वाक्यकांड - भाग ५

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


तिष्ठतेर् अप्रयोगश् च दृष्टो ऽप्रत्य् अजयन्न् इति ।
सुन्व् अभीत्य् आभिमुख्ये च केवलो ऽपि प्रयुज्यते ॥२०१॥

कर्मप्रवचनीयत्वं क्रियायोगे विधीयते ।
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥२०२॥

हेतुहेतुमतोर् योग- परिच्छेदे ऽनुना कृते ।
आरम्भाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥२०३॥

क्रियाया द्योतको नायं न संबन्धस्य वाचकः ।
नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः ॥२०४॥

अनर्थकानां संघातः सार्थको ऽनर्थकस् तथा ।
वर्णानां पदम् अर्थेन युक्तं नावयवाः पदे ॥२०५॥

पदानाम् अर्थयुक्तानां संघातो भिद्यते पुनः ।
अर्थान्तरावबोधेन संबन्धविगमेन च ॥२०६॥

सार्थकानर्थकौ भेदे संबन्धं नाधिगच्छतः ।
अधिगच्छत इत्य् एके कुटीरादिनिदर्शनात् ॥१०७॥

अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते ।
नोपजायत इत्य् एके समासस्वार्थिकादिषु ॥२०८॥

के चिद् धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां के चित् कल्पितशक्तयः ॥२०९॥

शास्त्रार्थ एव वर्णानाम् अर्थवत्त्वे प्रदर्शितः ।
धात्वादीनां हि शुद्धानां लौकिको ऽर्थो न विद्यते ॥२१०॥

कृत्तद्धितानाम् अर्थश् च केवलानाम् अलौकिकः ।
प्राग् विभक्तेस् तदन्तस्य तथैवार्थो न विद्यते ॥२११॥

अभिव्यक्ततरो यो ऽर्थः प्रत्ययान्तेषु लक्ष्यते ।
अर्थवत्ताप्रकरणाद् आश्रितः स तथाविधः ॥२१२॥

आत्मभेदो न चेत् कश् चिद् वर्णेभ्यः पदवाक्ययोः ।
अन्योन्यापेक्षया शक्त्या वर्णः स्याद् अभिधायकः ॥२१३॥

वर्णेन केन चिन् न्यूनः संघातो यो ऽभिधायकः ।
न चेच् छब्दान्तरम् असाव् अन्यूनस् तेन गम्यते ॥२१४॥

स तस्मिन् वाचके शब्दे निमित्तात् स्मृतिम् आदधत् ।
साक्षाद् इव व्यवहितं शब्देनार्थम् उपोहते ॥२१५॥

पदवाच्यो यथा नार्थः कश् चिद् गौरखरादिषु ।
सत्य् अपि प्रत्यये ऽत्यन्तं समुदाये न गम्यते ॥२१६॥

समन्वित इवार्थात्मा पदार्थैर् यः प्रतीयते ।
पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥२१७॥

समुदायावयवयोर् भिन्नार्थत्वे च वृत्तिषु ।
युगपद् भेदसंसर्गौ विरुद्धाव् अनुषङ्गिणौ ॥२१८॥

कश् च साधनमात्रार्थान् अध्यादीन् परिकल्पयेत् ।
अप्रयुक्तपदश् चार्थो बहुव्रीहौ कथं भवेत् ॥२१९॥

प्रज्ञुसंज्ञ्वाद्यवयवैर् न चास्त्य् अर्थावधारणम् ।
तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् ॥२२०॥

गर्गा इत्य् एक एवायं बहुष्व् अर्थेषु वर्तते ।
द्वन्द्वसंज्ञो ऽपि संघातो बहूनाम् अभिधायकः ॥२२१॥

यथैकशेषे भुज्यादिः प्रत्येकम् अवतिष्ठते ।
क्रियैवं द्वन्द्ववाच्ये ऽर्थे प्रत्येकं प्रविभज्यते ॥२२२॥

यच् च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम् ।
सापि व्यावृत्तरूपे ऽर्थे सर्वनामसरूपता ॥२२३॥

यथा च खदिरच्छेदे भागेषु क्रमवांस् छिदिः ।
तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥२२४॥

सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः ।
क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः ॥२२५॥

प्रतिपादयता वृत्तिम् अबुद्धान् वाक्यपूर्विकाम् ।
वृत्तौ पदार्थभेदेन प्राधान्यम् उपदर्शितम् ॥२२६॥

अभेदाद् अभिधेयस्य नञ्समासे विकल्पितम् ।
प्राधान्यं बहुधा भाष्ये दोषास् तु प्रक्रियागताः ॥२२७॥

जहत्स्वार्थविकल्पे च सर्वार्थत्यागम् इच्छता ।
बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥२२८॥

शास्त्रे क्व चित् प्रकृत्यर्थः प्रत्ययेनाभिधीयते ।
प्रकृतौ विनिवृत्तायां प्रत्ययार्थश् च धातुभिः ॥२२९॥

यम् अर्थम् आहतुर् भिन्नौ प्रत्ययाव् एक एव तम् ।
क्व चिद् आह पचन्तीति धातुस् ताभ्यां विना क्व चित् ॥२३०॥

अन्वाख्यानस्मृतेर् ये च प्रत्ययार्था निबन्धनम् ।
निर्दिष्टास् ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥२३१॥

प्रसिद्धेर् उद्वमिकरीत्य् एवं शास्त्रे ऽभिधीयते ।
व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥२३२॥

शास्त्रेषु प्रक्रियाभेदैर् अविद्यैवोपवर्ण्यते ।
अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥२३३॥

अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा ।
तथा विद्याप्य् अनाख्येया शास्त्रोपायेव लक्ष्यते ॥२३४॥

यथाभ्यासं हि वाग् अर्थे प्रतिपत्तिं समीहते ।
स्वभाव इव चानादिर् मिथ्याभ्यासो व्यवस्थितः ॥२३५॥

उत्प्रेक्षते सावयवं परमाणुम् अपण्डितः ।
तथावयविनं युक्तम् अन्यैर् अवयवैः पुनः ॥२३६॥

घटादिदर्शनाल् लोकः परिच्छिन्नो ऽवसीयते ।
समारम्भाच् च भावानाम् आदिमद् ब्रह्म शाश्वतम् ॥२३७॥

उपायाः शिक्षमाणानां बालानाम् उपलापनाः ।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥२३८॥

अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् ।
पुनर् वाक्ये तम् एवार्थम् अन्यथा प्रतिपद्यते ॥२३९॥

उपात्ता बहवो ऽप्य् अर्था येष्व् अन्ते प्रतिषेधनम् ।
क्रियते ते निवर्तन्ते तस्मात् तांस् तत्र नाश्रयेत् ॥२४०॥

वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् ।
नार्थे न बुद्धौ संबन्धो निवृत्तेर् अवतिष्ठते ॥२४१॥

विच्छेदप्रतिपत्तौ च यद्य् अस्तीत्य् अवधार्यते ।
अशब्दवाच्या सा बुद्धिर् निवर्त्येत स्थिता कथम् ॥२४२॥

अथ यज् ज्ञानम् उत्पन्नं तन् मिथ्येति नञा कृतम् ।
नञो व्यापारभेदे ऽस्मिन्न् अभावावगतिः कथम् ॥२४३॥

निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर् नञो भवेत् ।
अथाधारः स एवास्य नियमार्था श्रुतिर् भवेत् ॥२४४॥

नियमद्योतनार्था वाप्य् अनुवादो यथा भवेत् ।
कश् चिद् एवार्थवांस् तत्र शब्दः शेषास् त्व् अनर्थकाः ॥२४५॥

विरुद्धं चाभिसंबन्धम् उदाहार्यादिभिः कृतम् ।
वाक्ये समाप्ते वाक्यार्थम् अन्यथा प्रतिपद्यते ॥२४६॥

स्तुतिनिन्दाप्रधानेषु वाक्येष्व् अर्थो न तादृशः ।
पदानां प्रविभागेन यादृशः परिकल्प्यते ॥२४७॥

अथासंसृष्ट एवार्थः पदेषु समवस्थितः ।
वाक्यार्थस्याभ्युपायो ऽसाव् एकस्य प्रतिपादने ॥२४८॥

पूर्वं पदेष्व् असंसृष्टो यः क्रमाद् उपचीयते ।
छिन्नग्रथितकल्पत्वात् तद् विशिष्टतरं विदुः ॥२४९॥

एकम् आहुर् अनेकार्थं शब्दम् अन्ये परीक्षकाः ।
निमित्तभेदाद् एकस्य सार्वार्थ्यं तस्य भिद्यते ॥२५०॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP