ब्राह्मम् दिव्यम् तथा पित्र्यम् प्राजापत्यम् गुरोस् तथा ।
सौरम् च सावनम् चान्द्रम् आर्क्षम् मानानि वै नव ॥१॥
चतुर्भिर् व्यवहारो अत्र सौरचान्द्रार्क्षसावनैः ।
बार्हस्पत्येन षष्ट्यब्दम् ज्ञेयम् नान्यैस् तु नित्यशः ॥२॥
सौरेण द्युनिशोर् मानम् षडशीतिमुखानि च ।
अयनम् विषुवच्चैव सम्क्रान्तेः पुण्यकालता ॥३॥
तुलादि षडशीत्यह्नाम् षडशीतिमुखम् क्रमात् ।
तच्चतुष्टयम् एव स्याद् द्विस्वभावेषु राशिषु ॥४॥
षड्विम्शे धनुषो भागे द्वाविम्शे निमिषस्य च ।
मिथुनाष्टादशे भागे कन्यायास् तु चतुर्दश ॥५॥
ततः शेषाणि कन्याया यान्य् अहानि तु षोडश ।
क्रतुभिस् तानि तुल्यानि पितृऋणाम् दत्तम् अक्षयम् ॥६॥
भचक्रनाभौ विषुवद्द्वितयम् समसूत्रगम् ।
अयनद्वितयम् चैव चतस्रः प्रथितास् तु ताः ॥७॥
तदन्तरेषु सम्क्रान्तिद्वितयम् द्वितयम् पुनः ।
नैरन्तर्यात् तु सम्क्रान्तेर् ज्ञेयम् विष्णुपदीद्वयम् ॥८॥
भानोर् मकरसङ्क्रान्तेः षण्मासा उत्तरायणम् ।
कर्क्यादेस् तु तथैव स्यात् षण्मासा दक्षिणायनम् ॥९॥
द्विराशिनाथ ऋतवस् ततो अपि शिशिरादयः ।
मेषादयो द्वादशैते मासास् तैर् एव वत्सरः ॥१०॥
अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः ।
तदर्धनाड्यः सङ्क्रान्तेर् अर्वाक् पुण्यम् तथा परे ॥११॥
अर्काद् विनिःसृतः प्राचीम् यद् यात्य् अहरहः शशी ।
तच् चान्द्रमानम् अम्शैस् तु ज्ञेया द्वादशभिस् तिथिः ॥१२॥
तिथिः करणम् उद्वाहः क्षौरम् सर्वक्रियास् तथा ।
व्रतोपवासयात्राणाम् क्रिया चान्द्रेण गृह्यते ॥१३॥
त्रिम्शता तिथिभिर् मासश् चान्द्रः पित्र्यम् अहः स्मृतम् ।
निशा च मासपक्षान्तौ तयोर् मध्ये विभागतः ॥१४॥
भचक्रभ्रमणम् नित्यम् नाक्षत्रम् दिनम् उच्यते ।
नक्षत्रनाम्ना मासास् तु ज्ञेयाः पर्वान्तयोगतः ॥१५॥
कार्तिक्यादिषु सम्योगे कृत्तिकादि द्वयम् द्वयम् ।
अन्त्योपान्त्यौ पञ्चमश् च त्रिधा मासत्रयम् स्मृतम् ॥१६॥
वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ ।
कार्त्तिकादीनि वर्षाणि गुरोर् अस्तोदयात् तथा ॥१७॥
उदयाद् उदयम् भानोः सावनम् तत् प्रकीर्तितम् ।
सावनानि स्युर् एतेन यज्ञकालविधिस् तु तैः ॥१८॥
सूतकादिपरिच्छेदो दिनमासाब्दपास् तथा ।
मध्यमा ग्रहभुक्तिस् तु सावनेनैव गृह्यते ॥१९॥
सुरासुराणाम् अन्योन्यम् अहोरात्रम् विपर्ययात् ।
यत्प्रोक्तम् तद् भवेद् दिव्यम् भानोर् भगणपूरणात् ॥२०॥
मन्वन्तरव्यवस्था च प्राजापत्यम् उदाहृतम् ।
न तत्र द्युनिशोर् भेदो ब्राह्मम् कल्पः प्रकीर्तितम् ॥२१॥
एतत् ते परमाख्यातम् रहस्यम् परमाद्भुतम् ।
ब्रह्मैतत् परमम् पुण्यम् सर्वपापप्रणाशनम् ॥२२॥
दिव्यम् चार्क्षम् ग्रहाणाम् च दर्शितम् ज्ञानम् उत्तमम् ।
विज्ञायार्कादिलोकेषु स्थानम् प्राप्नोति शास्वतम् ॥२३॥
इत्य् उक्त्वा मयम् आमन्त्र्य सम्यक् तेनाभिपूजितः ।
दिवम् आचक्रमे अर्काम्शः प्रविवेश स्वमण्डलम् ॥२४॥
मयो अथ दिव्यम् तज्ञानम् ज्ञात्वा साक्षाद् विवस्वतः ।
कृतकृत्यम् इवात्मानम् मेने निर्धूतकल्मषम् ॥२५॥
ज्ञात्वा तम् ऋषयश् चाथ सूर्यलब्धवरम् मयम् ।
परिबब्रुर् उपेत्याथो ज्ञानम् पप्रच्छुर् आदरात् ॥२६॥
स तेभ्यः प्रददौ प्रीतो ग्रहाणाम् चरितम् महत् ।
अत्यद्भुततमम् लोके रहस्यम् ब्रह्मसम्मितम् ॥२७॥
इति सुर्यसिद्धान्तः