अथोदयस्तमययोः परिज्ञानम् प्रकीर्त्यते ।
दिवाकरकराक्रान्तमूर्तिनाम् अप्लतेजसाम् ॥१॥
सूर्याद् अभ्यधिकाः पश्चाद् अस्तम् जीवकुजार्जजाः ।
ऊनाः प्रागुदयम् यान्ति शुक्रज्ञौ वक्रिणौ तथा ॥२॥
ऊना विवस्वतः प्राच्याम् अस्तम् चन्द्रज्ञभार्गवाः ।
व्रजन्त्य् अभ्यधिकाः पस्चाद् उदयम् शीघ्रयायिनः ॥३॥
सूर्यास्तकालिकौ पश्चात् प्राच्याम् उदयकालिकौ ।
दिवा चार्कग्रहौ कुर्याद् दृक्कर्माथ ग्रहस्य तु ॥४॥
ततो लग्नान्तरप्राणाह् कालाम्शाः षष्टिभाजिताः ।
प्रतीच्याम् षड्भयुतयोस् तद्वल् लग्नान्तरासवः ॥५॥
एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च ।
अस्ताम्शा भूमिपुत्रस्य दश सप्ताधिकास् ततः ॥६॥
पश्चाद् अस्तमयो अष्टाभिर् उदयः प्राङ्महत्तया ।
प्राग् अस्तम् उदयः पश्चाद् अल्पत्वाद् दशभिर् भृगोः ॥७॥
एवम् बुधो द्वादशभिश् चतुर्दशभिर् अम्शकैः ।
वक्री शीघ्रगतिश् चार्कात् करोत्य् अस्त्मयोदयौ ॥८॥
एभ्यो अधिकैः कालभागैर् दृश्या न्यूनैर् अदर्शनाः ।
भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः ॥९॥
तत्कालाम्शान्तरकला भुक्त्यन्तरविभाजिताः ।
दिनादि तत्फलम् लब्धम् भुक्तियोगेन वक्रिणः ॥१०॥
तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते ।
स्याताम् कालगती ताभ्याम् दिनादि गतगम्ययोः ॥११॥
स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः ।
अभिजिद् ब्रह्महृदयम् त्रयोदशभिर् अम्शकैः ॥१२॥
हस्तश्रवणफाल्गुन्यः श्रविष्टा रोहिणीमघाः ।
चतुर्दशाम्शकैर् दृश्या विशाखाश्विनिदैवतम् ॥१३॥
कृत्तिकामैत्रमूलानि सार्पम् रौद्रर्क्षम् एव च ।
दृश्यन्ते पञ्चदशभिर् आषाढाद् द्वितयम् तथा ॥१४॥
भरणीतिष्यसौम्यानि सौक्ष्म्यात् त्रिःसप्तकाम्शकैः ।
शेषाणि सप्तदशभिर् दृश्यादृश्यानि भानि तु ॥१५॥
अष्टादशशताभ्यस्ता दृश्याम्शाः स्वोदयासुभिः ।
विभज्य लब्धाः क्षेत्राम्शास् तैर् दृश्यादृश्यताथवा ॥१६॥
प्राग् एषाम् उदयः पश्चाद् अस्तो दृक्कर्म पूर्ववत् ।
गतैष्यदिवसप्राप्तिर् भानुभुक्त्या सदैव हि ॥१७॥
अभिजिद् ब्रह्महृदयम् स्वातीवैष्णववासवाः ।
अहिर्बुध्न्यम् उदक्स्थत्वान् न लुप्यन्ते अर्करश्मिभिः ॥१८॥