ननु तथाप्यप्रयोजकं पौरुषेयत्वानुमानं नित्यनिर्देषत्वेनैव तत्प्रामाण्योपपत्तेरिति चेत् ।
न ।
वर्णानां अनित्यत्वेन तत्समूहस्य सुतरामनित्यत्वात् ।
न च तदसिद्धं, तथाहि वर्णात्मकः शब्दोऽनित्यः समवेतत्वे सत्युत्पत्तिमत्त्वात् घटवत् ।
न च हेत्वसिद्धिः, उत्पन्नो गकारः हट्टायामुत्पद्यमानोऽस्ति कोलाहल इति प्रत्ययात् ।
न च व्यञ्जकाभावात् प्रागनुपलब्धस्योपलब्धिमात्रं तस्य, उत्पन्नो गकार इति प्रत्ययात् ।
न चायमौपाधिकः, अन्योत्पत्तावगृह्यमाणायामपि तदनुभवात् ।
न च स्मर्यमाणारोपः, बाधकाभावात् ।
अन्यथा घटोत्पत्तिरपि न सिद्ध्येत् ।
यत्तु श्रोत्रानुविधानात् पदं शृणोमीत्यबाधितानुव्यवसायात् श्रोत्रादन्येन ग्रहीतुमशक्यत्वाञ्च श्रोत्रग्राह्यैवानुपूर्वी सा च धममानकालीनप्रागभावप्रतियोगित्वं टस्येति प्रागभावप्रतियोगित्वमुत्पत्तिमत्त्वं वर्णस्य प्रत्यक्षमिति, तन्न, घज्ञानानन्तरज्ञानविषयत्व टस्यानन्तर्यं तयोरानुपूर्वी सा च मनसैव गृह्यते घटपटज्ञानयोरिव ।
तदुपनीता च श्रोत्रविषयः ।
ननु स एवायं गकार इति प्रत्यभिज्ञाबाधितमिदमित्येकैका एव गकारादिव्यक्तयः ।
यद्यपि प्रत्यभिज्ञायां नित्यत्वं न विषयस्तथापि नाशकत्वाभिमतशब्दान्तरादीनां अन्तरासम्भवेऽपि तावत् कालीनतां गकारस्य गृह्णातीति तावत्कालं स्थिरञ्चैनं कः पश्चान्नाशयिष्यतीति पराभिमताशुविनाशित्वतिरेकान्नित्यतायामेव पर्यवस्यति ।
न च धर्मिणो गकारस्य भेदेऽपि एकजातीयत्वेन प्रत्यभिज्ञा, तथा सति तज्जातीयोपमितिः स्यान्न तु स एवायमिति ।
अथ तारत्व-मन्दत्व-विरुद्धधर्माध्यस्तविषयत्वेन सा न प्रमाणम् ।
न च तारत्वादीनां स्वाभाविकत्वं विरुद्धत्वञ्चासिद्धं, मन्दस्तारो गकारस्तारान्मन्दोऽन्य इत्यनन्यथासिद्धप्रत्यक्षात् तत्सिद्धेः ।
न ह्यपां शैत्य-द्रवत्वे स्वाभाविके इत्यत्र प्रत्यक्षादन्यत् प्रमाणम् ।
तत् किं यो यद्गतत्वेन भासते स तद्धर्म एव तथा सति रक्तः पटः लोहितः स्फटिकः इत्यादावपि तथा स्यादविशेषात्, न, रक्तत्वादीनामन्यधर्मत्वस्थितौ स्फटिकादीनाञ्च तद्विरुद्धधर्मत्वे स्थिते जपाकुसुमादेरन्वय - व्यतिरेकानुविधानाद् बाधेन तत्र भ्रान्तत्वात् ।
न चेह तारत्वादेरन्यधर्मत्वेनोपस्थितिः ।
नापि गकारादीनां तद्विरुद्धधर्मवत्त्वम्, नाप्यन्यस्य तारत्वादिधर्मणोऽनुविधानम् ।
न चावश्यं स्वीकृतवायोरेव धर्मास्तारत्वादयोगकारादिगतत्वेन भासन्ते इति वाच्यम् ।
स्पर्शाग्रहे त्वचो व्यापाराभावेन त्वचा तदग्रहात् ।
न च श्रवसा तद्गहः, अवायवीयत्वेन वायुमात्रधर्माग्राहकत्वाच्चक्षुर्वत् ।
तारत्वादयो वा न वायुधर्माः श्रवणत्वात् कादिवात्, वायुर्वा न श्रवणमात्रग्राह्यधर्मोमूर्त्तत्वात् पटवत्, अत एव न तारत्वादयो वायुधर्मध्वनिधर्माः वायुधर्मस्य ध्वनेरग्रहात् ।
न च ध्वनिरूपः शब्दो नभोवृत्तिरेव तथा सति तद्धर्मतारत्वादिग्रहः श्रवसेति वाच्यम् ।
तारोऽयं गकार इत्यत्र ध्यनीनामस्फुरणं, तत्कारणाभावाच्च ।
न च व्यक्त्या विना जातिस्फुरणं, तस्या व्यक्तिसमानसंवित् संवेद्यत्वात् ।
न च स्मर्यमाणतारत्वाद्यारोपः, बाधकाभावात् प्रथमतस्तारत्वाद्यग्रहप्रसङ्गाच्चेति ।
मैवं ।
तारत्वादयो न गकारादिजातयः गत्वादिना सङ्करप्रसङ्गात् ।
न च नानैव तारत्वं, ताराकरानुगतप्रत्ययाभावप्रसङ्गात् ।
न च सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकशब्दवृत्तिजातित्वेन नानातरत्वेष्ठनुगमः, तदप्रतिसन्धानेऽपि तारत्वानुगतप्रत्ययात् ।
तारत्व-मन्दत्वे च न शब्दवृत्तिजाती सप्रतियोगिकत्वात् ।
नापि तारत्व-मन्दत्वयोर्विरोधः, य एव गकारस्तार आसीत् स एवेदानीं मन्द इति समयभेदेन वक्तृभेदेन च तयोरेकत्वप्रतीतेः ।
तारोऽयं न तारतरस्तारान्मन्दोऽन्य इति भेदप्रतीतिरस्तीति चेत् न, धर्मिणोऽभेदे भासमाने विशिष्टधर्मिभेदप्रतीतेर्धर्मभेदविषयत्वात् ।
एकत्र घटे लोहितोऽयं न श्यामैदानीमिति प्रतीतिवत् ।
न च तीव्रेण गकारेण मन्दगकाराभिभावात् तयोर्भेदः न हि तदेव तदभिभावकं,तस्यैव तेनैव तदैव ग्रहणाग्रहणयोर्विरोधात् इति वाच्यम् ।
तारत्वव्यञ्जकवायोर्बलवत्त्वेन मन्दत्वव्यञ्जकवाय्वभिभावात् मन्दत्वस्याग्रहणात् ।
सन्तु वा तार-मन्दरूपादयोभिन्ना एव गकारास्तत्प्रत्ययभिज्ञाने बाधकाभावात् । तस्मात् वायुधर्मा एव तारत्वादयः शब्दगतत्वेन भासन्ते दर्पणधर्मा इव सुखादौ तद्ग्रहणञ्च स्पर्शपुरस्कारेण कर्णशष्कुलीत्वगिन्द्रियेण तार-मन्दजनकवायूनं त्वयाप्युत्कर्षापकर्षस्योद्भूतस्पर्शस्य च स्वीकारात् श्रोत्रेणैव वा । चक्षुरादेर्यन्न वायुधर्मग्रहस्तत्रायोग्यत्वमुपाधिः, अन्यथा श्रोत्रेण स्वगुणो न गृह्येत इन्द्रिये तथा दर्शनात्, चक्षुर्वा न पार्थिवरूपग्राहकं अपार्थिवेन्द्रियत्वात् रसनवत् इत्यद्यपि स्यात् ।
अथ योग्यो योग्येन गृह्यते स्वगुणः परगुरणो वा, योग्यता च फलबलेन कल्पते, तर्हि श्रोत्रस्यापि वायुधर्मग्रहे तुल्यम् ।
न च तारो गकार इत्यत्र वायोरप्रतीतिः, वायुत्वेनाप्रतीतावपि तारत्वादिनैव तत्प्रतीतेः, यथा अग्नित्वेनप्रतीतावपि अयोगोलके लोहित इति प्रतीतिः ।
ननु वायु-शब्दयोस्त्वचा श्रोत्रेण वा ग्रहे केन तारोऽयं गकारैत्यारोप इति चेत्, न, उभयेन्द्रियग्राह्ययोरसंसर्गाग्रहात् संसर्गव्यवहारः ।
अस्तु वा त्वगिन्द्रियोपनीतस्य श्रोत्रेणारोपः श्रोत्रेणैव वा तारत्वग्रहोऽपीत्युक्तं, उत्पत्तिमत्त्वञ्चासिद्धं तत्प्रतीतेः श्रुतपूर्वोऽयं गकार इति प्रत्यभिज्ञानबाधितत्वात् ।
ननु प्रत्यभिज्ञैव तया बाधिता गत्वजात्यौपधिकोऽभेदप्रत्ययो गकारे सम्भवतीत्युक्तमिति चेत्, न, गत्वजातेरसिद्धेः भेदे भासमाने ह्यभेदप्रतीतिर्जातिमालम्बते ।
न च गकारभेदप्रतीतिरस्ति, तारत्व-मन्दत्वे अपि न भेदहेतू य एव तारः स एवेदानीं मन्द इति प्रत्यभिज्ञानात्, गकारानित्यत्वेऽपि तथा सम्भवतीति चेत्, तर्हि नित्यत्वेऽपि कर्णशष्कुलीत्वगिन्द्रियोपनीतवायुधर्मोत्पत्तेरुपाधित्वं सम्भवति ।
न च वायोरप्रतीतिः, उत्पन्नत्वेनैव तत्प्रतीतेः लोहितत्वेनेव जपाकुसुमस्य स्फटिके ।
अस्तु वा प्रागनुलभ्यमानत्वे सति उपलभ्यमानत्वेन उत्पन्नस्य सादृश्येन स्मृतोत्पत्तिमत्त्वारोपः ।
न चैवं घटादावपि नोत्पत्तेः सिद्ध्येदिति वाच्यम् ।
कुलालव्यापारानन्तरमनुभूयमानधटस्य तद्व्यापारात् प्रागनुभूयमानेन घटेन नाभेदोभासते किन्तु भेद एवेति तत्र प्रागसत्त्वे सत्त्वं सिध्यति, गकारे तूत्पत्तिप्रतीत्यनन्तरं कण्ठताल्वादिव्यापारात् पूर्वमनुभूयमानगकारेणाभेदप्रत्ययात् पूर्वमनुभूयगकारेणाभेदप्रत्ययात् दीपवत् स व्यञ्जक एव ।
अथ शब्द उत्पद्यते उत्कर्षवत्त्वे सति अपकर्षवत्त्वात् माधुर्यवत् अत एवानित्यत्वमिति चेत् ।
न ।
तारत्व-मन्दत्वयोरुत्कर्षापकर्षयोर्गकारे पूर्वन्यायेनासिद्धेः सिद्धौ वा जातिसङ्करभयेनोत्कर्षापकर्षयोर्जात्योः रसत्व-शब्दत्वव्याप्ययोर्नानात्वेन रसशब्दसाधारण्याभावात् ।
अत एव सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकसामान्यमुत्कर्षः तत्प्रतिबध्यसाक्षात्कारविषयतावच्छेदकसामान्यमपकर्ष इति साधारणो हेतुरपास्तः ।
तारत्वादेर्गकारजातित्वासिद्धेः ।
साधनावच्छिन्नसाध्यव्यापकपूर्त्तगुणतत्वस्याश्रौत्रत्वस्य चोपाधित्वात् अप्रयोजकत्वाच्च ।
न हि कारणाधीन एव उत्कर्षोऽपकर्षश्च, परममहति परमाणौ च परिमाणे प्रत्येकं सत्त्वात् ।
न चोभयस्यैकत्र सत्त्वं कारणप्रयोज्यं, एकैकवद्द्वयोरपि प्रत्येकमेकत्वात् ।
स्यादेतत् ।
श्रोत्रव्यापारानन्तरमिदानीं श्रुतपूर्वो गकारो नास्ति विनष्टः कोलाहल इति प्रतीतेः प्रत्यक्षमेव शब्दानित्यत्वं विनाशिभावत्वेनोत्पत्तिमत्त्वानुमानद्वा, प्रत्यक्ष्रप्रतियोगिकाभावत्वेन हि प्रत्यक्षत्वं ध्वंसस्य घटध्वंसवत् न तु विनाशग्रहे प्रतियोगिसमवायिप्रत्यक्षत्वं तन्त्रं धर्माभावस्य प्रत्यक्षत्वापत्तेः ।
तदिन्द्रियाग्राह्येऽपि प्रतियोगिसमवायिनि गन्ध-रसाभावयोग्रहणाच्च ।
नोभयं गौरवात् स्मृतघटसंयोगध्वंसप्रत्यक्षत्वापाताच्च ।
न च प्रतियोगियोग्यत्वस्य तन्त्रत्वे वायुस्पर्शध्वंसोऽपि प्रत्यक्षः स्यात् इति वाच्यम् ।
आश्रयनाशजन्यस्य तस्य ग्राहकेन्द्रियसन्निकर्षाभावात् ।
किञ्च यस्य सत्त्वं यत्रानुपलब्धार्थः ।
अत एव पृथिवीत्वाभावो जलीयपरमाणौ न प्रत्यक्षः प्रत्यक्षश्च वायौ रूपाभावः ।
अस्ति च तथा शब्दे तस्य सत्त्वे समवधाने च प्रतीतिप्रसङ्गात् ।
निरधिकरणाभावप्रतीतिर्नास्तीति चेत्, न, इहेदानीं शब्दो नास्तीति प्रतीतेः ।
तस्मात् यत्राधिकरणे देशे समये वा प्रतियोग्यत्र वर्तते तत्र तदभावो निरूप्यते ।
अत एव सद्भ्यामभावो निरूप्यते इत्युक्तं, शब्दाभावस्य च स्वत एवेन्द्रियसन्निकृष्टत्वात् नाश्रये सन्निकर्षापेक्षा ।
इन्द्रियविशेषणतया नाभावग्रहणमिति चेत् ।
न ।
अयोग्यत्वस्यापधित्वात् ।
अन्यथा गुणस्य संयुक्तसमवायेन ग्रहणदर्शनात् न समवायेन शब्दग्रहः स्यादिति ।
मैवं ।
सत एव हि शब्दस्य व्यञ्जकविरहादनुपलब्धिमात्रं न तु ध्वंसः, तत्तद्वयापेतरसकलतदुपलम्भकसमवधाने तदनुपलब्धिरूपयोग्यानुपलब्धेरभावात् ।
प्रतियोग्युपलम्भकव्यञ्जकवायुस्पर्शध्वंसोपाधिकैव ।
वायुर्नोत्पादकः किन्तु व्यञ्जकः इत्यत्र किं विनिगमकमिति चेत् ।
न ।
इदानीं श्रुतपूर्वो गकारो नास्ति विनष्टः कोलाहलैति प्रतीत्यनन्तरं पुनः श्रवणे श्रुतपूर्वोऽयं गकारः पुनः स एवायं कोलाहल इति प्रत्यभिज्ञानमेव, घटध्वंसप्रतीत्यनन्तरञ्च स एवायं घट इति न प्रत्यभिज्ञानमिति तत्र विनष्टप्रतीत्याध्वंस एव सिध्यति ।
अत एव तारत्व-तारतरत्व-मन्दत्व-मन्दतरत्वप्रतीतीनां भ्रमत्वकल्पनमित्यपास्तम् ।
एतासु सतीष्प्यभेदप्रत्यभिज्ञानात् ।
स्यादेतत् ।
शब्दः प्रयत्नसाध्यः तदनभिव्यञ्जकत्वं हि इन्द्रियसम्बन्धप्रतिबन्धकापनायकत्वादिन्द्रियसन्निधापकत्वाद्वा कुड्योत्सारणेनेव पटादीनां, तदुभयमपि शब्दे न सम्भवति नित्यसमवेतत्वेनावरणापनयन-सन्निधानपनयोरभावात् ।
नापि श्रोत्रसंस्कारात्, इन्द्रियसंस्कारस्य उन्मीलनालोकादेः सकृदिन्द्रयसम्बन्धयोग्यसर्वार्थोपलब्ध्यनुकूलसंस्कारजनकत्वं दृष्टं तद्वद्वायुरपि सकृदेव सर्वशब्दोपलब्ध्यनुकूललं श्रोत्रे संस्कारमादध्यात्, तथाच सर्वशब्दोपलब्धिः स्यात् ।
तदुक्तं सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान् प्रकाश्येत् ।
घटायोन्मीलितं चक्षुः पटं न हि न बुध्यते&& ।
अथान्वय - व्यतिरेकाभ्यां कार्ये प्रतिनियतजनकजन्यत्ववच्छब्देऽपि प्रतिनियतव्यञ्जकव्यङ्याः एकावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्यत्वात् घटैकत्वपरिमाणवत् ।
न चावयवसंयोग-बहुत्वव्यञजकाव्यङ्येनावयविनोत्पलत्वव्यञ्जकदीपाव्यङ्येन तन्नीलिम्ना घटवृत्तिपृथक्त्वव्यञ्जकाव्यङ्येनैकत्वेन वा व्यभिचारः । अवयवसंयोगावयविनोर्नीलत्वोत्पलत्वयोश्चाव्याप्यव्याप्यवृत्तिनोरुत्पलत्वस्य चाधिकवृत्तित्वेनैकावच्छेदेन वृत्त्यभावात् ।
बहुत्व-पृथक्त्वव्यञ्जकव्यङ्यत्वं, अत एव नीला बलाकेत्यत्र
रूप-परिमाणयोरर्द्धनिखातवंशसङ्ख्या-परिमाणयोर्वा न व्यभिचार इति ।
मैवं ।
वर्णाः प्रतिनियतव्यञ्जकव्यङ्याः आश्रयेण सह समानेन्द्रियाग्राह्यत्वात् गन्धवत् इत्यापाततः सत्प्रतिपक्षत्वात् ।
वस्तुतस्तु अनन्यथासिद्धप्रत्यभिज्ञानबलेननाभेदसिद्धौ प्रतिनियतव्यञ्जकव्यङ्यत्वसाधकस्यै बलवत्त्वं, शब्दस्य शब्दजनकत्वञ्च शब्दनाशकत्वं वीचीतरङ्गन्यायेनोत्पत्तिकल्पनञ्च कल्पनमेव शब्दस्य शब्देऽजनकत्वादनाशकत्वाञ्च अन्त्याद्यशब्दवत् ।
एतेन सामान्यवत्त्वे सत्यस्मदादिवहिरिन्द्रियजप्रत्यक्षत्वात् इत्यपास्तं, प्रत्यभिज्ञानबाधात् शब्दत्व-गत्वादेरसिद्धेश्च, तस्माच्छब्दो नित्यः व्योमैकगुणत्वात् तत्परिमाणवत्, श्रोत्रग्राह्यत्वात् शब्दत्ववत्, विशेषगुणान्तरासमानाधिकरणैकवृत्तिगुणत्वात् समयपरिमाणवत्, पृथिवीतरनित्यभूतविशेषगुणत्वात् अपाकजत्वे सति नित्यैकसमवेतत्वात् जलपरमाणुरूपवत्, अव्यासज्यवृत्तित्वे सति अनात्मविभुगुणत्वात् कालपरिमाणवत्, विपक्षे बाधकञ्च प्रत्यभिज्ञानमेवेति ।