अथ गुप्ते शुचौ देशे स्नातः शुचिर् अलङ्कृतः ।
सम्पूज्य भास्करम् भक्त्या ग्रहान् भान्य् अथ गुह्यकान् ॥१॥
पारम्पर्योपदेशेन यथाज्ञानम् गुरोर् मुखात् ।
आचार्यः शिष्यबोधार्थम् सर्वम् प्रत्यक्षदर्शिवान् ॥२॥
भूभगोलस्य रचनाम् कुर्याद् आश्चर्यकारिणीम् ।
अभीष्टम् पृथिवीगोलम् कारयित्वा तु दारवम् ॥३॥
दण्डम् तन्मध्यगम् मेरोर् उभयत्र विनिर्गतम् ।
आधारकक्षाद्वितयम् कक्षा वैषुवती तथा ॥४॥
भगणाम्शाङ्गुलैः कार्या दलितैस् तिस्र एव ताः ।
स्वाहोरात्रार्धकर्णैश् च तत्प्रमाणानुमानतः ॥५॥
क्रान्तिविक्षेपभागैश् च दलितैर् दक्षिणोत्तरैः ।
स्वैः स्वैर् अपक्रमैस् तिस्रो मेषादीनाम् अपक्रमात् ॥६॥
कक्षाः प्रकल्पयेत् ताश् च कर्क्यादीनाम् विपर्ययात् ।
तद्वत् तिस्रस् तुलादीनाम् मृगादीनाम् विलोमतः ॥७॥
याम्यगोलाश्रिताः कार्याः कक्षाधाराद् द्वयोर् अपि ।
याम्योदग्गोलसम्स्थानाम् भानाम् अभिजितस् तथा ॥८॥
सप्तर्षीणाम् अगस्त्यस्य ब्रह्मादीनाम् च कल्पयेत् ।
मध्ये वैषुवती कक्षा सर्वेषाम् एव सम्स्थिता ॥९॥
तदाधारयुतेर् ऊर्ध्वम् अयने विषुवद्वयम् ।
विषुवत्स्थानतो भागैः स्फुटैर् भगणसञ्चरात् ॥१०॥
क्षेत्राण्य् एवम् अजादीनाम् तिर्यग्ज्याभिः प्रकल्पयेत् ।
अयनाद् अयनम् चैव कक्षा तिर्यक् तथापरा ॥११॥
क्रान्तिसञ्ज्ञा तया सूर्यः सदा पर्येति भासयन् ।
चन्द्राद्याश् च स्वकैः पातैर् अपमण्डलम् आश्रितैः ॥१२॥
ततो अपकृष्टा दृश्यन्ते विक्षेपान्तेष्व् अपक्रमात् ।
उदयक्षितिजे लग्नम् अस्तम् गच्छच् च तद्वशात् ॥१३॥
लङ्कोदयैर् यथासिद्धम् खमध्योपरि मध्यमम् ।
मध्यक्षितिजयोर् मध्ये या ज्या सान्त्याभिधीयते ॥१४॥
ज्ञेया चरदलज्या च विषुवत् क्षितिजान्तरम् ।
कृत्वोपरि स्वकम् स्थानम् मध्ये क्षितिजमण्डलम् ॥१५॥
वस्त्रच्छन्नम् बहिस् चापि लोकालोकेन वेष्टितम् ।
अमृतस्रावयोगेन कालभ्रमणसाधनम् ॥१६॥
तुङ्गबीजसमायुक्तम् गोलयन्त्रम् प्रसाधयेत् ।
गोप्यम् एतत् प्रकाशोक्तम् सर्वगम्यम् भवेद् इह ॥१७॥
तस्माद् गुरूपदेशेन रचयेद् गोलम् उत्तमम् ।
युगे युगे समुच्छिन्ना रचनेयम् विवस्वतः ॥१८॥
प्रसादात् कस्यचिद् भूयः प्रादुर् भवति कामतः ।
कालसम्साधनार्थाय तथा यन्त्राणि साधयेत् ॥१९॥
एकाकी योजयेद् बीजम् यन्त्रे विस्मयकारिणि ।
शङ्कुयष्टिधनुश्चक्रैश् छायायन्त्रैर् अनेकधा ॥२०॥
गुरूपदेशाद् विज्ञेयम् कालज्ञानम् अतन्द्रितैः ।
तोययन्त्रकपालाद्यैर् मयूरनरवानरैः ॥
ग ससूत्ररेणुगर्भैश् च सम्यक् कालम् प्रसाधयेत् ॥२१॥
पारदाराम्बुसूत्राणि शुल्वतैलजलानि च ।
बीजानि पाम्सवस् तेषु प्रयोगास् ते अपि दुर्लभाः ॥२२॥
ताम्रपात्रम् अधश्छिद्रम् न्यस्तम् कुण्डे अमलाम्भसि ।
षष्टिर् मज्जत्य् अहोरात्रे स्फुटम् यन्त्रम् कपालकम् ॥२३॥
नरयन्त्रम् तथा साधु दिवा च विमले रवौ ।
छायासम्साधनैः प्रोक्तम् कालसाधनम् उत्तमम् ॥२४॥
ग्रहनक्षत्रचरितम् ज्ञात्वा गोलम् च तत्त्वतः ।
ग्रहलोकम् अवाप्नोति पर्यायेणात्मवान् नरः ॥२५॥