१-१ राक्षसेन्द्रस् ततो ऽभैषीदैक्षिष्ट परितः पुरम्,
१-२ प्रातिष्ठिपच् च बोधाऽर्थं कुम्भकर्णस्य राक्षसान्,
२-१ ते ऽभ्यगुर् भवनं तस्य, सुप्तं चैक्षिषता ऽथ तम्,
२-२ व्याहार्षुस् तुमुलान् शब्दान्, दण्डैश् चा ऽवधिषुर् द्रुतम्
३-१ केशानलुञ्चिषुस्, तस्य गजान् गात्रेष्वचिक्रमन्,
३-२ शीतैरभ्यषिचंस् तोयैरलातैश् चाऽप्यदम्भिषुः.
४-१ नखैरकर्तिषुस् तीक्ष्णैरदाङ्क्षुर् दशनैस् तथा,
४-२ शितैरतौत्सुः शूलैश् च, भेरीश् चाऽवीवदन् शुभाः.
५-१ स तान् ना ऽजीगणत् सर्वा- निच्छया ऽबुद्ध च स्वयम्,
५-२ अबूबुधत कस्मान् मा- मप्राक्षीच् च निशा-चरान्.
६-१ ते ऽभाषिषत "राजा त्वां दिदृक्षुः क्षणदा-चर !"
६-२ सोऽस्नासीद्, व्यलिपन्, मांसमप्सासीद्, वारुणीमपात्
७-१ न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत् गृहात्.
७-२ राजा यान्तं तमद्राक्षीदुदस्थाच् चेषदासनात्.
८-१ अतुषत्, पीठमासन्ने निरदिक्षच् च काञ्चनम्.
८-२ अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथा ऽन्तिके.
९-१ अवादीन् "मां किमित्याह्वो" राज्ञा च प्रत्यवादि सः
९-२ "माज्ञासीस् त्वं सुखी, रामो यदकार्षीत् स रक्षसाम्.
१०-१ उदतारीदुदन्वन्तं, पुरं नः परितो ऽरुधत्,
१०-२ व्यद्योतिष्ट रणे शस्त्रैरनैषीद् राक्षसान् क्षयम्.
११-१ न प्रावोचमहं किंचित् प्रियं, यावदजीविषम्,
११-२ बन्धुस् त्वमर्चितः स्नेहान् माद्विषो न वधीर् मम
१२-१ वीर्यं मा न ददर्शस् त्वं, मा न त्रास्थाः क्षतां पुरम्,
१२-२ तवा ऽद्राक्ष्म वयं वीर्यं, त्वमजैषीः पुरा सुरान्"
१३-१ अवोचत् कुम्भकर्णस् तं, "वयं मन्त्रेऽभ्यधाम यत्
१३-२ न त्वं सर्वं तदश्रौषीः, फलं तस्येदमागमत्.
१४-१ प्राज्ञ-वाक्यान्यवामंस्था, मूर्ख-वाक्येष्ववाऽस्थिथाः
१४-२ अध्यगीष्ठाश् च शास्त्राणि, प्रत्यपत्था हितं न च
१५-१ मूर्खास् त्वामववञ्चन्त, ये विग्रहमचीकरन्,
१५-२ अभाणीन् माल्यवान् युक्तमक्षंस्थास् त्वं न तन् मदात्
१६-१ राघवस्या ऽमुषः कान्तामाप्तैरुक्तो न चाऽर्पिपः,
१६-२ मा नाऽनुभूः स्वकान् दोषान्, मा मुहो मा रुषोऽधुना.
१७-१ तस्याऽप्यत्यक्रमीत् कालो, यत् तदाऽहमवादिषम्
१७-२ अघानिषत रक्षासि परैः, कोशांस् त्वमव्ययीः
१८-१ सन्धान-कारणं तेजो न्यगभूत् ते, कृथास् तथा,
१८-२ यत् त्वं वैराणि कोशं च सह-दण्डमजिग्लपः."
१९-१ अक्रुधच् चाऽभ्यधाद् वाक्यं कुम्भकर्णं दशाननः
१९-२ "किं त्वं मामजुगुप्सिष्ठा, नैदिधः स्व-पराक्रमम्.
२०-१ मोज्जिग्रहः सु-नीतानि, मा स्म क्रंस्था न संयुगे,
२०-२ मोपालब्धाह् कृतैर् दोषैर् मा न वाक्षीर् हितं परम्."
२१-१ कुम्भकर्णस् ततो ऽगर्जीद्, भटांश् चा ऽन्यान् न्यवीवृतत्.
२१-२ उपायंस्त महाऽस्त्राणि, निरगाच् च द्रुतं पुरः.
२२-१ मूर्ध्ना दिवमिवा ऽलेखीत्, खं व्यापद् वपुषोरुणा,
२२-२ पादाभ्यां क्ष्मामिवा ऽभैस्तीत्, दृष्ट्या ऽधाक्षीदिव द्विशः
२३-१ दग्ध-शैल इवा ऽभासीत्, प्राक्रंस्त क्षय-मेघ-वत्,
२३-२ प्राचकम्पदुदन्वन्तं, राक्षसानप्यतित्रसत्.
२४-१ स-पक्षो ऽद्रिरिवा ऽचालीन्, न्यश्वसीत् कल्प-वायु-वत्,
२४-२ अभार्षीद् ध्वनिना लोका- नभ्राजिष्ट क्षयाऽग्नि-वत्.
२५-१ अनंसीद् भूर् भरेणा ऽस्य, रंहसा शाखिनो ऽलुठन्,
२५-२ सिंहाः प्रादुद्रुवन् भीताः, प्राक्षुभन् कुल-पर्वताः
२६-१ उत्पाताः प्रावृतंस् तस्य, द्यौरशीकिष्ट शोणितम्,
२६-२ वायवोऽवासिषुर् भीमाः, क्रूराश् चाऽकुषत द्विजाः.
२७-१ अस्पन्दिष्टा ऽक्षि वामं च, घोराश् चा ऽराटिषुः शिवाः,
२७-२ न्यपप्तन् मुसले गृध्रा, दीप्तया ऽपाति चोल्कया.
२८-१ आंहिष्ट तान-संमान्य दर्पात् स प्रधन-क्षितिम्,
२८-२ ततोऽनर्दीदनन्दीच् च, शत्रूनाह्वास्त चाऽऽहवे.
२९-१ प्राशीन्, न चा ऽतृपत् क्रूरः, क्षुच् चाऽस्याऽवृधदश्नतः,
२९-२ अधाद् वसामधासीच् च रुधिरं वन-वासिनाम्.
३०-१ माम्सेना ऽस्या ऽश्वतां कुक्षी, जठरं चा ऽप्यशिश्वियत्,
३०-२ बहूनामग्लुचत् प्राणा- नग्लोचीच् च रणे यशः.
३१-१ सामर्थ्यं चा ऽपि सो ऽस्तम्भीद् विक्रमं चाऽस्य ना ऽस्तभन्,
३१-२ शाखिनः केचिदध्यष्ठुर् न्यमाङ्क्षुरपरे ऽम्बु-धौ.
३२-१ अन्ये त्वलङ्घिषुः, शैलान्, गुहास्वन्ये न्यलेषत,
३२-२ केचिदासिषत स्तब्धा, भयात् केचिदघूर्णिषुः.
३३-१ उदतारिषुरम्भो-धिं वानराः सेतुना ऽपरे,
३३-२ अलज्जिष्टाऽङ्गदस् तत्र, प्रत्यवास्थित चोर्जितम्.
३४-१ सत्त्वं समदुधुक्षच् च वानराणामयुद्ध च,
३४-२ ततः शैलानुदक्षैप्सुरुदगूरिषत द्रुमान्.
३५-१ अनर्दिषुः कपि-व्याघ्राः, सम्यक् चा ऽयुत्सताऽऽहवे,
३५-२ तानमर्दीदखादीच् च, निरास्थच् च तलाऽऽहतान्,
३६-१ प्राचुचूर्णच् च पादाभ्यामबिभीषत च द्रुतम्,
३६-२ अतर्हीच् चैव शूलेन कुम्भकर्णः प्लवङ्गमान्.
३७-१ अतौत्सीद् गदया गाढमपिषच् चोपगूहनैः,
३७-२ जनुभ्यामदमीच् चाऽन्यान्, हस्त-वर्तमवीवृतत्,
३८-१ अदालिषुः शिला देहे, चूर्ण्यभूवन् महा-द्रुमाः,
३८-२ क्षिप्तास् तस्य न चा ऽचेतीत् तानसौ, ना ऽपि चा ऽक्षुभत्.
३९-१ अद्राष्टां तं रघु-व्याघ्रौ आख्यच् चैनं विभीषणः
३९-२ "एष व्यजेष्ट देवेन्द्रं, नाऽशङ्किष्ट विवस्वतः.
४०-१ यक्षेन्द्र-शक्तिमच्छासीन्, ना ऽप्रोथीदस्य कश्चन,
४०-२ कुम्भकर्णान् न भैष्टं मा युवामस्मान् नृपाऽऽत्मजौ.
४१-१ घ्नन्तं मोपेक्षिषाथां च, मा न कार्ष्टमिहाऽऽदरम्.,
४१-२ "अमुं मा न वधिष्टे"ति रामोऽवादीत् ततः कपीन्.
४२-१ ते व्यरासिषुराह्वन्त राक्षसं चा ऽप्यपिप्लवन्,
४२-२ अबभासन् स्वकाः शक्तीर्, द्रुम-शैलं व्यकारिषुः
४३-१ ते तं व्याशिषता ऽक्षौत्सुः पादैर्, दन्तैस् तथा ऽच्छिदन्.
४३-२ आर्जिजत् शरभो वृक्षं, नीलस् त्वा ऽऽदित पर्वतम्.
४४-१ ऋषभो ऽद्रीनुदक्षैप्सीत्, ते तैररिमतर्दिषुः.
४४-२ अस्फूर्जीद्, गिरि-शृङ्गं च व्यस्राक्षीद् गन्धमादनः,
४५-१ अकूर्दिष्ट, व्यकारीच् च गवाक्षो भू-धरान् बहून्.
४५-२ स तान् नाऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न.
४६-१ अमन्थीच् च पराऽनीकमप्लोष्ट च निरङ्कुशः,
४६-२ निहन्तुं चाऽत्वरिष्टाऽरीनजक्षीच् चाऽङ्कमागतान्.
४७-१ व्यक्रुक्षद् वानराऽनीकं, संपलायिष्ट चाऽऽयति,
४७-२ हस्ताभ्यां नश्यदक्राक्षीद्, भीमे चोपाधिताऽऽनने.
४८-१ रक्तेना ऽचिक्लिदद् भूमिं, सैन्यैश् चा ऽतस्तरद्धतैः,
४८-२ ना ऽतार्प्सीद् भक्षयन् क्रूरो, ना ऽश्रमद् घ्नन् प्लवङ्गमान्,
४९-१ न योद्धुमशकन् केचिन्, ना ऽढौकिषत केचन,
४९-२ प्राणशन् नासिकाभ्यां च, वक्त्रेण च वनौकसः.
५०-१ उदरे चा ऽजरन्नन्ये तस्य पाताल-सन्निभे,
५०-२ आक्रन्दिषुः, सखीनाह्वन्, प्रपलायिषताऽस्विदन्.
५१-१ रक्तमश्च्योतिषुः क्षुण्णाः, क्षताश् च कपयोऽतृषन्,
५१-२ उपास्थायि नृपो भग्नैरसौ सुग्रीवमैजिहत्.
५२-१ योद्धुं सो प्यरुषच्छत्रोरैरिरच् च महा-द्रुमम्.
५२-२ तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चोग्रामुदग्रहीत्.
५३-१ स तामबिभ्रमद् भीमां, वानरेन्द्रस्य चा ऽमुचत्.
५३-२ प्रापप्तन् मारुतिस् तत्र तां चा ऽलासीद् वियद्-गताम्.
५४-१ अशोभिष्टाऽचखण्डच् च शक्तिं वीरो, न चा ऽयसत्.
५४-२ लौह-भार-सहस्रेण निर्मिता निरकारि मे
५५-१ शक्तिरत्यकुपद् रक्षो, गिरिं चोदखनीद् गुरुम्,
५५-२ व्यसृष्ट तं कपी-न्द्रस्य, तेनाऽमूर्च्छीदसौ क्षतः.
५६-१ अलोठिष्ट च भू-पृष्ठे, शोणितं चा ऽप्यसुस्रुवत्,
५६-२ तमादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः.
५७-१ अभैषुः कपयो, ऽन्वारत् कुम्भुकर्णं मरुत्-सुतः,
५७-२ शनैरबोधि सुग्रीवः, सोऽलुञ्चीत् कर्ण-नासिकम्
५८-१ राक्षसस्य, न चा ऽत्रासीत्, प्रनष्टुमयतिष्ट च.
५८-२ अक्रोधि कुम्भकर्णेन, पेष्टुमारम्भि च क्षितौ.
५९-१ सुग्रीवो ऽस्या ऽभ्रशद्धस्तात्, समगाहिष्ट चा ऽम्बरम्,
५९-२ तूर्णमन्वसृपद् राम- माननन्दच् च वानरान्.
६०-१ अतत्वरच् च तान् योद्धुमचिचेष्टच् च राघवौ.
६०-२ कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः.
६१-१ अविवेष्टन् नृपाऽऽदेशादारुक्षंश् चाऽऽशु राक्षसम्
६१-२ तानधावीत् समारूढांस् ते ऽप्युस्रंसिषता ऽऽकुलाः.
६२-१ अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच् च निर्-दयम्.
६२-२ ते चा ऽप्यघोरिषुर् घोरं, रक्तं चा ऽवमिषुर् मुखैः.
६३-१ स चाऽपि रुधिरैर् मत्तः स्वेषामप्यदयिष्ट न,
६३-२ अग्रहीच् चा ऽऽयुरन्येषामरुद्ध च पराक्रमम्.
६४-१ संत्रस्तानांअपाहारि सत्त्वं च वन-वासिनाम्,
६४-२ अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा.
६५-१ अभेदि च शरैर् देहः प्राशंसीत् तं निशा-चरः.
६५-२ अस्पर्धिष्ट च रामेण तेना ऽस्या ऽक्षिप्सतेषवः,
६६-१ यैरघानि खरो, वाली, मारीचो, दूषणस् तथा.
६६-२ अवामंस्त स तान् दर्पात्, प्रोदयंसीच् च मुद्गरम्.
६७-१ वायव्याऽस्त्रेण तं पाणिं रामो ऽच्छैत्सीत् सहाऽऽयुधम्,
६७-२ आदीपि तरु-हस्तो ऽसा- वधावीच् चा ऽरि-संमुखम्.
६८-१ स-वृक्षमच्छिदत् तस्य शक्राऽस्त्रेण करं नृपः,
६८-२ जङ्घे चा ऽशीशतद् बाणैरप्रासीदिषुभिर् मुखम्.
६९-१ ऐन्द्रेण हृदये ऽव्यात्सीत्, सो ऽध्यवात्सीच् च गां हतः.
६९-२ अपिक्षातां सहस्रे द्वे तद्-देहेन वनौकसाम्.
७०-१ अस्ताविषुः सुरा रामं, दिशः प्रापन् निशा-चराः,
७०-२ भूरकम्पिष्ट साऽद्रीन्द्रा, व्यचालीदम्भसां पतिः.
७१-१ हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन्,
७१-२ अरोदीद् रावणो ऽशोचीन्, मोहं चा ऽशिश्रियत् परम्.
७२-१ अपप्रथद् गुणान् भ्रातुरचिकीर्तच् च विक्रमम्,
७२-२ "क्रुद्धेन कुम्भकर्णेन ये ऽदिर्षिशत शत्रवः
७३-१ कथं न्वजीविषुस् ते च, स चा ऽमृत महा-बलः."
७३-२ अयुयुत्सिषता ऽऽश्वास्य कुमारा रावणं ततः
७४-१ देवान्तको ऽतिकायश् च त्रिशिराः स नरान्तकः
७४-२ ते चांऽऽहिषत संग्रामं बलिनो रावणाऽऽत्मजाः.
७५-१ युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत्
७५-२ सुतानां, निरगातां तौ राक्षसौ रण-पण्डितौ.
७६-१ तैरजेषत सैन्यानि, द्विषो ऽकारिषता ऽऽकुलाः
७६-२ पर्वतानिव ते भूमावचैषुर् वानरोत्तमान्.
७७-१ अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः,
७७-२ प्रैषिषद् राक्षसः प्रासं, सो ऽस्फोटीदङ्गदोरसि.
७८-१ अश्वान् वालि-सुतो ऽहिंसीदतताडच् च मुष्टिना.
७८-२ रावणिश् चा ऽव्यथो योद्धुमारब्ध च महीं गतः.
७९-१ तस्या ऽहारिषत प्राणा मुष्टिना वालि-सूनुना.
७९-२ प्रादुद्रुवंस् ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्.
८०-१ ततो नील-हनूमन्तौ रावणीनववेष्टताम्,
८०-२ अकारिष्टां गिरींस् तुङ्गानरौत्सीत् त्रिशिराः शरैः
८१-१ परिघेणा ऽवधिष्टा ऽथ रणे देवान्तको बली,
८१-२ मुष्टिना ऽददरत् तस्य मूर्धानं मारुताऽऽत्मजः.
८२-१ अदीदिपत् ततो वीर्यं, नीलं चाऽपीपिडच् छरैः
८२-२ युद्धोन्मत्तस्, तु नीलेन गिरिणाऽनायि संक्षयम्.
८३-१ अबभ्राजत् ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे,
८३-२ हनूमता क्षतास् तस्य रणे ऽमृषत वाजिनः.
८४-१ अस्रसच् चाऽऽहतो मूर्ध्नि, खड्गं चा ऽजीहरद् द्विषा,
८४-२ प्राणानौज्झीच् च खड्गेन छिन्नैस् तेनैव मूर्धभिः.
८५-१ मत्तेना ऽमारि संप्राप्य शरभाऽस्तां महा-गदाम्,
८५-२ सहस्र-हरिणा ऽक्रीडीदतिकायस् ततो रणे.
८६-१ रथेना ऽविव्यथच् चाऽरीन्, व्यचारीच् च नि-रङ्कुशः,
८६-२ विभीषणेन सो ऽख्यायि राघवस्य महा-रथः.
८७-१ "अतस्तम्भदयं वज्रं, स्वयम्भुवमतूतुषत्,
८७-२ अशिक्षिष्ट महाऽस्त्राणि, रणे ऽरक्षीच् च राक्षसान्.
८८-१ अद्यगीष्टा ऽर्थ-शास्त्राणि, यमस्या ऽह्नोष्ट विक्रमम्,
८८-२ देवाऽऽहवेष्वदीपिष्ट, ना ऽजनिष्टा ऽस्य साध्वसम्.
८९-१ एष रावणिरापादि वानराणां भयङ्करः"
८९-२ आह्वता ऽथ स काकुत्स्थं धनुश् चा ऽपुस्फुरद् गुरु.
९०-१ सौमित्रिः सर्प-वत् सिंहमार्दिदत् तं महाऽऽहवे.
९०-२ तौ प्रावीवृततां जेतुं शर-जालान्यनेकशः.
९१-१ अच्छैत्तां च महाऽऽत्मानौ, चिरमश्रमतां न च,
९१-२ तथा तावास्थतां बाणानतानिष्टां तमो यथा.
९२-१ सौर्याऽऽग्नेये व्यकारिष्टामस्त्रे राक्षस-लक्ष्मणौ,
९२-२ ते चोपागमता नाशं समासाद्य परस्परम्
९३-१ अबिभ्रजत् ततः शस्त्रमैषीकं राक्षसो रणे,
९३-२ तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्.
९४-१ ततः सौमित्रिरस्मार्षीददेविष्ट च दुर्-जयम्
९४-२ ब्रह्माऽस्त्रं, तेन मूर्धानमदध्वंसन् नर-द्विषः.
९५-१ ततो ऽक्रन्दीद् दशग्रीवस् तमाशिश्वसदिन्द्रजित्,
९५-२ निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्.
९६-१ अहौषीत् कृष्णवर्त्मानं, समयष्टा ऽस्त्र-मण्डलम्,
९६-२ सो ऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयाऽऽवहम्.
९७-१ तमध्यासिष्ट दीप्राऽग्रममोदिष्ट च रावणिः
९७-२ छन्न-रूपस् ततो ऽकर्तीद् देहान् रावण-विद्विषाम्.
९८-१ सप्त-षष्टिं प्लवङ्गानां कोटीर् बाणैरसूषुपत्.
९८-२ निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्.
९९-१ अपिस्फवत् स्व-सामर्थ्यमगूहीत् सायकैर् दिशः,
९९-२ अघोरीच् च महा-घोरं, गत्वा, प्रैषीच् च रावणम्.
१००-१ विभीषणस् ततो ऽबोधि स-स्फुरौ राम-लक्ष्मणौ,
१००-२ अपारीत् स गृहीतोल्को हत-शेषान् प्लवङ्गमान्.
१०१-१ "मा शोचिष्ट, रघु-व्याघ्रौ नाऽमृषातामिति ब्रुवन्
१०१-२ अवाबुद्ध स नीलाऽऽदीन् निहतान् कपि-यूथ-पान्.
१०२-१ तत्रैषज् जाम्बवान् प्राणीदुदमीलीच् च लोचने,
१०२-२ पौलस्त्यं चाऽगदीत् "कच्चिदजीवीन् मारुताऽऽत्मजः."
१०३-१ तस्य क्षेमे महा-राज ! ना ऽमृष्मह्यखिला वयम्.
१०३-२ पौलस्त्यो ऽशिश्रवत् तं च जीवन्तं पवनाऽऽत्मजम्.
१०४-१ आयिष्ट मारुतिस् तत्र, तौ चा ऽप्यहृषतां ततः,
१०४-२ प्राहैष्टां हिमवत्-पृष्ठे सर्वौषधि-गिरिं ततः
१०५-१ तौ हनूमन्तमानेतुमोषधीं मृत-जीविनीम्
१०५-२ सन्धान-करणीं चाऽन्यां वि-शल्य-करणीं तथा.
१०६-१ प्रोदपाति नभस् तेन, स च प्रापि महा-गिरिः,
१०६-२ यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्र-शः
१०७-१ निरचायि यदा भेदो नौषधीनां हनू-मता,
१०७-२ सर्व एव समाहारि तदा शैलः महौषधिः.
१०८-१ प्राणिषुर् निहताः केचित्, केचित् तु प्रोदमीलिषुः
१०८-२ तमो ऽन्ये ऽहासिषुर् योधा, व्यजृम्भिषत चाऽपरे.
१०९-१ अजिघ्रपंस् तथैवाऽन्यानोषधीरालिपंस् तथा,
१०९-२ एवं तेऽचेतिषुः सर्वे, वीर्यं चाऽधिषताऽधिकम्.
११०-१ अजिह्लदत् स काकुत्स्थौ, शेषांश् चा ऽजीजिवत् कपीन्
११०-२ हनूमानथ ते लङ्का- मग्निना ऽदीदिपन् द्रुतम्.
१११-१ समनात्सीत् ततः सैन्यममार्जीद् भल्ल-तोमरम्,
१११-२ अमार्क्षीच् चा ऽसिपत्राऽऽदीनबभासत् परश्वधान्.
११२-१ कुम्भकर्ण-सुतौ तत्र समनद्धां महा-बलौ
११२-२ निकुम्भश् चैव कुम्भश् च, प्रापतां तौ प्लवङ्गमान्.
११३-१ अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम्,
११३-२ अत्याक्तामायुधाऽनीकमनैष्टां च क्षयं द्विषः.
११४-१ अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाऽऽकुलम्,
११४-२ अच्युतच् च क्षतं रक्तं, हतं चा ऽध्यशयिष्ट गाम्.
११५-१ अङ्गदेना ऽहसातां तौ युध्यकम्पन-कम्पनौ,
११५-२ अभ्यार्दीद् वालिनः पुत्रं प्रजङ्घो ऽपि स-मत्सरः.
११६-१ तस्या ऽप्यबेभिदिष्टा ऽसौ मूर्धानं मुष्टिना ऽङ्गदः,
११६-२ अहार्षीच् च शिरः क्षिप्रं यूपाक्षस्य निराकुलः.
११७-१ शरीरं लोहिताक्षस्य न्यभाङ्क्षीद् द्विविदस् तदा,
११७-२ क्रुद्धः कुम्भस् ततो ऽभैत्सीन् मैन्दं स-द्विविदं शरैः
११८-१ आघूर्णिष्टां क्षतौ, क्ष्मां च तावाशिश्रियतामुभौ.
११८-२ मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः
११९-१ प्रौर्णावीच्, छर-वर्षेण तानप्रौहीन् निशा-चरः.
११९-२ वानरानैजिहद् रामस्य तूर्णं रक्षितुमङ्गदम्.
१२०-१ द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं षत्रु-संकटात्,
१२०-२ मुष्टिना कौम्भकर्णिं च क्रुद्धः प्राणैरतित्यजत्.
१२१-१ निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः,
१२१-२ हनूमांश् चा ऽऽपतन्तं तमभाङ्क्षीद् भोगि-भीषणम्.
१२२-१ प्रौर्णुवीत् तेजसाऽरातिमरासीच् च भयंकरम्,
१२२-२ ग्रीवां चा ऽस्य तथाक्राक्षीदजिजीवद् यथा न तम्.
१२३-१ समगतकपि-सैन्यं सम्मदेना ऽतिमात्रं, विटप-हरिण-नाथः सिद्धिमौहिष्ट नित्याम्,
१२३-२ नृ-पति-मतिररंस्त प्राप्त-कामेव हर्षात्, रजनि-चर-पतीनां सन्ततो ऽतायि शोकः.