तत्त्वचिन्तामणी - शब्दाप्रामाण्यवादः

तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे.


अथ शब्दो निरूप्यते ।

प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम् ।

करणञ्च तत् यस्मिन् सति क्रिया भवत्येव ।

न च शब्दे सति प्रमा भवत्येवेति नायं शब्दः प्रामणम् ।

न च शब्दो न प्रमाणमिति वाक्यस्य प्रामाण्याप्रमाण्ययोर्व्याघातः , अस्याप्रामाण्येऽपि एतदुत्थाप्यमानाविसंवादादिति चेत् न, आकाङ्क्षादिमतः पदार्थस्मरणादिव्यापारवतः प्रमाणत्वेन तथाभूतात् प्रमोत्पत्तेरावश्यकत्वात् अतथाभूतत्वे च फलाजनकत्वस्य करणान्तरसाम्यात् ।

तथापि शब्दो न प्रमाणान्तरं पदार्थसंसर्गस्यानुमानादेव सिद्धेः ।

तथापि गामाभ्याज दण्डेति पदानि वैदिकपदानि वा तात्पर्य्यविषयस्मारितपदार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बत्वात् घटमानयेतिवत् ।

योग्यतासत्तिमत्त्वे सति संसृष्टार्थपरत्वात् तत्परसन्निमत्त्वाद्देति न हेतुः, संसृष्टोहि योर्&थस्तत्परत्वं तत्परसन्निधिमत्त्वं वा असिद्धं संसर्ङ्गस्य प्रागप्रतीतेः ।

संसृंष्टत्वप्रकारकप्रतीतिपरत्वं तत्प्रकारकप्रतीतिपरसन्निधिमत्त्वं वा अनाप्तोक्ते निराकाङ्क्षे च व्यभिचारि ।

संसर्गस्य बहुप्रकारकत्वेऽपि नानाभिमतसंसर्गसिद्धिस्तस्य तात्पर्य्याविषयत्वात् ।

अन्यथा शब्दादप्यभिमतान्वयबोधो न स्यात् ।

अत एव विशेषण-विशेष्यभाववदर्थकानि तद्बोधपूर्वकाणि वेति न साध्यम् ।

यत्तु स्मारितार्थसंसर्गवन्तोति साध्यं, मत्वर्थश्च लिङ्गतया ज्ञापकत्वं ।

न चान्योन्याश्रयः, पूर्वपूर्वानुमितिहेतुत्वेन अनादित्वात् ।

तन्न ।

ज्ञापकत्वमात्रेणार्थासिद्धेः ।

प्रमापकत्वे तेनैव व्यभिचारात् ।

ज्ञानावच्छेदकतया च संसर्गसिद्धिः ज्ञानज्ञानस्य तद्विषयविषयकत्वनियमात् ।

संसर्गे च सम्बन्धिन एव विशेषकत्वात् ।

पक्षधर्मताबलात् व्यपकत्वेनागृहीतस्यापि संसर्गविशेषस्य सिद्धिः ।

अथैवं भ्रान्तिज्ञानमपि भ्रमः स्यात् ।

न चेष्टापत्तिः., ईश्वरस्यापि स्रभ्रान्तत्वापत्तेः ।

इदं रजतमिति भ्रमादिव शुक्तौ रजतज्ञानवानयमिति भ्रमस्य ज्ञानात् भ्रान्तिज्ञप्रवृत्त्यापत्तेश्च ।

यत्तु भ्रमविषयकत्वेन न प्रमत्वं भ्रमविषयाणां सिद्ध्यसिद्धिपराहतत्वात् इति, तच्च वक्ष्यामः ।

मैवं, असद्विषयकत्वेन न भ्रमत्वं भ्रमविषयाणां सत्त्वात् किन्तु व्यधिकरणप्रकारकतत्वेन ।

न च भ्रमस्य ज्ञाने व्यधिकरणं प्रकारः, रजतत्वप्रकारकत्व भ्रमेऽपि सत्त्वात् अन्यथा भ्रान्त्युच्छेदः प्रमाणाभावात् ।

ननु प्रकारकवाक्ये व्यभिचारः विशेषदर्शनेन तच्च संसर्गज्ञानाभावात् ।

न च संसर्गमप्रतीत्य वाक्यरचना न सम्भवतीत्याहार्य्यं तस्य संसर्गज्ञानं सम्भवतीति वाच्यम् ।

तावत्पदज्ञानादेव एकस्येव वाक्यरचनोपपत्तेः ।

अन्यच्चापि तस्यैव तन्त्रत्वादिति चेत् , न, एतद्वाक्यमेतस्य पदार्थसंसर्गं बोधयिष्यतीत्याशयेन वाक्यप्रयोगात् तस्यापि संसर्गज्ञानात् योग्यताविरहाच्च ।

अत एव विसम्बादिवाक्ये एकवदुच्चरिते न व्यभिचारः ।

शब्दात् संसर्गप्रत्ययस्तु योग्यताभ्रमात् ।

अथ संसर्गज्ञानं विना एकस्यान्यस्य वा सम्बादिवाक्ये भ्रान्तप्रकारकवाक्ये च व्यभिचारः कथं वा तच्च संसर्गप्रमा वक्तृज्ञानानुमानासम्भवादिति चेत् न ।

यदि तच्च संसर्गप्रमा तदा वेदतुल्यतेत्युक्तम् ।

आकाङ्क्षा - योग्यतासत्तिश्च ज्ञातोपयुज्यते, अन्यथा शाब्दभ्रमानुपपत्तेरिति ।

उच्यते ।

अर्थज्ञानं प्रवर्त्तकं न तु तज्ज्ञानज्ञानं गौरवात् व्यभिचाराच्च, अतो रजतविषयकमिति चेत् सत्यं, न तु रजतत्वप्रकारकं प्रवर्त्तकञ्च तथा, तदुभयसङ्करापत्तिश्च ।

एतेन लक्षणाद्यनुरोधात्तात्पर्य्यग्रहो वाक्यर्थधीहेतुः तात्पर्यञ्च पदार्थसंसर्गविशेषप्रतीत्युद्धेश्यकत्वं, तथाच तद्ग्राहकानुमानादेव तात्पर्यज्ञानावच्छेदकतया संसर्गसिद्धिरित्यपास्तम् ।

किञ्च व्यापकतावच्छेदकप्रकारिकानुमितिरतः स्मारिपदार्थसंसर्गज्ञानपूर्वकाणीति तस्मात् प्रवर्त्तकं ज्ञानं शब्दादेव ।

अत एव प्रवृत्त्यर्थमनुवादकता शब्दस्येत्यपास्तं ।

शाब्दानुमित्योर्भिन्नप्रकारकत्वात् एकविषयत्वाभावेन स्तात्पर्यविषयमिथःसंसर्गवन्तः आकाङ्क्षादिमत्पदस्मारितत्वात् योग्यतासत्तिमत्त्वे सति ससर्ङ्गपरपदस्मारितत्वाद्वा, अनाप्तोक्ते योग्यताविरहात् न व्यभिचारः, तच्च बाधकसत्त्वात्, तज्जन्यज्ञानस्य भ्रमत्वात् एकाकारवाक्यस्यापि बाधकसत्त्वासत्त्वाभ्यां योग्यायोग्यत्वात् ।

अथ प्रतिपत्तुर्जिज्ञासां प्रति योग्यता सा च श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावरूपाकाङ्का बाधकप्रमाविरहा योग्यता अव्यवहितसंसर्गप्रतियोगिज्ञानमासत्तिः ताश्च स्वरूपसत्यो हेतवो ।

न तु ज्ञाताः गौरवात् तद्बोधं विनान्वयानुभवे विलम्बाभावात् संसर्गनिरूप्यत्वेन प्रथमं दुरवधारणत्वाच्चेति न तानि लिङ्गविशेषणानेति चेत्, न, योग्यतादिशून्यत्वेऽपि तदभिमानेन संसर्गप्रत्ययादन्यथा शाब्दभासोच्छेदप्रसङ्गः ।

राजा पुत्रमाकाङ्क्षति पुरुषं वेति संशये विपर्यये च

वाक्यार्थधीप्रतिबन्धाच्च, योग्यतायाश्च संशयसाधारणं ज्ञानमात्रं हेतुः, स्व- परबाधकप्रमाविरहः क्वचित् निश्चीयतेऽपि यथेह घटो नस्तीत्यच्च स्वयोग्यानुपलब्धा घटाभावनिश्चयेनान्यसस्यापि घटप्रमाविरहो निश्चीयते ।

क्वचिद्बाधकप्रमामात्रविरहसंशयेऽप्यन्वयबोधः बाधसंशयस्यादूषणत्वात् ।

किञ्च तवापि योग्यतादिकं प्रमाण्ये प्रयोजकं आप्तोक्तत्वस्य तथात्वे गौरवात् अनाप्तोऽक्तेऽपि संवादेन प्रमाण्याच्च ।

एवञ्च ज्ञायमानकरणे प्रमाण्यप्रयोजनकतया ज्ञानमावश्यकमिति तासां ज्ञानं हेतुः, तच्च समभिव्याहारविशेषादिनेति ।

मैवं ।

यत्र विमलं जलं इत्यश्रुत्वैव नद्याः कच्छे महिषश्चरतीति शृणोति तत्राकाङ्कादिकमस्ति ।

न च नदौ-कच्छयोः संसर्ग इति, व्यभिचारात् ।

अत एव तन्मात्रं प्रयोजकं प्रमाण्ये ।

अथ यावात्समभिव्याहृतेत्यपि लिङ्गविशेषणं कतिपयपदस्मारिणस्तु संसर्गप्रत्ययोलिङ्गाभिमानादिति चेत् ।

न ।

तत्सन्देहेऽपि वाक्यार्थावगमात् ।

तत्र संसर्गभ्रान्तिरिति चेत् न ।

अन्यकारणाभावेन पदमेव भ्रान्तिजनकं तथाचादुष्टं सत्तदेवाभ्रान्तिं जनयत् केन वारणीयम् ।

असंसर्गाग्रहस्तचेति चेत् ।

न ।

संसर्गे बाधकाभावात् ।

अथाप्तोक्तत्वं लिङ्गविशेषणं तदेव वा लिङ्गम् ।

न च नदी- कच्छयोः संसर्गे आप्तोक्तत्वं, आप्तोक्तत्वञ्च प्रमाण्ये तन्त्रमिति तद्धत्तया ज्ञायमानस्य हेतुत्वेन तत्र ज्ञानमावशयकं व्याप्तिमत्तया ज्ञातस्येव लिङ्गस्य, तदवगमश्च लोके भ्रमाद्यमूलकतया महाजनपरिग्रहेण वेदे स्मृतौ चेति चेत् ।

न ।

यत्र कुत्रचिदाप्तत्वमनाप्तस्यापि सर्वचाप्तमप्रमितं, भ्रान्तेः पुरुषधर्मत्वात् प्रकृतवाक्यार्थयथार्थज्ञानवत्त्वञ्चाप्तत्वं प्रथमं दुर्ग्रहं, भ्रमाद्यमूलकत्वस्य प्रवृत्तिसंवादादेश्च तद्ग्राहस्याज्ञानात् प्रवृत्तिश्च सन्देहादपि ।

किञ्च पकृतसंसर्गे अयमाभ्रान्तो यथार्थज्ञानवान्वेति संसर्गमप्रतीत्य ज्ञातुमशक्यं वाक्यार्थस्यापूर्वत्वात् ।

वयन्तु बूमः बाधकप्रमाणाभावो योग्यता

सा च न लिङ्गविशेषणं बाधकप्रमाणमात्रविरहस्य सर्वत्र निश्चातुमशक्यत्वात् , तत्संशयेऽपि शब्दादन्वयबोधाच्च, शब्दप्रामाण्ये तु योग्यतायाः संशय-निश्चयसाधारणं ज्ञानमात्रं प्रयोजकमिति शब्दः प्रमाणमिति ।

जरन्मीमांसकास्तु लोके वक्तृज्ञानानुमानात्तदुपजीवसंसर्गानुमानाद्वा वाक्यर्थसिद्धौ शब्दस्यानुवादकत्वं वेदे तु तदभावात् स्वातन्त्रेण प्रामाण्यमिति वदन्ति ।

तन्न ।

वेदे क्प्तसामग्रीतो लोकेऽपि संसर्गप्रत्ययादन्यथानुवादकतापि न स्यात् लिङ्गस्य पूर्वत्वेऽपि व्याप्तिस्मृतिविलम्बेन तद्विलम्बात् ।

अनाप्तोक्तौ व्यभिचारात् वेदतुल्यापि सामग्रौ न निश्चायिकेति चेत् ।

न ।

चक्षुरादेस्तथात्वेन तच्छङ्कायामपि प्रमापकत्वात् ।

ज्ञायमानं करणं सन्देहे न निश्चायकं लिङ्गवदिति चेत् ।

न ।

संशयो हि न वाक्ये तस्य निश्चयात्, न तज्जनयज्ञानप्रमाण्ये तस्य तदुत्तरकालीनत्वात् , नाप्तोक्तत्वे तन्निश्चयस्यानङ्गत्वात् ।

ननु लोके आप्तोक्तत्वसन्देहे वाक्यार्थधीर्नेति तन्निश्चयोहेतुः तथा च वाक्यार्तगोचरयथार्थज्ञानजन्यत्वग्राहकात् ।

तदुपजीविनोऽनुमानात् वाक्यर्थधीरिति चेत् ।

न ।

वेदेतद्रहितस्यापि सामर्थ्यावधारणात् तदनिश्चयेऽपि वेदानुकारेण पठ्यमानमन्वादिवाक्येऽपौरुषेयत्वाभिमानि नोगौडमीमांसकस्यार्थनिश्चयात् ।

न चासौ भ्रान्तिः, बाधकाभावात् पौरुषेयत्वनिश्चयदशायामपि तस्य तथात्वात् ।

न चासंसर्गाग्रहमात्रं तत् अर्थस्य तथाभावेऽपि असंसर्गाहत्वे संसर्गोच्छेदापत्तेः ।

न चाप्तोक्तत्वन्निश्चयरूपकारणाबाधात् संसर्गज्ञानबाधः, व्यभिचारेण हेतुतायामेव बाधात् लौकिकत्वेन ज्ञाते तदङ्गमिति चेत् ।

न ।

मानाभावात् वाक्यार्थस्यापूर्वत्वेन लिङ्गाभावेन तद्ग्रहासम्भात् । यदि चापौरुषेयत्वनिश्चये सत्येव वेदादर्थप्रत्ययः तदा दोषवत्पुरुषाप्रणीतत्वे सत्याकाङ्क्षादिमत्पदस्मारितत्वेन वेदे पदार्थसंसर्गसिद्धिरस्त्विति वेदेऽप्युनुवादकः स्यात् ।

तदुक्तं, व्यस्तपुन्दूषणाशङ्कैः स्मारिततत्वात् पदैरमी ।

अन्विता इति निर्णीते वेदस्यापि न तत् कुतः&& ।

न चैवं शब्दस्य प्रमाणत्वमपि, अनुमानादेव वाक्यर्थप्रमोत्पत्तेरिति ।

प्राभाकरास्तु व्यभिचारिशब्दव्यावृत्तमव्यभिचार्यनुगतप्रमाप्रयोजकमुपेयं यदभावादनाप्तोक्तवाक्यादप्रमा अन्यथा कार्यवैचित्र्यं न स्यात्, तच्च ज्ञातमुपयुज्यते ज्ञामानकरणे ज्ञनोपयोगिव्यभिचारिवैलक्षण्यत्वात् प्रमाहेतुत्वाद्वा व्याप्तिवच्छब्दशक्तिवच्चेति, अन्यथा शब्दाभासोच्छेदप्रसङ्गः ।

न चाप्तोक्तत्वं तथा, संवादात् प्रमाणे शुकोदीरिते भ्रान्तप्रतारकसंवादिवाक्ये वेदे च तदभावादाप्तोक्तत्वानुमाने व्यभिचारिव्यावृत्तलिङ्गाभावाच्च ।

भावे वा तद्वत एव शब्दस्य प्रत्यायकत्वात् ।

एतेनाप्रमाहेतुत्वं न भ्रम-पमाद-विप्रलिप्सा-करणापटवानां परस्परं व्यभिचारात् मिलितस्याव्यापकत्वात् ।

किन्त्वाप्तोक्तत्वाभावस्याप्रमाहेतुत्वं तदभावश्चाप्तोक्तत्वं प्रमाहेतुरित्यपास्तं ।

आप्तोक्तत्वस्य प्रथमं लिङ्गाभावेन ज्ञातुमशक्यत्वात् ।

अत एव व्यभिचारशङ्काविरहो हेतुः सा च लोके भ्रमादिमूलेत्याप्तोक्तत्वानुमानादुच्छिद्यते, वेदे च पौरुषेयत्वनिश्चयेनेति निरस्तं ।

अभिमतवाक्यार्थस्यापूर्वत्वेन साध्याप्रसिद्धेः वेदे सदोषपुरुषाप्रणीतपदस्मारितत्वेन संसर्गसिद्धेरनुवादकतापत्तेश्च ।

नापि दोषाभावः भ्रान्तप्रतारकवाक्यजन्यज्ञाने प्रत्यक्षेणागृहीतसंवादे तदभावात् ।

दोषभावस्य हेतुत्वात् तत्र वाक्यं मूकमेव व्यवहारस्तु प्रत्यक्षादिति चेत् ।

न ।

अनुभवापलापापात् तद्धेतुत्वे विवादात् वेदेऽप्यनुवादकतापत्तेश्च ।

किञ्च दोषाभावस्य प्रमाहेतुत्वेऽप्रमायां दोषः कारणं तस्य च प्रत्येकं हेतुत्वे व्यभिचारः मिलितस्य तत्त्वे एकस्मादप्रमा न स्यात् भ्रमादीनां प्रत्येकं दोषत्वेऽननुगमः मिलितस्य तु तत्त्वे एकस्मादप्रमानुदयप्रसङ्गः ।

तस्मात् लाघवात् यथार्थतात्पर्यकत्वं शाब्दप्रमाप्रयोजकं तच्च यथार्थवाक्यर्थवाक्यर्थप्रतीतिप्रयोजनकत्वं लोक-वेदसाधारणं तदभावादप्रमा स एव दोषः, न हि जात्यैव कश्चिद्दोषः, तद्विघातकत्वाच्च भ्रमादीनां दोषत्वं ।

अत एव भ्रान्तप्रतारकवाङ्क्यं शुकादिवाक्यञ्च प्रमाणं संवादात् ।

अत एवान्यघटाभिप्रायेण गेहे घटोऽस्तीत्युक्ते यत्र धटान्तरं दृष्ट्वा तमानयति तत्रान्यपरत्वाच्छब्दो न प्रमाणं व्यवारस्तु प्रत्यक्षादेव यष्टीः प्रवेशयेति च मुख्यार्थबोधे तच्च तात्पर्यं ज्ञातमुपयुज्यते ज्ञायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्याद्व्याप्तिवच्छक्तिवच्च, अन्यथा अन्यपरादन्यान्वयबोधोन स्यात् इति शब्दाभासोच्छेदप्रसङ्गः, तदभ्रमाच्च शाब्दभ्रमः ।

अत एव यष्टीः प्रवेशयेत्यच लक्षणा नानार्थे विनिगमना च तयोस्तात्पर्यग्रहमूलकत्वात् ।

यदि च यत्र वास्तवं तात्पर्यं तं शाब्दोबोधयति तदा लक्षणानां मुख्यार्थान्वयानुपपत्त्युपयोगो न स्यात् ।

अत एव पचतीत्युक्तेऽयोक्तेन स्वयं स्मृतेन वा कलायपदेनोपस्थिते कलायं पचतीत्यन्वयबोधो न भवति तात्पर्यानिश्चयात् ।

न च तात्पर्यग्राहकस्य प्रकरणादेः प्राथम्यादावश्यकत्वाच्च शब्दसहकारिता न तु तात्पर्यग्रहस्येति वाच्यम् ।

तेषामननुगतत्वेन परस्परव्यभिचारादहेतुत्वात् तात्पर्यग्राहकतात्वननुगतानामपि व्याप्यत्वात् धूमादीनामिव ।

तच्च तात्पर्य वेदे न्यायगम्यं, यत्र न्यायात् तात्पर्यमवधार्यते स एव वेदार्थः, लोके च न केवलं न्यायानुसारि तात्पर्यं इति न न्यायगम्यं किन्तु पुमभिप्रायनियन्त्रितं, न्यायाविषयेऽपि पुरुषेच्छाविषये प्रतीतिजनकत्वात् पुंवचसां ।

वक्ता च परकीयवाक्यार्थज्ञानोत्पादनेच्छाया वाक्यमुच्चारयति ।

सा चेच्छा यदि वक्त्रुर्यथार्थवाक्यार्थज्ञानपूर्विका भवति तदैव परं तदुच्चारणस्य तदैव परं तदुच्चारणस्य पुमभिप्रेतयथार्थवाक्यार्थज्ञानपरत्वं यथार्थज्ञानेच्छाव्याप्यं निर्वहतीति वक्तुर्यथार्थवाक्यार्थज्ञानवत्तामविज्ञाय यथार्थप्रतीतिपरत्वं ज्ञातुं न शक्यत इति प्रथममाप्तवाक्याद्वक्तृज्ञानानुमानपूर्वकमर्थतथात्वमनुसन्धाय यथार्थप्रतीतिपरत्वं ज्ञातुं न शक्यत इति प्रथममाप्तवाक्याद्वक्तृज्ञानानुमानपूर्वकमर्थतथात्वमनुसन्धाय यथार्थतात्पर्यनिश्चयः ।

अनुमानच्चेदं वाक्यं भ्रमादि-विशिष्टज्ञानयोरन्यतरजन्यं वाक्यत्वादिति ।

ततो भ्रमादिनिरासे सति परिशेषाद्वाक्यार्थज्ञानानुमानं अयं स्वप्रयुक्तवाक्यार्थर्यथार्थज्ञानवान् भ्रमाद्यजन्यवाक्यप्रयोक्तुत्वात् अहमिव, न त्वाप्तत्वात् साध्यविशेषात् ।

तत एते पदार्था यथोचितसंसर्गवन्तः यथार्थज्ञानविषयत्वात् आप्तोक्तपदस्मारितत्वाद्वा मन्दुक्तपदार्थवदिति ।

ननु वक्तुर्ज्ञानविशेषोऽनुमेयः ज्ञाने चार्थ एव विशेषः न त्वर्थाधीनोऽन्यः अर्थेनैव विशेषः इत्यौपचारिको तृतीया तथाच वाक्यार्थज्ञानविशेषोऽनुमेयः तस्य चाप्रसिद्ध्या न व्याप्तिग्रहः ।

अत एवास्मिन् वाक्यर्थे अयमभ्रान्त आप्तो वेति ज्ञातुमशक्यमिति शब्द एव तमर्यं बोधयेदिति चेत्, न, तात्पर्यावधारणार्थं त्वयाप्यशाब्दा एव संसर्गविशेषप्रतीतेरवश्याभ्युपेयत्वात् अन्यथा क्व तात्पर्यनिरूपणं । अत एव आप्तोत्कत्वभ्रमाद्यन्यत्वनिरूपणमपि सुकरं ।

शाब्दन्तु संसर्गज्ञानं प्रथमं न भवति ज्ञानान्तरन्तु भवत्येव ।

न चैवं शब्दो न प्रमाणं तदर्थस्य प्रागेव सिद्धेरिति वाच्यम् ।

तवापि तुल्यत्वात् ।

ननु तथापि कथमर्थविशेषसिद्धिः विशेषेण व्याप्त्यग्रहादिति चेत् ।

न ।

यथा यो यत्र प्रवर्त्तते स तज्ज्ञानातीति सामान्यतोव्याप्तिज्ञाने पाकादौ प्रवृत्तिदर्शनात् पाकविषयकार्यताज्ञानानुमानं, यथा चेष्टाविशेषदर्शनात् दशसंख्याभिप्रायमात्रज्ञाने घटे तच्चेष्टादर्शनात् घटे दशत्वज्ञानं तथा सामान्यतोव्याप्त्यावापि विशेषसिद्धिः ।

यद्वा इदं वाक्यं साकाङ्क्षैवतदर्थविषयकैकज्ञानहेतुकं आप्तोक्तत्वे सति एतदर्थप्रतिपादकत्वात् मद्वाक्यवत्, तत एते पदार्थाः परस्परसंसर्गवन्तः साकाङ्कत्वे सत्येकज्ञानविषयत्वात् सत्यरजतज्ञानविषयवत्, एवं वक्तुर्यथार्थवाक्यार्थज्ञानेऽनुमिते प्रकरणादिना वक्त्रभिप्रेतयथार्थवाक्यार्थज्ञानेऽनुमिते प्रकरणादिना वक्त्रभिप्रेतयथार्थप्रतीतिपरत्वज्ञानं ततो वेदतुल्यतया शब्दादर्थप्रत्यय इत्यनुवादक शब्दः वक्तृज्ञानावच्छेदकतया संसर्गज्ञानानुमानात् तदुपजीविसंसर्गानुमानाद्वा वाक्यार्थस्य प्रागेव सिद्धेः ।

यत्तु संसर्गाग्रहो भ्रमः तदभावश्च संसर्गग्रह एवेति भमाभावेऽनुमीयमाने संसर्गज्ञानमेवानुमितं इत्याप्तत्वानुमानान्तर्गतमेव वक्तृज्ञानानुमानं न तु वक्तृज्ञानानुमाने तलिङ्गं इति ।

तन्न, भ्रमोहि ज्ञानद्वयं अगृहीतभेदं तदभावश्च गृहीतभेदज्ञानं, न हि ज्ञानाभावे सुषुप्तौ भ्रमव्यवहारः, ततो भ्रमाभावनिश्चयानन्तरं वक्तृज्ञानानुमानं, तर्हि यादृशं लिङ्गं तादृशमेव गमकमस्त्विति ।

अत्रोच्यते ।

यथार्थवाक्यर्थदीपरत्वं न ज्ञातं प्रमोत्पादकं गौरवात् वाक्यर्थनिरूप्यत्वेन प्रथमं ज्ञातमशक्यत्वाच्च तस्यापूर्वत्वात् ।

यच्च लोके भ्रमादि निरासानन्तरं वक्तृज्ञानाच्छेदकतया तदग्रे स्वातन्त्रेण वा पुमभिप्रेतवाक्यार्थज्ञाने तत्प्रतीतिपरत्वं प्रकरणादिना ज्ञायत इत्युक्तं, तन्न, वाक्यार्थमज्ञात्वा अत्रायभ्रान्त इति ज्ञातुं पुरुषत्वाद्वक्तुर्भ्रम - प्रमादसम्भवेन प्रथमं भ्रमाद्यजन्यत्वस्य ग्रहीतुमशक्यत्वात् प्रवृत्तिसंवादादेर्ज्ञानोत्तरकालीनत्वात् भ्रमादिजन्यविलक्षणत्वेन च शब्दस्याज्ञानात् ज्ञाने वा यादृशोलिङ्गत्वं तस्यैव प्रत्यायकत्वं अव्यभिचारात् वेदेऽपि वाक्यार्थमविज्ञाय तद्यथार्थप्रतीतिपरत्वं न्यायेनापि ज्ञातुमशक्यं विषयनिरूप्यत्वात् प्रतीतेः लोके तात्पर्यनिरूपणार्थमशाब्दवाक्यार्थप्रतीतेः प्रथमं त्वयापि स्वीकारात् ।

अन्यथा वक्तृज्ञानानुमानं न स्यात् ।

न च लोकवत्मानान्तरात्तदवगमः, वेदार्थस्य तदविषयत्वात् वेदस्य प्रथमं मूकत्वत्, न च न्यायसिद्धे वेदार्थे मानान्तरातात्पर्यग्रहः, वेदस्यानुवादकतापत्तेः शब्दस्याप्रमाणत्वापत्तेर्वा ।

अज्ञाते वाक्यर्थे तर्क - संशययोरप्यभावात् अयं पदार्थोऽपरपदार्थसंसृष्टो न वेति संशये तर्के वा एककोटौ संसर्ग उपस्थित इति चेत्, न, अनिश्चिते तात्पर्यानिश्चयात् तयोरगृहीततासंसर्गविषत्वेनासदर्थविषयकत्वेन वा वाक्यर्थाविषयत्वाच्च ।

अन्यथा लाकेऽपि ताभ्यामेवोपस्थितिरिति किं वक्तृज्ञानानुमानेन ।

वस्तुतस्तु यदि यथार्थतात्पर्यकत्वं ज्ञानं शब्दप्रमोत्पादकं तदा लोक-वेदयास्तादृशपदस्मारितत्वेन पदार्थसंसर्गानुमितिसम्भवात् न शब्दः प्रमाणं स्यात् ।

अपि च पुंवाक्यस्य दोष-विशिष्टज्ञानान्यतरजन्यत्वेऽनुमिते परिशेषाद्दोषाजन्यत्वनिश्चयदशायां वेदतुल्या सामाग्री पुंवाक्येऽपि वृत्तेति तत एवार्थनिश्चयात् वेदवत्तस्यापि प्रामाण्यं, अनुमितानुमानस्य व्याप्तिस्मृत्यादिविलम्बितत्वात् ।

एतेनाबाधितार्थपरत्वं लोके वेदे च प्रमापकं लोके वाक्यर्थो बाधितोऽपि दृष्ट इति श्रोतुः प्रमाणावतारं विना न बाधाभावनिश्चयः स च क्वचिच्छृतुरिन्द्रियेण क्वचिद्वक्तुराप्तत्वानुमानेन वेदे तु न्यायात्तन्निश्चयः तदर्थस्य प्रमाणान्तराविषयत्वात् न तत्र शङ्केति सामाग्रीभेद इति निरस्तं ।

प्रथमभ्रमाद्यभावस्याप्तस्य वा निश्चेतुमशक्यत्वात् वेदस्यानुवादकतापत्तेश्च ।

तस्मात् भ्रमाद्यजन्यत्वं आप्तोकत्वं अबाधितार्थकत्वं यथार्थतात्पर्यकत्वं निरस्तव्यभिचारशङ्कत्वं अन्यद्वा व्यभिचारिव्यावृत्तं यत्प्रमोत्पादकं तत् स्वरूपसत् न ज्ञातं ।

अन्यथा तादृशस्य वाक्यार्थाव्यभिचारितया तादृशपदस्मारितत्वात् लिङ्गादेव संसर्गसिद्धिः स्यादिति जितं वैशिषिकैः ।

अथ व्यवहारानुमितव्यवहर्त्तृकार्यान्वितज्ञाने उपस्थितत्वेन पदानां हेतुत्वग्रहादन्विताभिधायकत्वं तदानीं शब्दस्य लिङ्गत्वेनोनुपस्थितेरिति चेत् ।

न ।

लिङ्गाभावेनैव शब्दादन्वितज्ञानोपपत्तेर्नाकाङ्क्षादिमच्छब्देन कारणता गौरवात् । शब्दस्य लिङ्गत्वं सम्भवदपि बालेन न ज्ञातमिति चेत्, सोऽयं बालस्य दोषो न वस्तुन इत्यादि वक्ष्यते ।

किञ्चैवं लोकवद्वेदेऽपि अनुवादकता स्यात् ।

एतेन वाक्यार्थतात्पर्यग्राहकानुमानात् तात्पर्यावच्छेदकतया तदुपजीविनोऽनुमानात् स्वातन्त्रेण वाक्यार्थसिद्धेर्न शब्दः प्रमाणमिति वैशेषिकमतपास्तम् ।

यथार्थतात्पर्यग्रहस्य वाक्यार्थबोधाहेतुत्वात् ।

यत्तु ज्ञायमानकरणे इति, तन्न, यथार्थतात्पर्यकत्वादेः प्रथमं ज्ञातुमशक्यत्वेनानुमानस्य बाधितत्वात् व्याप्त्यसिद्धेश्च ।

न हि व्याप्तिः शब्दशक्तिश्च कारणं, किन्तु तद्धीः, अतीतेऽनुमितिदर्शनात् ।

अपभ्रंशादौ शक्तिभ्रमादन्वयबोधाच्च ।

न च सैवापयुज्यत इति साध्यं, प्रथमं तदसम्भवात् ।

तस्मात् यत् अर्थाव्यभिचारित्वेन ज्ञातं कारणं तत्र व्यभिचारिवैलक्षण्यज्ञानमुपयुजन्यते अन्यथा शब्दस्यार्थव्यभिचारितया ज्ञातस्य ज्ञापकत्वे लिङ्गतापत्तेर्वज्जलेपायमानत्वात् ।

स्यादेतदनाप्तोक्ते बाधकेनार्थाभावदर्शनात् आकाङ्क्षादिमद्वाक्यत्वेन सदर्थकं बाधितार्थकं वेति संशयान्न तावन्मात्रादर्थनिश्चयः, न हि संशायकमेव निश्चायकं, इत्यधिकमपेक्षणीयमिति चेत् ।

न । अर्थसंशयस्य तद्बाधसंशयस्य वा प्रमाणाप्रतिबन्धकत्वात् ।

वह्नि-तद्बाधयोः संशयेऽपि प्रत्यक्षानुमानादिना अर्थनिश्चयात् अन्यथा प्रमाणमात्रोच्छेदः, तत्पूर्वमर्थ-तद्बाधसंशयात् ।

विनाप्यर्थं वाक्यरचना सम्भत्यत एतस्यायमर्थो न वा, एतत्सदर्थकं न वा, एतज्जन्यज्ञानं सद्विषयकं न वेति संशयस्यार्थावगमोत्तरकालीनत्वाच्च ।

तस्मादाप्तोक्तत्वं भ्रमाद्यजन्यत्वं अबाधितार्थकत्वं यथार्थवाक्यार्थप्रतीतिपरत्वं वा ज्ञातं अनुगतमपि न हेतुः प्रथमं ग्रहीतुमशक्यत्वात्, किन्तु तात्पर्यग्राहकत्वेनाभिमतानां न्यायजन्यज्ञान-प्रकरणादीनामन्यतरत् तात्पर्यव्याप्यत्वेनानुगतं, तथाकाङ्क्षासत्तिनिश्चयः, तद्विपर्यये संशये च शाब्दज्ञानाभावात् ।

योग्यतायाश्च ज्ञानमत्रं हेतुः तत्संशये विपर्यये प्रमायाञ्च वाक्यार्थज्ञानात् , तथा विभक्त्यादिसमभिव्याहरः सम्भूयोच्चारणञ्च शाब्दज्ञानमात्रे कारणानि नानार्थे श्र्लिष्टे चानेकोपस्थितावपि प्रकरणादिवशादेकमर्थमादयान्वयबोधः ।

लक्षणा च न तात्पर्यानुपपत्त्या किन्त्वन्वयानुपपत्त्यैव प्रकरणाद्भोजनप्रजनकत्वेनावगतप्रवेशनस्य यष्ट्यन्वयानुपपत्तेः ।

अजहत्स्वार्थायां प्रकरणादेव छत्रि तदितरस्य यान्तीत्यनेन गमनकर्त्तृत्वमवगतं तदन्वयानुपपत्तिच्छत्रिमात्रे, पचतीत्यस्य कलायमित्यन्योक्तेन समं नार्थप्रत्याकत्वं समभिव्याहाराभावात्, तवापि तस्य तात्पर्यग्राहकत्वात् सहोच्चरितानां सम्भूयार्थप्रत्यायकत्वस्य व्युत्पत्तिसिद्धत्वात् ।

अन्ये तु नानार्थे लक्षणायाञ्च नियतोपस्थित्यर्थं पदार्थे तात्पर्यग्रहापेक्षा तेन विना तदभावात् न वाक्यार्थे, तदज्ञानेऽपि प्रकरणादिना सैन्धवपदं तुरगपरं काकपदं उपघातकपरमिति हि प्रतियन्ति ।

अन्यत्रान्वयप्रतियोग्युपस्थितिः तात्पर्यग्रहं विनैवेति न तदपेक्षा ।

वस्तुतस्तु इतरपदस्य इतरपदार्थसंसर्गज्ञानपरत्वं तात्पर्यं तच्च वेदे न्यायादवधार्यते लोके न्यायात् प्रकरणादेर्वा ।

अत एव शाब्दबोधे नानियतहेतुकत्वं तच्चेतरपदार्थसंसर्गज्ञानं वाक्यर्थज्ञानमेवेति सामान्यकारेण तत्परत्वग्रहः हेतुर्न तु विशिष्य, तच्च स्वपरपदार्थयोः संसर्गानुभवजननं विना अनुपपन्नमिति पदानि सम्भूय जनयन्ति, अत एव नानार्थे विनिगमना, तदनुपपत्तिरेव लक्षणाबीजं तदभावादेव पचतिपदे न स्मृतकलायान्वयबोध इति सिद्धं शब्दस्य प्रमाणान्तरत्वं ।

तस्य च निराकाङ्क्षादौ संसर्गज्ञानाजनकत्वात् आङ्क्षादिकं सहकारीति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP