वाक्यकांड - भाग ४
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
भावनानुगताद् एतद् आगमाद् एव जायते ।
आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते ॥१५१॥
स्वभाववरणाभास- योगादृष्टोपपादिताम् ।
विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥१५२॥
यथा संयोगिभिर् द्रव्यैर् लक्षिते ऽर्थे प्रयुज्यते ।
गोशब्दो न त्व् असौ तेषां विशेशाणां प्रकाशकः ॥१५३॥
आकारवर्णावयवैः संसृष्टेषु गवादिषु ।
शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ ॥१५४॥
संस्थानवर्णावयवैर् विशिष्टे ऽर्थे प्रयुज्यते ।
शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते ॥१५५॥
दुर्लभं कस्य चिल् लोके सर्वावयवदर्शनं ।
कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्सो ऽनुमीयते ॥१५६॥
तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् ।
नित्यसंबन्धिनां दृष्टं गुणानाम् अवधारणम् ॥१५७॥
संख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते ।
बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥१५८॥
संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः ।
आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥१५९॥
येनार्थेनाभिसंबद्धम् अभिधानं प्रयुज्यते ।
तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥१६०॥
यांस् तु संभविनो धर्मान् अन्तर्णीय प्रयुज्यते ।
शब्दस् तेषां न सांनिध्यं नियमेन व्यपेक्षते ॥१६१॥
यथा रोमशफादीनां व्यभिचारे ऽपि दृश्यते ।
गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते ॥१६२॥
तस्मात् संभविनो ऽर्थस्य शब्दात् संप्रत्यये सति ।
अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते ॥१६३॥
वाचिका द्योतिका व स्युर् द्वित्वादीनां विभक्तयः ।
स्याद् वा संख्यावतो ऽर्थस्य समुदायो ऽभिधायकः ॥१६४॥
विना संख्याभिधानाद् वा संख्याभेदसमन्वितान् ।
अर्थान् स्वरूपभेदेन काम्श् चिद् आहुर् गवादयः ॥१६५॥
ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते ॥१६६॥
यावच् चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् ।
नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु ॥१६७॥
संभवे नाभिधानस्य लक्षणत्वं प्रकल्पते ।
आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥१६८॥
न कूपसूपयूपानाम् अन्वयो ऽर्थस्य दृश्यते ।
अतो ऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥१६९॥
अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु ।
बहूनां संभवे ऽर्थानां निमित्तं किं चिद् इष्यते ॥१७०॥
वैरवासिष्ठगिरिशास् तथैकागारिकादयः ।
कैश् चित् कथं चिद् आख्याता निमित्तावधिसंकरैः ॥१७१॥
यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः ।
अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः ॥१७२॥
अन्यथा च समाख्यानम् अवस्थाभेददर्शिभिः ।
क्रियते किंशुकादीनाम् एकदेशावधारणं ॥१७३॥
कैश् चिन् निर्वचनं भिन्नं गिरतेर् गर्जतेर् गमेः ।
गवतेर् गदतेर् वापि गौर् इत्य् अत्रानुदर्शितम् ॥१७४॥
गौर् इत्य् एव स्वरूपाद् वा गोशब्दो गोषु वर्तते ।
व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते ॥१७५॥
सामान्येनोपदेशश् च शास्त्रे लघ्वर्थम् आश्रितः ।
जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः ॥१७६॥
अर्थान्तरे च यद् वृत्तं तत् प्रकृत्यन्तरं विदुः ।
तुल्यरूपं न तद् रूढाव् अन्यस्मिन्न् अनुषज्यते ॥१७७॥
भिन्नाव् इजियजी धातू नियतौ विषयान्तरे ।
कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् ॥१७८॥
एवं च वालवायादि जित्वरीवद् उपाचरेत् ।
भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् चन ॥१७९॥
अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः ॥१८०॥
तथा हि संग्रामयतेः सोपसर्गाद् विधिः स्मृतः ।
क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः ॥१८१॥
कार्याणाम् अन्तरङ्गत्वम् एवं धातूपसर्गयोः ।
साधनैर् याति संबन्धं तथाभूतैव सा क्रिया ॥१८२॥
प्रयोगार्थेषु सिद्धः सन् भेत्तव्यो ऽर्थो विशिष्यते ।
प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते ॥१८३॥
धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा ।
धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् ॥१८४॥
बीजकालेषु संबन्धाद् यथा लाक्षारसादयः ।
वर्णादिपरिणामेन फलानाम् उपकुर्वते ॥१८५॥
बुद्धिस्थाद् अभिसंबन्धात् तथा धातूपसर्गयोः ।
अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते ॥१८६॥
क्व चित् संभविनो भेदाः केवलैर् अनिदर्शिताः ।
उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥१८७॥
स वाचको विशेषाणां संभवाद् द्योतको ऽपि वा ।
शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥१८८॥
स्थादिभिः केवलैर् यच् च गमनादि न गम्यते ।
तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते ॥१८९॥
अप्रयोगे ऽधिपर्योश् च यावद् दृष्टं क्रियान्तरम् ।
तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः ॥१९०॥
तथैव स्वार्थिकाः के चित् संघातान्तरवृत्तयः ।
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥१९१॥
निपाता द्योतकाः के चित् पृथगर्थप्रकल्पने ।
आगमा इव के चित् तु संभूयार्थस्य साधकाः ॥१९२॥
उपरिष्टात् पुरस्ताद् वा द्योतकत्वं न भिद्यते ।
तेषु प्रयुज्यमानेषु भिन्नार्थेष्व् अपि सर्वथा ॥१९३॥
चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।
प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते ॥१९४॥
समुच्चिताभिधाने तु व्यतिरेको न विद्यते ।
असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते ॥१९५॥
समुच्चिताभिधाने ऽपि विशिष्टार्थाभिधायिनाम् ।
गुणैर् पदानां संबन्धः परतन्त्रास् तु चादयः ॥१९६॥
जनयित्वा क्रिया का चित् संबन्धं विनिवर्तते ।
श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् ॥१९७॥
तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये ।
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥१९८॥
स चोपजातः संबन्धो विनिवृत्ते क्रियापदे ।
कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥१९९॥
येन क्रियापदाक्षेपः स कारकविभक्तिभिः ।
युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता ॥२००॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP