ।
ते संनिधाने व्यज्यन्ते न तु वर्णेष्व् अयं क्रमः ॥५१॥

वर्णानां च पदानां च क्रममात्रनिवेशिनी ।
पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥५२॥

समाने ऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात् ।
प्रतिवर्णं त्व् असौ नास्ति पदस्यार्थम् अतो विदुः ॥५३॥

यथा सावयवा वर्णा विना वाच्येन केन चित् ।
अर्थवन्तः समुदिता वाक्यम् अप्य् एवम् इष्यते ॥५४॥

अनर्थकान्य् अपायत्वात् पदार्थेनार्थवन्ति वा ।
क्रमेणोच्चरितान्य् आहुर् वाक्यार्थं भिन्नलक्षणम् ॥५५॥

नित्यत्वे समुदायानां जातेर् वा परिकल्पने ।
एकस्यैकार्थताम् आहुर् वाक्यस्याव्यभिचारिणीम् ॥५६॥

अभेदपूर्वकाभेदाः कल्पिता वाक्यवादिभिः ।
भेदपूर्वान् अभेदांस् तु मन्यन्ते पददर्शिनः ॥५७॥

पदप्रकृतिभावश् च वृत्तिभेदेन वर्ण्यते ।
पदानां संहिता योनिः संहिता वा पदाश्रया ॥५८॥

पदाम्नायश् च यद्य् अन्यः संहिताया निदर्शकः ।
नित्यस् तत्र कथं कार्यं पदं लक्षणदर्शनात् ॥५९॥

प्रतिवर्णम् असंवेद्यः पदार्थप्रत्ययो यथा ।
पदेश्व् एवम् असंवेद्यं वाक्यार्थस्य निरूपणम् ॥६०॥

वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु ।
यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ॥६१॥

सूक्ष्मं ग्राह्यं यथान्येन संसृष्टं सह गृह्यते ।
वर्णो ऽप्य् अन्येन वर्णेन संबद्धो वाचकस् तथा ॥६२॥

पदस्योच्चारणाद् अर्थो यथा कश् चिन् निरूप्यते ।
वर्णानाम् अपि सांनिध्यात् तथा सो ऽर्थः प्रतीयते ॥६३॥

प्राप्तस्य यस्य सामर्थ्यान् नियमार्था पुनः श्रुतिः ।
तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते ॥६४॥

यजेतेति ततो द्रव्यं प्राप्तं सामर्थ्यलक्षणम् ।
व्रीहिश्रुत्या निवर्तेत न स्यात् प्रतिनिधिस् तथा ॥६५॥

तस्माद् व्रीहित्वम् अधिकं व्रीहिशब्दः प्रकल्पयेत् ।
द्रव्यत्वम् अविरुद्धत्वात् प्राप्त्यर्थः सन् न बाधते ॥६६॥

तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि ।
असंभवाद् विशेषाणां तत्रान्येषाम् अदर्शनम् ॥६७॥

न च सामान्यवत् सर्वे क्रियाशब्देन लक्षिताः ।
विशेषा न हि सर्वेषां सतां शब्दो ऽभिधायकः ॥६८॥

शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः ।
तथाविवक्षा भेदानां द्रव्यत्वसहचारिणाम् ॥६९॥

असंनिधौ प्रतिनिधिर् मा भून् नित्यस्य कर्मणः ।
काम्यस्य वा प्रवृत्तस्य लोप इत्य् उपपद्यते ॥७०॥

विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते ।
द्रव्याभावे प्रतिनिधौ तस्य तत् स्यात् क्रियान्तरम् ॥७१॥

निर्ज्ञातार्थं पदं यच् च तदर्थे प्रतिपादिते ।
पिकादि यद् अविज्ञातं तत् किम् इत्य् अनुयुज्यते ॥७२॥

सामर्थ्यप्रापितं यच् च व्यक्त्यर्थम् अनुषज्यते ।
श्रुतिर् एवानुषङ्गेण बाधिका लिङ्गवाक्ययोः ॥७३॥

अप्राप्तो यस् तु शुक्लादिः संनिधानेन गम्यते ।
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ॥७४॥

अभिन्नम् एव वाक्यं तु यद्य् अभिन्नार्थम् इष्यते ।
तत् सर्वं श्रुतिभूतत्वान् न श्रुत्यैव विरोत्स्यते ॥७५॥

वाक्यानां समुदायश् च य एकार्थप्रसिद्धये ।
साकाङ्क्षावयवस् तत्र वाक्यार्थो ऽपि न विद्यते ॥७६॥

प्रासङ्गिकम् इदं कार्यम् इदं तन्त्रेण लभ्यते ।
इदम् आवृत्तिभेदाभ्याम् अत्र बाधसमुच्चयौ ॥७७॥

ऊहो ऽस्मिन् विषये न्याय्यः संबन्धो ऽस्य न बाध्यते ।
सामान्यस्यातिदेशो ऽयं विशेषो ऽत्रातिदिश्यते ॥७८॥

अर्थित्वम् अत्र सामर्थ्यम् अस्मिन्न् अर्थो न भिद्यते ।
शास्त्रात् प्राप्ताधिकारो ऽयं व्युदासो ऽस्य क्रियान्तरे ॥७९॥

इयं श्रुत्या क्रमप्राप्तिर् इयम् उच्चारणाद् इति ।
क्रमो ऽयम् अत्र बलवान् अस्मिंस् तु न विवक्षितः ॥८०॥

इदं पराङ्गैः संबद्धम् अङ्गानाम् अप्रयोजकम् ।
प्रयोजकम् इदं तेषाम् अत्रेदं नान्तरीयकम् ॥८१॥

इदं प्रधानं शेषो ऽयं विनियोगक्रमस् त्व् अयम् ।
साक्षाद् अस्योपकारीदम् इदम् आराद् विशेषकम् ॥८२॥

शक्तिव्यापारभेदो ऽस्मिन् फलम् अत्र तु भिद्यते ।
संबन्धाज् जातभेदो ऽयं भेदस् तत्राविवक्षितः ॥८३॥

प्रसज्यप्रतिषेधो ऽयं पर्युदासो ऽयम् अत्र तु ।
इदं गौणम् इदं मुख्यं व्यापीदं गुरु लघ्व् इदम् ॥८४॥

भेदेनाङ्गाङ्गिभावो ऽस्य बहुभेदं विकल्प्यते ।
इदं नियम्यते ऽस्यात्र योग्यत्वम् उपजायते ॥८५॥

अस्य वाक्यान्तरे दृष्टाल् लिङ्गाद् भेदो ऽनुमीयते ।
अयं शब्दैर् अपोद्धृत्य पदार्थः प्रविभज्यते ॥८६॥

इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः ।
सर्वे तेन प्रकल्पेरन् पदं चेत् स्यद् अवाचकम् ॥८७॥

अविभक्ते ऽपि वाक्यार्थे शक्तिभेदाद् अपोद्धृते ।
वाक्यान्तरविभागेन यथोक्तं न विरुध्यते ॥८८॥

यथैवैकस्य गन्धस्य भेदेन परिकल्पना ।
पुष्पादिषु तथा वाक्ये ऽप्य् अर्थभेदो ऽभिधीयते ॥८९॥

गवये नरसिंहे वाप्य् एकज्ञानावृते यथा ।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥९०॥

अप्रसिद्धं तु यं भागम् अदृष्टम् अनुपश्यति ।
तावत्य् असंविदं मूढः सर्वत्र प्रतिपद्यते ॥९१॥

तथा पिकादियोगेन वाक्ये ऽत्यन्तविलक्षणे ।
सदृशस्येव संज्ञानम् असतो ऽर्थस्य मन्यते ॥९२॥

एकस्य भागे सादृश्यं भागे भेदश् च लक्ष्यते ।
निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ॥९३॥

तथैव भागे सादृश्यं भागे भेदो ऽवसीयते ।
भागाभावे ऽपि वाक्यानाम् अत्यन्तं भिन्नधर्मणाम् ॥९४॥

रूपनाशे पदानां स्यात् कथं चावधिकल्पना ।
अगृहीतावधौ शब्दे कथं चार्थो विविच्यते ॥९५॥

संसर्ग इव रूपाणां शब्दे ऽन्यत्र व्यवस्थितः ।
नानारूपेषु तद्रूपं तन्त्रेणापरम् इष्यते ॥९६॥

तस्मिन्न् अभेदे भेदानां संसर्ग इव वर्तते ।
रूपं रूपान्तरात् तस्माद् अनन्यत् प्रविभज्यते ॥९७॥

शास्त्रे प्रत्यायकस्यापि क्वचिद् एकत्वम् आश्रितम् ।
प्रत्याय्येन क्वचिद् भेदो ग्रहणग्राह्ययोः स्थितः ॥९८॥

ऊ इत्य् अभेदम् आश्रित्य यथासंख्यं प्रकल्पितम् ।
लृलुटोर् ग्रहणे भेदो ग्राह्याभ्यां परिकल्पितः ॥९९॥

यस्येत्य् एतद् अणो रूपं संज्ञिनाम् अभिधायकम् ।
न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः ॥१००॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP