तत्त्वचिन्तामणी - शब्दाकाङ्क्षावादसिद्धान्तः

तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे.


उच्यते ।

अभिधानापर्यवसानमाकाङ्क्षा यस्य येन विना न स्वार्थान्वयानुभावकत्वं तस्य तदपर्यवसानं, नाम-विभकि-धत्वाख्यात-क्रिया-कारकपदानां परस्परं विना न परस्परस्य स्वार्थान्वयानुभवजनकत्वं ।

परमते नीलघटोऽस्ति नीलं घटमानयेत्यादौ नामार्थानां कारकाणाञ्च न परस्परमन्वयबोधः विशेषणान्वितविभक्त्यर्थानन्वयादिति न विशिष्टवैशिष्ट्येनान्वयः किन्त्वार्थः समाजः ।

अस्माकन्तु नील-घटयोरभेदानुभवबलादभेद एव संसर्गः विशेषविभक्तिः साधुत्वार्थं ।

यद्वा समानविभक्तिकयोरभेदानुभवबलात् विशेषणान्वितविभक्तेरभेदार्थकत्वं अतो विशेषण-विशेष्यभावानुभावकत्वं तत्पदयोः, न परस्परं विना ।

द्वारमित्यत्राध्याहारं विना प्रतियोग्यलाभात् न स्वार्थान्वयानुभावकत्वं, विश्वजिता यजेतेत्यत्र ममेदं कार्यमिति प्रवर्त्तकतात्पर्यविषयज्ञानं नाधिकारिणां विनेति तदाकाङ्क्षा ।

यद्वा कर्त्तुरिवाधिकारिणोऽपि आक्षेपादेव लाभ इति तदन्वयो न शाब्दः किन्त्वानुमानिकः, गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापितस्याध्याहृतस्येवेतरपदं विना नानुभावकत्वं ।

घटः कर्मत्वं आनयनं कृतिरित्यादौ अभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत्पदेभ्यस्तात्पर्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरं विनैव । घटमानयतीत्यत्रेव भ्रमेण तथान्वयतात्पर्येऽपि क्रिया -कारकभावेन नान्वयः नाम-विभकि-धात्वाख्यात-क्रिया-कारकपदानां अन्वयबोधे तान्येव पदानि समर्थानि न तु तदर्थकानि पदान्तराणि ।

अग्निः करणत्वं ओदनः कर्मता पाकः कृतिः इष्टसाधनता इत्यादिपदेभ्यः अग्निर्नोदनं पचेतेत्यत्रेव अन्वयाबोधात्, अग्निकरणकौदनकर्मकपाकविषयककृतिरिष्टसाधनं इति तु वाक्यं न पदं, अत एव द्वारमित्यत्र पिधेहिपदाध्याहारः, क्रियापदार्थस्यान्यत उपस्थितौ अपि कारकानन्वयात् असामर्थ्यञ्च स्वभावात् ।

अनासन्नमपि आसन्नतादशायां आसन्नत्वभ्रमेण वा अन्वयबोधसमर्थमेव ।

वह्निना सिञ्चतीत्यत्र क्रिया-कारकपदयोरन्वयबोधे सामर्थ्येऽपि अयोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याप्यग्नेर्मणिरिव ।

अत एव योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः ।

नहि स्वभावतोऽसमर्थं आरोपितसामर्थ्यं वा दहति पचति वेति, प्रकृते तु पदार्थस्वरूपज्ञानं न त्वन्वयभ्रमोऽपि ।

पुरूषपदं विनापि राज्ञा इत्यस्य पुत्रेण समं स्वार्थान्वयानुभावकत्वं इति न तदाकाङ्क्षा ।

यद्वा त्रयाणां स्मरणोऽजनितान्वयबोधदशायां पुरुषान्वये तात्पर्याभावात् नान्वयबोध इत्यग्रेऽपि तथा ।

न च पुत्रस्योत्थिताकाङ्क्षत्वात् तेनैवान्वयबोध इति ।

वाच्यम् ।

तात्पर्यवशात् पुरुषेणैव प्रथममन्वयबोधात् ।

अत एवान्वयबोधसमर्थत्वे सति अजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षेति केचित् ।

प्रकृति-प्रत्ययाभ्यामन्वयबोधे जनितेऽपि वाक्यैकवाक्यतावत् क्रिया-कारकपदयोरजनितान्वयबोधत्वमाकाङ्क्षा ।

नव्यास्तु पदविशेषजन्यपदार्थोपस्थितिः घटः कर्मत्वं आनयनं कृतिरित्येवम्बिधपदाजन्यपदार्थोपस्थितिर्वा

आसत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवम्बिधशब्दान्नान्वयबोधः त्वयाप्येवम्बिपदार्थोपस्थिते राकाङ्क्षाहेतुत्वेनावश्यमभ्युपेयत्वात्, जनितान्वयबोधात् नान्वयान्तरबोधः तात्पर्याभावादित्याकाङ्क्षायाः कारणत्वमेव नास्ति, किन्तु स्वजनकोपस्थितेः परिचायकत्वमात्रमिति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP