१-१ ततो रामो हनूमन्तमुक्तवान् हृष्ट-मानसम्
१-२ "अयोध्यां श्वः प्रयातासि कपे ! भरत-पालिताम्.
२-१ गाधितासे नभो भूयः स्फुटन्-मेघ-घटाऽऽवलि,
२-२ ईक्षितासे ऽम्भसां पत्युः पयः शिशिर-शीकरम्.
३-१ सेवितासे प्लवङ्ग ! त्वं महेन्द्रा ऽद्रेरधित्यकाः
३-२ व्युत्क्रान्त-वर्त्मनो भानोः सह-ज्योत्स्ना-कुमुद्वतीः.
४-१ चन्दन-द्रुम-संच्छन्ना निराकृत-हिम-श्रथाः
४-२ दर्शितारस् त्वया ताश् च मलयोपत्यकाः शुभाः.
५-१ प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते
५-२ लताः स्तबक-शालिन्यो मधुलेहि-कुलाऽऽकुलाः.
६-१ द्रष्टासि प्रीति-मानारात् सखिभिः सह सेविताम्
६-२ स-पक्षपातं किष्किन्धां पूर्व-क्रीडां स्मरन् मुहुः.
७-१ त्वया सन्दर्शितारौ ते माल्यवद्-दण्डका-वने,
७-२ उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवानहम्.
८-१ आप्तारौ भवता रम्यावाश्रमौ हरिणा ऽऽकुलौ
८-२ पुण्योदक-द्विजाऽऽकीर्णौ सुतीक्ष्ण-शरभङ्गयोः
९-१ अतिक्रान्ता त्वया रम्यं दुःखमत्रेस् तपो-वनम्,
९-२ पवित्र-चित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात्.
१०-१ ततः परं भरद्वाजो भवता दर्शिता मुनिः,
१०-२ द्रष्टारश् च जनाः पुन्या यामुनाऽम्बुक्षतांऽहसः.
११-१ स्यन्त्वा स्यन्त्वा दिवः शम्भोर्- मूर्ध्नि स्कन्त्वा भुवं गताम्
११-२ गाहितासे ऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम्.
१२-१ तमसाया महा-नील-पाषाण-सदृश-त्विषः
१२-२ वना ऽन्तात् बहु मन्तासे नागराऽऽक्रीड-शाखिनः.
१३-१ नगर-स्त्री-स्तन-न्यस्त-धौत-कुङ्कुम-पिञ्जराम्
१३-२ विलोक्य सरयूं रम्यां गन्ता ऽयोध्या त्वया पुरी.
१४-१ आनन्दितारस् त्वां दृष्ट्वा प्रष्टारश् चावयोः शिवम्
१४-२ मातरः सह मैथिल्या, तोष्टा च भरतः परम्.
१५-१ आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम्,
१५-२ सुग्रीवं चा ऽर्जितं मित्रं, सर्वांश् चाऽऽगामुकान् द्रुतम्
१६-१ गन्तारः परमां प्रीतिं पौराः ष्रुत्वा वचस् तव,
१६-२ ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम्.
१७-१ गते त्वयि पथा ऽनेन वयमप्यंहितास्महे,
१७-२ लब्धाहे ऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे.
१८-१ गते तस्मिन् गृहीता ऽर्थे रामः सुग्रीव-राक्षसौ
१८-२ उक्तवान् श्वो ऽभिगन्तास्थो युवां सह मया पुरम्.
१९-१ द्रष्टास्थस् तत्र तिस्रो मे मात् स् तुष्टऽन्तराऽऽत्मनः
१९-२ आन्त्यन्तीनं सखि-त्वं च प्राप्तास्थो भरता ऽऽश्रयम्.
२०-१ नैवं विरह-दुःखेन वयं व्याघानितास्महे,
२०-२ श्रमो नुभविता नैवं भवद्भ्यां च वियोग-जः,
२१-१ एवं युवां मम प्रीत्यै कल्प्तास्थः कपि-राक्षसौ !
२१-२ गन्तुं प्रयतितासाथे प्रातः सह मया यदि.
२२-१ उत्कवन्तौ ततो रामं वचः पौलस्त्य-वानरौ
२२-२ अनुग्रहो ऽयं काकुत्स्थ ! गन्तास्वो यत् त्वया सह.
२३-१ अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया
२३-२ अपि प्राप्य सुरेन्द्र-त्वं, किं नु प्रत्तं, त्वया ऽऽस्पदम्.
२४-१ ततः कथाभिः समतीत्य दोषा- मारुह्य सैन्यैः सह पुष्पकं ते
२४-२ सम्प्रस्थिता वेग-वशाद-गाधं प्रक्षोभयन्तः सलिलं पयोधेः.
२५-१ सेतुं, महेन्द्रं, मलयं स-विन्ध्यं, स-माल्यवन्तं गिरिमृष्यमूकम्,
२५-२ स-दण्डकाऽरण्य-वातीं च पम्पां रामः प्रियायाः कथयन् जगाम.
२६-१ एते ते मुनि-जन-मण्डिता दिगन्ताः, शैलोऽयं लुलित-वनः स चित्रकूटः,
२६-२ गङ्गेयं सु-तनु-! विशाल-तीर-रम्या, मैथिल्या रघु-तनयो दिशन् ननन्द.
२७-१ शिञ्जान-भ्रमर-कुलाऽऽकुलाऽग्र-पुष्पाः शीता-ऽम्भः-प्रविलय-संप्लवा ऽभिलीनाः
२७-२ एते ते सु-तनु ! पुरी-जनोपभोग्या दृश्यन्ते नयन-मनोरमा वना ऽन्ताः.
२८-१ स्थानं नः पूर्व-जानामियमधिकमसौ प्रेयसी पूरयोध्या, दूरादालोक्यते या हुत-विविध-हविः- प्रीणिता ऽशेष-देवा,
२८-२ सो ऽयं देशो, रुदन्तं पुर-जनमखिलं यत्र हित्वा प्रयातौ आवां सीते ! वना ऽन्तं सह धृत-धृतिना लक्ष्मणेन क्षपाऽन्ते.
२९-१ तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन् विक्रान्तैः करिणां गिरीन्द्र-सदृशां क्ष्मां कम्पयन् सर्वतः
२९-२ सा ऽऽनन्दा ऽश्रु-विलोचनः प्रकृतिभिः सार्धं सहा ऽन्तः पुरः सम्प्राप्तो भरतः स-मारुतिरलं नम्रः समं मातृभिः
३०-१ अथ स-सम्भ्रम-पौर-जना ऽऽवृतो भरत-पाणि-धृतोज्ज्वल-चामरः
३०-२ गुरु-जन-द्विज-बन्द्यभिनन्दितः प्रविशति स्म पुरं रघु-नन्दनः.
३१-१ प्रविधाय धृतिं परां जनानां युव-राजं भरतं ततोऽभिषिच्य
३१-२ जघटे तुरगाऽध्वरेण यष्टुं कृत-सम्भार-विधिः पतिः प्रजानाम्.
३२-१ इदमधिगत-मुक्ति-मार्ग-चित्रं विवदिषतां वदतां च सन्-निबन्धात्
३२-२ जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथा ऽस्त्रम्.
३३-१ दीप-तुल्यः प्रबन्धो ऽयं शब्द-लक्षण-चक्षुषाम्
३३-२ हस्ता ऽमर्ष इवा ऽन्धानां भवेद् व्याकरणादृते.
३४-१ व्याख्या-गम्यमिदं काव्य- मुत्सवः सु-धियामलम्,
३४-२ हता दुर्-मेघसश् चा ऽस्मिन् विद्वत्-प्रिय-तया मया.
३५-१ काव्यमिदं विहितं मया वलभ्यां श्रीधरसेन-नेरन्द्र-पालितायाम्,
३५-२ कीर्तिरतो भवतान् नृपस्य, तस्य प्रेम-करः क्षिति-पो यतः प्रजानाम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP