वाक्यकांड - भाग ६
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
यौगपद्यम् अतिक्रम्य पर्याये व्यवतिष्ठते ।
अर्थप्रकरणाभ्यां वा योगाच् छब्दान्तरेण वा ॥२५१॥
यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते ।
तथा स एव गोशब्दो वाहीके ऽपि व्यवस्थितः ॥२५२॥
सर्वशक्तेस् तु तस्यैव शब्दस्यानेकधर्मणः ।
प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपजायते ॥२५३॥
एको मन्त्रस् तथाध्यात्मम् अधिदैवम् अधिक्रतु ।
असंकरेण सर्वार्थो भिन्नशक्तिर् अवस्थितः ॥२५४॥
गोत्वानुषङ्गो वाहीके निमित्तात् कैश् चिद् इष्यते ।
अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥२५५॥
तथा स्वरूपं शब्दानां सर्वार्थेष्व् अनुषज्यते ।
अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता ॥२५६॥
एकत्वं तु सरूपत्वाच् छब्दयोर् गौणमुख्ययोः ।
प्राहुर् अत्यन्तभेदे ऽपि भेदमार्गानुदर्शिनः ॥२५७॥
सामिधेन्यन्तरं चैवम् आवृत्ताव् अनुषज्यते ।
मन्त्रास् च विनियोगेन लभन्ते भेदम् ऊहवत् ॥२५८॥
तान्य् आम्नायान्तराण्य् एव पठ्यते किं चिद् एव तु ।
अनर्थकानां पाठो वा शेषस् त्व् अन्यः प्रतीयते ॥२५९॥
शब्दस्वरूपम् अर्थस् तु पाठे ऽन्यैर् उपवर्ण्यते ।
अत्यन्तभेदः सर्वेषां तत्संबन्धात् तु तद्वताम् ॥२६०॥
अन्या संस्कारसावित्री कर्मण्य् अन्या प्रयुज्यते ।
अन्या जपप्रबन्धेषु सा त्व् एकैव प्रतीयते ॥२६१॥
अर्थस्वरूपे शब्दानां स्वरूपाद् वृत्तिम् इच्छतः ।
वाक्यरूपस्य वाक्यार्थे वृत्तिर् अन्यानपेक्षया ॥२६२॥
अनेकार्थत्वम् एकस्य यैः शब्दस्यानुगम्यते ।
सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥२६३॥
अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह ।
युक्तः प्रत्याययत्य् अर्थं तं गौणम् अपरे विदुः ॥२६४॥
शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते ।
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥२६५॥
यस् त्व् अन्यस्य प्रयोगेण यत्नाद् इव नियुज्यते ।
तम् अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥२६६॥
स्वार्थे प्रवर्तमानो ऽपि यस्यार्थं यो ऽवलम्बते ।
निमित्तं तत्र मुख्यं स्यान् निमित्ती गौण इष्यते ॥२६७॥
पुराराद् इति भिन्ने ऽर्थे यौ वर्तेते विरोधिनि ।
अर्थप्रकरणापेक्षं तयोर् अप्य् अवधारणम् ॥२६८॥
वाक्यस्यार्थात् पदार्थानाम् अपोद्धारे प्रकल्पिते ।
शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते ॥२६९॥
यच् चाप्य् एकं पदं दृष्टं चरितास्तिक्रियं क्व चित् ।
तद् वाक्यान्तरम् एवाहुर् न तद् अन्येन युज्यते ॥२७०॥
यच् च को ऽयम् इति प्रश्ने गौर् अश्व इति चोच्यते ।
प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥२७१॥
नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका ।
आधिक्यम् अपि मन्यन्ते प्रसिद्धेर् न्यूनतां क्व चित् ॥२७२॥
जातिशब्दो ऽन्तरेणापि जातिं यत्र प्रयुज्यते ।
संबन्धिसदृशाद् धर्मात् तं गौणम् अपरे विदुः ॥२७३॥
विपर्यासाद् इवार्थस्य यत्रार्थान्तरताम् इव ।
मन्यन्ते स गवादिस् तु गौण इत्य् उच्यते क्व चित् ॥२७४॥
नियताः साधनत्वेन रूपशक्तिसमन्विताः ।
यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥२७५॥
क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः ।
रूपाद् एव तु तादर्थ्यं नियमेन प्रतीयते ॥२७६॥
तथैव रूपशक्तिभ्याम् उत्पत्त्या समवस्थितः ।
शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते ॥२७७॥
श्रुतिमात्रेण यत्रास्य सामर्थ्यम् अवसीयते ।
तं मुख्यम् अर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥२७८॥
गोयुष्मन्महतां च्व्यर्थे स्वार्थाद् अर्थान्तरे स्थितौ ।
अर्थान्तरस्य तद्भावस् तत्र मुख्यो ऽपि दृश्यते ॥२७९॥
महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते ।
भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ॥२८०॥
अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः ।
संज्ञिभिः संप्रयुज्यन्ते ऽप्रसिद्धेस् तेषु गौणता ॥२८१॥
अग्निदत्तस् तु यो ऽग्निः स्यात् तत्र स्वार्थोपसर्जनः ।
शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते ॥२८२॥
निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि ।
हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥२८३॥
ऋष्यादौ प्राप्तसंस्कारो यः शब्दो ऽन्येन युज्यते ।
तत्रान्तरङ्गसंस्कारो बाह्ये ऽर्थे न निवर्तते ॥२८४॥
अत्यन्तविपरीतो ऽपि यथा यो ऽर्थो ऽवधार्यते ।
यथासंप्रत्ययं शब्दस् तत्र मुख्यः प्रयुज्यते ॥२८५॥
यद्य् अपि प्रत्ययाधीनम् अर्थतत्त्वावधारणम् ।
न सर्वः प्रत्ययस् तस्मिन् प्रसिद्ध इव जायते ॥२८६॥
दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः ।
भेदात् तु स्पर्शनादीनां न जलं मृगतृष्णिका ॥२८७॥
यद् असाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः ।
तेन भेदपरिच्छेदस् तयोस् तुल्ये ऽपि दर्शने ॥२८८॥
प्रसिद्धार्थविपर्यास- निमित्तं यच् च दृश्यते ।
यस् तस्माल् लक्ष्यते भेदस् तम् असत्यं प्रचक्षते ॥२८९॥
यच् च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः ।
न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते ॥२९०॥
स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य संततः ।
न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥२९१॥
वप्रप्राकारकल्पैश् च स्पर्शनावरणे यथा ।
नगरेषु न ते तद्वद् गन्धर्वनगरेष्व् अपि ॥२९२॥
मृगपश्वादिभिर् यावान् मुख्यैर् अर्थः प्रसाध्यते ।
तावान् न मृन्मयेष्व् अस्ति तस्मात् ते विषयः कनः ॥२९३॥
महान् आव्रियते देशः प्रसिद्धैः पर्वतादिभिः ।
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥२९४॥
मरणादिनिमित्तं च यथा मुख्या विषादयः ।
न ते स्वप्नादिषु स्वस्य तद्वद् अर्थस्य साधकाः ॥२९५॥
देशकालेन्द्रियगतैर् भेदैर् यद् दृश्यते ऽन्यथा ।
यथा प्रसिद्धिर् लोकस्य तथा तद् अवसीयते ॥२९६॥
यच् चोपघातजं ज्ञानं यच् च ज्ञानम् अलौकिकम् ।
न ताभ्यां व्यवहारो ऽस्ति शब्दा लोकनिबन्धनाः ॥२९७॥
घटादिषु यथा दीपो येनार्थेन प्रयुज्यते ।
ततो ऽन्यस्यापि सांनिध्यात् स करोति प्रकाशनम् ॥२९८॥
संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते ।
तस्मात् प्रयोजकाद् अन्यान् अपि प्रत्याययत्य् असौ ॥२९९॥
निर्मन्थनं यथारण्योर् अग्न्यर्थम् उपपादितम् ।
धूमम् अप्य् अनभिप्रेतं जनयत्य् एकसाधनम् ॥३००॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP