१-१ व्यश्नुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः
१-२ विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम्.
२-१ "भूमौ शेते दश-ग्रीवो महार्ह-शयनोचितः,
२-२ नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति.
३-१ विपाकोऽयं दश-ग्रीव ! संदृष्टो ऽनागतो मया.
३-२ त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि.
४-१ भजन्ति विपदस् तूर्णमतिक्रामन्ति सम्पदः
४-२ तान्, मदान् नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्.
५-१ अ-पथ्यमायतौ लोभादामनन्त्यनुजीविनः
५-२ प्रियं, शृणोति यस् तेभ्यस्, तमृच्छन्ति न सम्पदः.
६-१ प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च,
६-२ तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च.
७-१ लेढि भेषज-वन् नित्यं यः पथ्यानि कटून्यपि,
७-२ तदर्थं सेवते चा ऽऽप्तान्, कदाचिन् न स सीदति.
८-१ सर्वस्य जायते मानः, स्व-हिताच् च प्रमाद्यति,
८-२ वृद्धौ भजति चा ऽपथ्यं नरो येन विनश्यति.
९-१ द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्निह्यति कस्यचित्,
९-२ वैरायते महद्भिश् च शीयते वृद्धिमानपि.
१०-१ समाश्वसिमि केना ऽहं, कथं प्राणिमि दुर्-गतः
१०-२ लोक-त्रय-पतिर् भ्राता यस्य मे स्वपिति क्षितौ
११-१ अहो जागर्ति कृच्छ्रेषु दैवं, यद् बल-भिज्जितः
११-२ लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च.
१२-१ शिवाः कुष्णन्ति मांसानि, भूमिः पिबति शोणितम्,
१२-२ दशग्रीव-सनाभीनां समदन्त्यामिषं खगाः,
१३-१ येन पूत-क्रतोर् मूर्ध्नि स्थीयते स्म महाऽऽहवे,
१३-२ तस्याऽपीन्द्रजितो दैवाद् ध्वांक्षैः शिरसि लीयते.
१४-१ स्वर्भानुर् भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः,
१४-२ अभ्युपैति पुनर् भूतिं राम-ग्रस्तो न कश्चन.
१५-१ त्वमजानन्निदं राजन्नीडिषे स्म स्व-विक्रमम्,
१५-२ दातुं नेच्छसि सीतां स्म, विषयाणां च नेशिषे.
१६-१ मन्त्रे जातु वदन्त्यज्ञास्, त्वं तानप्यनुमन्यसे,
१६-२ कथं नाम भवांस् तत्र ना ऽवैति हितमात्मनः
१७-१ अ-पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्,
१७-२ "न करोमीतिपौलस्त्य ! तदा मोहात् त्वमुक्तवान्
१८-१ त्वं स्म वेत्थ महाराज ! यत् स्माऽऽह न विभीषनः.
१८-२ पुरा त्यजति यत् क्रुद्दो मां निराकृत्य संसदि.
१९-१ हविर् जक्षिति निःशङ्को मखेषु मधवानसौ,
१९-२ प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः.
२०-१ धनानामीशते यक्षा, यमो दाम्यति राक्षसान्,
२०-२ तनोति वरुणः पाशमिन्दुनोदीयते ऽधुना.
२१-१ शाम्यत्यृतु-समाहारस्, तपस्यन्ति वनौकसः,
२१-२ नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति ना ऽमराः
२२-१ श्रीर् निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः,
२२-२ न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः.
२३-१ शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम्,
२३-२ देव-वन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः.
२४-१ बिभ्रत्यस्त्राणि साऽमर्षा रण-काम्यन्ति चा ऽमराः,
२४-२ चकासति च, मांसाऽदां तथारन्ध्रेषु जाग्रति.
२५-१ चञ्चूर्यते ऽभितो लङ्कामस्मांश् चा ऽप्यतिशेरते,
२५-२ भूमयन्ति स्व-सामर्थ्यं, कीर्तिं नः कनयन्ति च.
२६-१ दिशो व्यष्नुवते दृप्तास् त्वत्-कृतां जहति स्थितिम्,
२६-२ क्षोदयन्ति च नः क्षुद्रा, हसन्ति त्वां विपद्-गतम्.
२७-१ शमं शमं नभस्वन्तः पुनन्ति परितो जगत्,
२७-२ उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः
२८-१ प्रोर्णोति शोकस् चित्तं मे, सत्वं संशाम्यतीव मे
२८-२ प्रमार्ष्टि दुःखमालोकं, मुञ्चाम्यूर्जं त्वया विना.
२९-१ केन संविद्रते-नाऽन्यस् त्वत्तो बान्धव-वत्सलः,
२९-२ विरौमि शून्ये, प्रोर्णौमि कथं मन्यु-समुद्भवम्.
३०-१ रोदिम्यनाथमात्मानं बन्धुना रहितस् त्वया,
३०-२ प्रमाणं नोपकाराणामवगच्छामि यस्य ते
३१-१ नेदानीं शक्र-यक्षेन्द्रौ बिभीतो, न दरिद्रितः,
३१-२ न गर्वं जहितो दृप्तौ, न क्लिश्नीतो दशाऽऽनन !
३२-१ त्वया ऽपि नाम रहिताः कार्याणि तनुमो वयम्,
३२-२ कुर्मश् च जीविते बुद्धिं, धिक् तृष्णां कृत-नाशिनीम्.
३३-१ तृणेह्मि देहमात्मीयं। त्वं वाचं न ददासि चेत्,
३३-२ द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास् तव.
३४-१ उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन्,
३४-२ नेदयत्यासनं को मे, को हि मे वदति प्रियम्.
३५-१ न गच्छामि पुरा लङ्का- मायुर् यावद् दधाम्यहम्,
३५-२ कदा भवति मे प्रीतिस्, त्वां पश्यामि न चेदहम्.
३६-१ ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षत-बान्धवः,
३६-२ मन्त्रे स्म हितमाख्यामि, न करोमि तवा ऽप्रियम्.
३७-१ अन्तःपुराणि पौलस्त्यं पौराश् च भृश-दुःखिताः
३७-२ संश्रुत्य स्मा ऽभिधावन्ति हतं रामेण संयुगे.
३८-१ मूर्धजान् स्म विलुञ्चन्ति, क्रोशन्ति स्मा ऽतिविह्वलम्,
३८-२ अधीयन्त्युपकाराणां मुहुर् भर्तुः प्रमन्यु च.
३९-१ रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च."
३९-२ भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम्
४०-१ "दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पित् न्
४०-२ युद्धाऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि
४१-१ बोभवीति न सम्मोहो व्यसने स्म भवादृशाम्,
४१-२ किं न पश्यसि, सर्वो ऽयं जनस् त्वामवलम्बते.
४२-१ त्वमर्हसि भ्रातुरनन्तराणि कर्तुं, जनस्या ऽस्य च शोक-भङ्गम्,
४२-२ धुर्ये विपन्ने त्वयि राज्य-भारो मज्जत्यनूढः क्षणदा-चरेन्द्र !"