१-१ आशासत ततः शान्तिमस्नुरग्नीनहावयन्,
१-२ विप्रानवाचयन् योधाः, प्राक्कुर्वन् मङ्गलानि च.
२-१ अपूजयन् कुल-ज्येष्ठानुपागूहन्त बालकान्.
२-२ स्त्रीः समावर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा.
३-१ आच्छादयन्, व्यलिम्पंश् च, प्राश्नन्नथ सुराऽऽमिषम्,
३-२ प्रापिबन् मधु-माध्वीकं भक्ष्यांश् चा ऽऽदन् यथेप्सितान्
४-१ न्यश्यन् शस्त्राण्यभीष्टानि, समनह्यंश् च वर्मभिः,
४-२ अध्यासत सु-यागानि, द्विषद्भ्यश् चा ऽशपंस् तथा.
५-१ अपूजयंश् चतुर्-वक्त्रं, विप्रानार्चंस् तथा ऽस्तुवन्,
५-२ समालिपत शक्राऽरिर् यानं चा ऽभ्यलषद् वरम्.
६-१ आमुञ्चद् वर्म रत्नाऽऽढ्यमबध्नात् खड्गमुज्ज्ल्वलम्,
६-२ अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः
७-१ आघ्नन् भेरीर् महा-स्वानाः, कम्बूंश् चा ऽप्यधमन् शुभान्,
७-२ अताडयन् मृदङ्गांश् च, पेराश् चा ऽपूरयन् कलाः.
८-१ अस्तुवन् बन्दिनः, शब्दानन्योन्यं चोदभावयन्,
८-२ अनदन् सिंहनादांश् च, प्राद्रेकत हय-द्विपम्.
९-१ अ-निमित्तान्यथा ऽपश्यन्नस्फुटद् रवि-मण्डलम्,
९-२ औक्षन् शोणितमम्भोदा, वायवोऽवान्सु-दुःसहाः.
१०-१ आर्च्छन् वामं मृगाः कृष्णाः, शस्त्राणां व्यस्मरन् भटाः,
१०-२ रक्तं न्यष्ठीवदक्लाम्य- दखिद्यद् वाजि-कुञ्जरम्.
११-१ न तानगणयन् सर्वानास्कन्दंश् च रिपून्, द्विषः
११-२ अच्छिन्दन्नसिभिस् तीक्ष्णैरभिन्दंस् तोमरैस् तथा
१२-१ न्यकृन्तंश् चक्र-धाराभिरतुदन् शक्तिभिर् दृढम्,
१२-२ भल्लैरविध्यन्नुग्राऽग्रैरतृंहंस् तोमरैरलम्.
१३-१ आस्यन् प्लवङ्गमा वृक्षानधुन्वन् भू-धरैर् भृशम्,
१३-२ अहिंसन् मुष्टिभिः क्रोघाददशन् दशनैरपि.
१४-१ प्रादुन्वन् जानुभिस् तूर्णमतुदंस् तल-कूर्परैः,
१४-२ प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च.
१५-१ अतृणेट् शक्र-जिच् छत्रूनभ्राम्यच् च समन्ततः,
१५-२ अध्वनच् च महा-घोरं, न च कंचन नाऽदुनोत्.
१६-१ नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त बिभ्रतम्
१६-२ नेषूनचेतन्नस्यन्तं, हतास् तेना ऽविदुर् द्विषः.
१७-१ अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चा ऽन्यतः,
१७-२ आक्रन्दमन्यतोऽकुर्वंस् तेना ऽहन्यन्त चाऽन्यतः.
१८-१ प्रालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन्,
१८-२ पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना ऽम्रियन्त च.
१९-१ सौमित्रिराकुलस् तस्मिन् ब्रह्माऽस्त्रं सर्व-रक्षसाम्
१९-२ निधनाया ऽऽजुहूषत् तं व्य्ष्टभ्नाद् रघु-नन्दनः.
२०-१ ततो माया-मयीं सीतां घ्नन् खड्गेन वियद्-गतः
२०-२ अदृश्यतेन्द्रजिद्, वाक्यमवदत् तं मरुत्-सुतः.
२१-१ "मा ऽपराध्नोदियं किंचिदभ्रश्यत् पत्युरन्तिकात्
२१-२ सीतां राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम्"
२२-१ "पीडा-करम-मित्राणां कर्तव्यमिति शक्रजित्
२२-२ अब्रवीत्, खड्ग-कृष्टश् च तस्या मूर्धानमच्छिनत्.
२३-१ "यत्-कृते ऽरीन् व्यगृह्णीम, समुद्रमतराम च,
२३-२ सा हते"ति वदन् राममुपातिष्ठन् मरुत्-सुतः.
२४-१ ततः प्रामुह्यतां वीरौ राघवावरुतां तथा,
२४-२ उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा.
२५-१ तावभाषत पौलस्त्यो "मा स्म प्ररुदितं युवाम्,
२५-२ ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छन्निकुम्भिलाम्.
२६-१ मा स्म तिष्ठत, तत्र-स्थो वध्यो ऽस्माव-हुताऽनलः,
२६-२ अस्त्रे ब्रह्म-शिरस्युग्रे स्यन्दने चा ऽनुपार्जिते.
२७-१ ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते"
२७-२ प्रायच्छदाज्ञां सौमित्रेर् युथपानां च राघवः.
२८-१ तां प्रत्यैच्छन् सु-संप्रितास् ततस् ते स-विभीषणाः,
२८-२ निकुम्भिलां समभ्यायन्, न्यरुध्यन्त च राक्षसैः
२९-१ दिक्-पालैः कदनं तत्र सेने प्राकुरुतां महत्,
२९-२ ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य-लक्ष्मणौ,
३०-१ तत्रेन्द्रजितमैक्षेतां कृत-धिष्ण्यं समाहितम्.
३०-२ सो ऽजुहोत् कृष्णवर्त्मानमामनन् मन्त्रमुत्तमम्.
३१-१ अध्यायच् छक्रजिद् ब्रह्म, समाधेरचलन् न च.
३१-२ तमाह्वयत सौमित्रिरगर्जच् च भयंकरम्.
३२-१ अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः
३२-२ "त्वमत्रा ऽजायथा, देह इहा ऽपुष्यत् सुराऽमिषैः,
३३-१ इहा ऽजीव, इहैव त्वं क्रूरमारभथाः कथम्,
३३-२ नाऽपश्यः पाणिमार्द्रं त्वं, बन्धु-त्वं नाऽप्यपैक्षथाः.
३४-१ अ-धर्मान् ना ऽत्रसः पाप ! लोक-वादान् न चा ऽबिभेः,
३४-२ धर्म-दुषण ! नूनं त्वं ना ऽजाना, ना ऽशृणोरिदम्.
३५-१ निराकृत्य यथा बन्धून् लघु-त्वं यात्य-संशयम्."
३५-२ पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित्
३६-१ "मिथ्या मा स्म व्यतिक्रामो, मच्छीलं मा न बध्यथाह्
३६-२ सत्यं समभवं वंशे पापानां रक्षसामहम्.
३७-१ न त्वजायत मे शीलं तादृक्, यादृक् पितुस् तव.
३७-२ क्षयाऽऽवहेषु दोषेषु वार्यमाणो मया ऽरमत्
३८-१ दश-ग्रीवं ऽहमेतस्मादत्यजं, न तु विद्विषन्.
३८-२ पर-स्वान्यार्जयन्, नारीरन्यदीयाः परामृशत्.
३९-१ व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते,
३९-२ आशङ्कत सुहृद्-बन्धून-वृद्धान् बह्वमन्यत.
४०-१ दोषैररमतैभिस् ते पिता ऽत्यज्यत यैर् मया.
४०-२ ततो-रुष्यदनर्दच् च, द्वि-विंशतिभिरेव च
४१-१ शरैरताडयद् बन्धुं, पञ्च-विंशतिभिर् नृपम्
४१-२ रावणिस् तस्य सौमित्रिरमथ्नाच् चतुरो हयान्.
४२-१ सागरथिं चा ऽलुनाद् बाणैरभनक् स्यन्दनं तथा,
४२-२ सौमित्रिमकिरद् बाणैः परितो रावणिस् ततः.
४३-१ तावस्फावयतां शाक्तिं, बाणांश् चाऽकिरतां मुहुः.
४३-२ वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद् रौद्रमिन्द्रजित्.
४४-१ ते परस्परमासाद्य शस्त्रे नाशमगच्छताम्,
४४-२ आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत्,
४५-१ तस्मान् निरपतद् भूरि शिला-शूलेष्टि-मुद्गरम्.
४५-२ माहेश्वरेण सौमित्रिरस्तभ्नात् तत् सुदुर्जयम्.
४६-१ ततो रौद्र-समायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत्,
४६-२ तेनाऽऽगम्यत घोरेण, शिरश् चा ऽह्रियत द्विषः
४७-१ अतुष्यन्नमराः सर्वे, प्राहृष्यन् कपि-यूथपाः,
४७-२ पर्यष्वजत सौमित्रिं, मूर्ध्न्यजिघ्रच् च राघवः.
४८-१ अरोदीद् राक्षसाऽनीकमरोदन् नृ-भुजां पतिः,
४८-२ मैथिल्यै चा ऽशपद्धन्तुं तां प्राक्रमत चाऽऽतुरः.
४९-१ "अ-युक्तमिदम्" त्यन्ये तमाप्ताः प्रत्यवारयन्,
४९-२ न्यरुन्धंश् चा ऽस्य पन्थानं बन्धुता शुचमारुणत्.
५०-१ आस्फायता ऽस्य वीरत्वममर्षश् चा ऽप्यतायत
५०-२ रावणस्य ततः सैन्यं समस्तमयुयुत्सयत्.
५१-१ अग्नीनवरिवस्यंश् च ते, ऽनमस्यंश् च शङ्करम्,
५१-२ द्विजानप्रीणयन् शान्त्यै यातुधाना भवद्-भियः.
५२-१ परितः पर्यवाद् वायुराज्य-गन्धिर् मनो-रमः,
५२-२ अश्रूयत स पुण्याहः स्वस्ति-घोषः समुच्चरन्.
५३-१ योद्धारो ऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः,
५३-२ रत्नानि चा ऽददुर् गाश् च, समवाञ्छन्नथाऽऽशिषः.
५४-१ अदिहंश् चन्दनैः शुभ्रैर्, विचित्रं समवस्त्रयन्,
५४-२ अधारयन् स्रजः कान्ता, वर्म चा ऽन्ये ऽदधुर् द्रुतम्.
५५-१ समक्ष्णुवत शस्त्राणि, प्रामृजन् खड्ग-संहतीः,
५५-२ गजाऽऽदीनि समारोहन्, प्रातिष्ठन्ता ऽऽथ सत्वराः
५६-१ अपूरयन् नभः शब्दो बल-संवर्त-संभवः
५६-२ अपूर्यन्त च दिग्-भागास् तुमुलैस् तूर्य-निस्वनैः.
५७-१ आसीद् द्वारेषु संघट्टो रथाऽश्व-द्विपरक्षसाम्
५७-२ समहान-निमित्तैश् च समभूयत भीषणैः
५८-१ कपयो ऽबिभयुस् तस्मिन्नभञ्जंश् च महा-द्रुमान्
५८-२ प्रोदखायन् गिरींस् तूर्णमगृह्णंश् च महा-शिलाः.
५९-१ ततः समभवद् युद्धं प्राहरन् कपि-राक्षसाः,
५९-२ अन्योन्येना ऽभ्यभूयन्त, विमर्दमसहन्त च.
६०-१ प्रावर्धत रजो भौमं, तद् व्याश्नुत दिशो दश,
६०-२ पराऽऽत्मीय-विवेकं च प्रामुष्णात् कपि-रक्षसाम्.
६१-१ ततो ऽद्विषुर् निरालोके स्वेभ्यो ऽन्येभ्यश् च राक्षसाः.
६१-२ अद्विषन् वानराश् चैव वानरेभ्यो ऽपि निर्दयाः
६२-१ अघुरंस् ते महा-घोरमश्च्योतन्नथ शोणितम्,
६२-२ समपद्यत रक्तेन समन्तात् तेन कर्दमः.
६३-१ गम्भीराः प्रावहन् नद्यः, समजायन्त च ह्रदाः,
६३-२ वृद्धं च तद् रजो ऽशाम्यत्, समवेद्यन्त च द्विषः.
६४-१ ततो ऽचित्रीयता ऽस्त्रौघैर् धनुश् चा ऽधूनयन् महत्
६४-२ रामः, समीहितं तस्य नाऽचेतन् स्वे न चा ऽपरे.
६५-१ छिन्नानैक्षन्त भिन्नांश् च समन्ताद् राम-सायुकैः.
६५-२ क्रुष्टं हाहेति चा ऽशृण्वन् न च रामं न्यरूपयन्.
६६-१ अभिनच् छत्रु-संघातानक्षुणद् वाजि-कुञ्जरम्,
६६-२ अपिनट् च रथाऽनीकं, न चा ऽज्ञायत संचरन्.
६७-१ दश दन्ति-सहस्राणि रथिनां च महाऽऽत्मनाम्
६७-२ चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम्
६८-१ लक्षे च द्वे पदातीनां राघवेण धनुर्-भृता
६८-२ अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्.
६९-१ यम-लोकमिवाऽग्रथ्नाद्, रुद्राऽऽक्रीडमिवा ऽकरोत्,
६९-२ शैलैरिवा ऽचिनोद् भूमिं बृहद्भी राक्षसैर् हतैः.
७०-१ अस्तुवन् देव-गन्धर्वा, व्यस्मयन्त प्लवङ्गमाः
७०-२ कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्.
७१-१ राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम्.
७१-२ अमुह्यद् बाल-वृद्धं च, समरौदितरो जनः.
७२-१ सर्वतश् चाऽभयं प्राप्नोन् नैच्छन् नृभ्यस् तु रावणः,
७२-२ फलं तस्येदमभ्यायाद् दुरुक्तस्येति चा ऽब्रुवन्.
७३-१ ततो ऽधावन् महा-घोरं रथमास्थाय रावणः,
७३-२ अक्ष्मायत मही, गृध्राः समारार्यन्त भीषणाः.
७४-१ मेघाः स-विद्युतो ऽवर्षंश् चेल-क्नोपं च शोणितम्,
७४-२ अवान् भीमा नभस्वन्तः, प्रारुवन्न-शिवाः शिवाः
७५-१ आटाट्यता ऽवमत्या ऽसौ दुर्निमित्तानि, संयुगे
७५-२ अधुनोद् धनुरस्त्रौघैः प्रौर्णोनूयत विद्विषः
७६-१ व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः,
७६-२ ततो व्यरसदग्लायदध्य्शेत मही-तलम्.
७७-१ आश्च्योतद् रुधिरं, तोयमलसच् चाऽति विह्वलम्,
७७-२ अशीयत नृ-मांसाऽदां बलं सुग्रीव-बाधितम्.
७८-१ विरूपाक्षस् ततो क्रीडत् संग्रामे मत्त-हस्तिना,
७८-२ मुष्टिनाऽदालयत् तस्य मूर्धानं वानराऽधिपः.
७९-१ अचूर्णयच् च यूपाक्षं शिलया तदनन्तरम्.
७९-२ संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम्.
८०-१ ततो ऽकुष्णाद् दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्,
८०-२ अगोपायच् च रक्षांसि दिशश् चा ऽरीनभाजयत्.
८१-१ आलोकयत् स काकुत्स्थमधृष्णोद्, घोरमध्वनत्,
८१-२ धनुरभ्रमयद् भीममभीषयत विद्विषः.
८२-१ आस्कन्दल् लक्ष्मणं बानैरत्यक्रामच् च तं द्रुतम्,
८२-२ राममभ्यद्रवज् जिष्णुरस्कुनाच् चेषु-वृष्टिभिः.
८३-१ अपौहद् बाण-वर्षं तद् भल्लै रामो निराकुलः,
८३-२ प्रत्यस्कुनोद् दष-ग्रीवं शरैराशी-विषोपमैः.
८४-१ मण्डलान्याटतां चित्रमच्छित्तां शस्त्र-संहतीः,
८४-२ जगद् विस्मापयेतां तौ, न च वीरावसीदताम्.
८५-१ व्योम प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः,
८५-२ अभित्तां तूर्णमन्योन्यं शिक्षाश् चा ऽतनुतां मुहुः.
८६-१ समाधत्ता ऽऽसुरं शस्त्रं राक्षसः क्रूर-विक्रमः,
८६-२ तदक्षरन् महासर्पान् व्याघ्र-सिंहांश् च भीषणान्.
८७-१ न्यषेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततः
८७-२ अदीव्यद् रौद्रमत्युग्रं, मुसलाऽऽद्यगलत् ततः
८८-१ गान्धर्वेण न्यविद्यत् तत् क्षितीन्द्रो, ऽथ नराऽशनः
८८-२ सर्व-मर्मसु काकुत्स्थ- मौम्भत् तीक्ष्णैः शिलीमुखैः
८९-१ ततस् त्रिशिरसं तस्य प्रावृश्चल् लक्ष्मणो ध्वजम्,
८९-२ अमथ्नात् सारथिं चाऽऽशु, भूरिभिश् चा ऽतुदच्छरैः.
९०-१ अश्वान् विभीषनो ऽतुभ्नात् स्यन्दनं चाऽक्षिणोद् द्रुतम्,
९०-२ नाऽक्षुभ्नाद् राक्षसो, भ्रातुः शक्तिं चोदवृहद् गुरुम्.
९१-१ तामापतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः,
९१-२ अशब्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः
९२-१ अष्ट-घण्टां महा-शक्तिमुदयच्छन् महत्तराम्,
९२-२ रामाऽनुजं तया ऽविध्यत्, स महीं व्यसुराश्रयत्.
९३-१ राघवस्याऽभृशायन्त सायकास्, तैरुपद्रुतः
९३-२ ततस् तूर्णं दशग्रीवो रण-क्ष्मा पर्यशेषयत्.
९४-१ स-स्फुरस्योदकर्षच् च सौमित्रेः शक्तिमग्र-जः,
९४-२ असिञ्चदोषधीस् ता याः समानीता हनूमता.
९५-१ उदजीवत् सुमित्रा-भूर् भ्राता ऽऽश्लिष्यत तमायतम्,
९५-२ सन्यङ् मूर्धन्युपाशिङ्घ- दपृच्छच् च निरामयम्
९६-१ ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान्,
९६-२ अकृच्छ्रायत च प्राप्तो रथेना ऽन्येन ऽरावणः.
९७-१ "भूमि-ष्ठस्या ऽसमं युद्धं रथ-स्थेने"ति मातलिः
९७-२ आहरद् रथमत्युग्रं स-शस्त्रं मघवा ऽऽज्ञया.
९८-१ सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः
९८-२ निरास्यत दशाऽऽस्यस्, तच्छक्राऽस्त्रेणाजयन् नृपः.
९९-१ ततः शत-महस्रेण रामः प्रौर्णोन् निशाचरम्
९९-२ बाणानामक्षिणोद् धुर्यान्, सारथिं चाऽदुनोद् द्रुतम्.
१००-१ अदृश्यन्ता ऽनिमित्तानि, प्राह्वलत् क्षिति-मण्डलम्,
१००-२ रावणः प्राहिणोच्छूलं, शक्तिं चैन्दीं मही-पतिः.
१०१-१ ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः,
१०१-२ लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः
१०२-१ अस्तृणादधिकं रामस् ततो ऽदेवत सायकैः,
१०२-२ अक्लाम्यद्रावणस्, तस्य सूतो रथमनाशयत्.
१०३-१ राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम्,
१०३-२ निरास्येतामुभौबाणानुभौ धुर्यानविध्यताम्
१०४-१ उभावकृन्ततां केतूनाव्यथेतामुभौ न तौ
१०४-२ अदीप्येतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम्
१०५-१ उभौ मायां व्यतायेतां, वीरौ ना ऽश्राम्यतामुभौ
१०५-२ मण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ
१०६-१ न चोभावप्यलक्ष्येतां, यन्तारावाहतामुभौ
१०६-२ स्यन्दनौ समपृच्येतामुभयोर् दीप्त-वाजिनौ.
१०७-१ ततो मायामयान् मूर्ध्नो राक्षसो ऽप्रथयद्रणे,
१०७-२ रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः.
१०८-१ समक्षुभ्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः,
१०८-२ सन्त्रासमबिभः शक्रुः, प्रैंखच्च, क्षुभिता क्षितिः.
१०९-१ ततो मातलिना शस्त्रमस्मर्यत महीपतेः
१०९-२ वधाय रावणस्योग्रं स्वयम्भूर् यदकल्पयत्.
११०-१ नभस्वान् यस्य वाजेषु, फले तिग्मांशु-पावकौ
११०-२ गुरुत्वं मेरु-सङ्काशं, देहः सूक्ष्मो वियन्मयः.
१११-१ राजितं गारुडैः पक्षैर् विश्वेषां घाम तेजसाम्
१११-२ स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्यशाययत्.
११२-१ आबध्नन् कपि-वदनानि संप्रसादं, प्राशंसत् सुर-समितिर् नृपं जिता ऽरिम्,
११२-२ अन्येषां विगत-परिप्लवा दिगन्ताः, पौलस्त्योऽजुषत शुचं विपन्न-बन्धुः