आचारमूलत्वं वेदस्य प्रवर्तकज्ञानजनकत्वेन भवतीति प्रवर्तकज्ञानं निरूप्यते ।
तत्राभिधा-सङ्कल्पापूर्व-भावनाज्ञानं न प्रवर्तकं, तस्मिन् सत्यपि अप्रवृत्तेः असत्यपि प्रवृत्तेश्च ।
कार्यत्वज्ञानं प्रवर्तकमिति गुरवः ।
तथा हि ज्ञानस्य कृतौ जन्यायां चिकीर्षातिरिक्तं न कर्तव्यमस्ति तत्सत्त्वे कृतिविलम्बोहेत्वन्तराभावात्, चिकीर्षा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयेच्छा पाकं कृत्या साधयामीति तदनुभवात्, सा च स्वकृतिसाध्यताज्ञानसाध्या इच्छायाः स्वप्रकारकधीसाध्यत्वनियमात् ।
अत एव स्वकृतिसाध्ये पाके प्रवर्तते, न त्विष्टसाधनताज्ञानसाध्या स्वकृत्यसध्ये चिकीर्षापत्तेः, स्वकृत्यसाध्यत्वज्ञानं प्रतिबन्धकमिति चेत्, न, तदभावकारणत्वे गौरवात् ।
अथाभाव उभयसिद्धः कृतिसाध्यताधीरसिद्धेत्यतो न लाघवावसर इति चेत्, न, यत्र शब्दादनुमानद्वा दैवात् सा तत्र लाघवावतारादिच्छायाः स्वप्रकारकज्ञानसाध्यत्वनियमेन कृतिसाध्यत्वज्ञानस्यावश्यकत्वाच्च जनकज्ञानं विघटयत एव ज्ञानस्य प्रतिबन्धकत्वाच्च ।
व्याप्तिज्ञानविघटनद्वारा अनुमितिप्रतिबन्धकानैकान्तिकज्ञानवत् ।
अन्यथा स्वकृत्यसाध्यत्वानिष्टसाधनत्वोपेक्षणीत्वनिष्फलत्वज्ञानं प्रतिबन्धकं क्रियाज्ञानमेव प्रवर्तकं कल्पेत ।
ननु सनोधात्वर्थगोचरेच्छावाचित्वात् लाघवाञ्च कृताविच्छा चिकीर्षा सा च वृष्टाविवेष्टसाधनताज्ञानादिति चेत्, न, वह्निना साधयामीतिवत् कृत्यासाधयामीतीच्छायाः कृतेः पूर्वमनुभूयमानायाः सनन्तावाच्यत्वेन गौरवेण च प्रत्याख्यातुमशक्यत्वात् ।
किञ्च पाकं चिकीर्षतीत्यत्र प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते न तु कृतेः, धातोश्च सन्प्रत्ययाभिधेयेच्छाप्रकारवाचित्वं, ओदनं बुभुक्षत इत्यत्र भोजनविशेष्यतयौदनस्येच्छाविषयत्वानुभवात् ।
इष्टसाधनत्वेन वृष्टाविव कृताविच्छासम्भवेऽपि कृतीच्छा न प्रवर्तिका किन्तु स्वकृतिसाध्येच्छैव, घटं जानाति चिकीर्षति करोतीज्ञान-चिकीर्षा-कृतीनामेकविषयत्वानुभवात् ।
अथ यदि कृत्या साधयितुमिच्छा सा तदा चिकीर्षितस्य पाकस्यान्यतः सिद्धौ सा नापगच्छेत्, न ह्युपायविशेषसाध्यत्वेनेच्छोपायान्तराधीनफललाभेन निवार्यते, प्रीत्या धनलाभेऽपि प्रतिग्रहेण तल्लिप्साया अनिवृत्तेरिति चेत्, न, स्वविषयसिद्धत्वस्य फलेच्छाविच्छेदस्य चोपायेच्छाविरोधत्वात् । अस्ति च तत्र पाकौदनयोः सिद्धत्वं, अन्यौदनेच्छायां पाकचिकीर्षा भवत्येव, प्रत्युतासिद्धत्वात् कृतावेवेच्छा न विच्छिद्येत यदि कृतिविषयसिद्धत्व-फलेच्छाविच्छेदौ न विरोधिनौ ।
प्रीत्या धनलाभे च तदधिकधनेच्छा न विच्छिद्यते तस्यासिद्धत्वात् तत्फलेच्छायाश्च सत्त्वात् धनमात्रार्थिनश्च प्रीत्या धनलाभेऽपि प्रतिग्रहेण तल्लिप्सा नास्त्येव धनमात्रस्य सिद्धत्वात् ।
किञ्चिद्विशेषसिद्ध्यैव हि सामान्येच्छाविच्छेदः ।
अन्यथा सकलस्वविषयसिद्धेरसम्भवेन तद्विच्छेदो न स्यादेव ।
वस्तुतस्तु क्रियानुकूला कृतिरिष्टोपाय इति ज्ञाने क्रियायाः कृतिसाध्यत्वमिष्टोपायत्वञ्च भातं क्रियाद्वारैव कृतेरिष्टसाधनत्वादिति तद्बोधात् कृताविव कृतिसाध्यत्वेन क्रियायामपि सैवेच्छेति चिकीर्षायां कृतिसाध्यत्वप्रकारनैयत्यमतः कृतिसमानविषयचिकीर्षात्वेन चिकीर्षायाः कृतिकारणत्वं न तु कृतीच्छात्वेन भिन्नविषयतया गौरवात् ।
तथापि येन रूपेण यस्येष्टसाधनत्वं तेन प्रकारेण तत्रेच्छा यथा स्वकेदारवृष्टित्वेन इष्टसाधनत्वात् तथैवैच्छा तथा कृतिसाध्यत्वेन पाकस्येष्टसाधनत्वमतः कृतिसाध्यत्वेन तत्रेच्छा भवतीति, कृतौ कृतिविषये वा चिकीर्षायां न वृष्टीच्छा, विलक्षणसामग्रयन्तरकल्पनमिति चेत्, भवेदेवं, यदि कृतिसाध्यत्वेन पाकस्य ओदनसाधनता स्यात्, न चैवं गौरवात् किन्तु पाकत्वेन, स तु कृतिं विना नेत्यन्यदेतत् ।
वह्निना साधयामीतिवत् कृत्या साधयामीतीच्छा इष्टसाधनताज्ञानादेवेति चेत्, तर्हि तत्र वह्निसाध्यताज्ञानवदत्रापि कृतिसाध्यत्वज्ञानं कारणमावश्यकं कृतौ चानुभवसिद्धचिकीर्षाधीनतत्वं विशेषः तेन प्राणपञ्चकसञ्चारे जीवनयोनिकृतिसाध्ये न प्रवृत्तिः, अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि तत्र प्रवर्तेत ।
ननु चिकीर्षाधीनत्वस्योपलक्षणत्वे उपलक्ष्यमात्रगतानतिप्रसक्तधर्माभावात् कृतिमात्रस्य चातिप्रसङ्गात् तत्तत्कृतिविशेषा उपलक्ष्याः तथाच तदननुगमात् प्रवृत्त्यननुगमः, विशेषणत्वे चिकीर्षायां प्रवृत्तौ च चिकीर्षाज्ञानकारणत्वे गौरवं प्रमाणाभावश्च ।
किञ्च चिकीर्षासाध्यावस्थायाः कृतेः सिद्धावस्थसाधनत्वविरोधेन कृतिसाध्यता पाकादौ न ज्ञायेतेति चेत्, न, अस्ति हि कृतिविशेषोमानसप्रत्यक्षसिद्धोजीवनयोनिप्रयत्नव्यावृत्तश्चिकीर्षोपलक्ष्यः यत्र चिकीर्षाकारणत्वग्रहः स च तव जातिरूपो मम त्वनुगतकारणोपाधिरूपः, एवञ्च चिकीर्षाधीनत्वेनानुगतेन कृतिविशेषाणामुपलक्ष्याणां अनुगतत्वमपि ।
यथा गोत्वेण तटस्थे नोपलक्षिता महिष्यादिव्यावृत्तधानकर्मव्यक्तिविशेषाः
धेनुपदेनोच्यते न तु गोत्वमपि, तथा चिकीर्षापि, एवं जीवनयोनियत्नव्यावृत्तकृतिविशेषाणां कृतित्वेन ज्ञानं कारणमिति नाननुगमः ।
ननु कृतिसाध्ये न कृतिर्विशेषणमसत्त्वात् सत्त्वे वा कृतौ सत्यां ज्ञानं ज्ञाने च कृतिरित्यन्योन्याश्रयः, नोपलक्षणमतिप्रसङ्गादिति चेत्, न, कृतिर्हि ज्ञाने विषयतया विशेषणमेव साध्ये च परिचायकतयोपलक्षणं अन्यथा इष्टसाधनेऽपीष्टं न विशेषणमसत्त्वात् नोपलक्षणमतिप्रसङ्गात्, लिङ्गज्ञानादौ वा का गतिः ।
नन्वेवं श्रमेऽपि चिकीर्षा स्यात्तस्यापि चिकीर्षाधीनकृतिसाध्यत्वात् अत्र वदन्ति ।
श्रमस्तु भोजनादिक्रियासाध्यो न तत्कृतिसाध्यः अचिकीर्षितत्वात् कृतेः स्वध्वंससाक्षात्कारातिरिक्ते चिकीर्षाविषयमात्रे जनकत्वात्, न हि भोजनचिकीर्षाविषयमात्रे जनकत्वात्, न हि भोजनचिकीर्षाधीनकृत्या गमनं साध्यते इति केचित्, तन्न, गुरुतरभारोत्तोलने कृत्यसाध्ये भ्रमात् प्रवृत्तस्य निगडनिश्चलदेहस्य वा कृतौ सत्यामुत्तोलन-चलनक्रियानुत्पादेऽपि श्रमानुभवात् कृतेरेव कारणत्वात् ।
न तु तज्जन्यक्रियायाः सुखे व्यभिचाराच्च ।
न हि सुखं कृतिकारणचिकीर्षाविषयः, उपायचिकीर्षाजन्या हि कृतिः न तु सुखचिकीर्षाजन्या ।
चिकीर्षाजन्यकृतिसाध्यत्वं न श्रमे द्वेषयोनिप्रयत्नादपि तदुत्पत्तेरित्यपरे ।
तन्न ।
शत्रुबधस्येष्टसाधतनत्वेन चिकीर्षाजन्यकृतिसाध्यत्वात् द्वेषस्य यत्नाजनकत्वात्, द्वेषसिद्धिस्तु शत्रुं द्वेष्मीत्यनुभवबलात् ।
यत्तु श्रमः कृतित्वेन कृतिसाध्यो न चिकीर्षाधीनकृतित्वेन, यद्यचिकीर्षि&तेपि श्रमे चिकीर्षाधीन कृतित्वेन कारणता स्यात् तदा चिकीर्षितमेव भोजनं कृत्या साध्यते नाचिकीर्षितं गमनादीति न स्यात्, श्रमवङ्गमनेऽपि तज्जन्यत्वप्रसङ्गात्, भोजनादिश्च चिकीर्षाधीनकृतिविशेषात्, स हि कृतिमात्रं व्यभिचारति जीवनयोकृतेस्तदनुत्पादात् ।
यद्वा श्रमो न भोजनकृतिसाध्यः किन्तु तन्निरन्तरोत्पन्नज्जीवनयोनिप्रयत्नादेवेति ।
तन्न ।
न हि ।
कृतित्वेन तच्छ्रमजनकत्वं, नापि कृत्यन्तरादेव श्रमोत्पत्तिः, जीवनयोनिप्रयत्ने सत्यपि भारोद्वहनादिकमकुर्वतस्तादृशनमाननुभवेन तस्य श्रमाजनकत्वात् तस्मात् भोजनादिवत् श्रमविशेषणामपि भोजनादिकृतिसाध्यत्वमनन्यगतिकत्वात् ।
सुप्तस्य स्वेदाद्यनुमितः श्रमः तज्जन्य इति चेत्, न, स्वेदादेः श्रमान्यहेतुकत्वात् अन्यथा जागरेऽपि तदनुवृत्तौ श्रमानुवृत्तिप्रसङ्गात् इति मैवं स्वेच्छाधीनकृतिशेषणत्वात्, श्रमश्च नियमतोऽन्येच्छाधीनकृतिसाध्यः श्रमे दुःखत्वेनेच्छाविरहाद् अत एवान्येच्छाजन्यकृतिसाध्यत्वेन श्रमो नान्तरीयक इत्युच्यते ।
स्वचिकीर्षाधीनत्वन्तु न कृतौ विशेषणं गौरवात् ।
अन्ये तु कृतिगतं धर्मान्तरमेव उद्देश्यत्वं तद्विशिष्टकृतिसाध्यश्च न श्रमः अचिकीर्षितत्वात् किन्तु कृतिमात्रसाध्यः ।
अत एव कष्टं कर्मेत्यनुभवोलोकानां ।
एवं चिकीर्षायां ममैकं कृतिसाध्यत्वं प्रयोजकं तव तु कृतिसाध्यत्वे सतीष्टसाधनत्वं सुखत्वं दुःखाभावत्वञ्चेति चतुष्टयं, इच्छाप्रयोजकन्तु मम सुखत्वं दुःखाभावत्वञ्चेति द्वयं, वृष्टिसाध्नत्वेन तत्रेच्छा साधनत्वस्येच्छाविरोधित्वात् ।
तव तु चयं, विषभक्षणे तु कृतिसाध्यत्वेऽपि बलवदनिष्टसाधनत्वेन चिकीर्षा नास्तीति कृतौ चिकीर्षाजन्यत्वं विशेषणमिति कश्चित्, तत्तुच्छं, एवं हि विषभक्षणं कृतिसाध्यमेव न स्यात् जीवनयोनिकृते स्तस्यानुत्पत्तेरिति व्यर्थं विशेषणम् ।
स्यादेतत् इष्टसाधनताभ्रमाद् विषभक्षणे चैत्यवन्दने च चिकीर्षाजन्यकृतिसाध्यत्वमस्ति ज्ञानप्रयुक्तत्वात् कार्यत्वस्य तथाच सञ्जातबाधोऽपि तत्र कार्यं त्वज्ञानात् प्रवर्तेत तथा तृप्तोऽपि भोजने ।
ननु स्वकृतिसाध्यतानुभवस्तथा, अन्यथेष्टसाधनतास्मरणे विषभक्षणेऽपि प्रवर्तेत, न चेष्टसाधनताज्ञानं वेदोवानुभावकमस्तीति चेत्, न, वस्तुतस्तत्र कृतिसाध्यत्वे लिङ्गान्तरेणाप्तवाक्येन वा तदनुभवसम्भवात् लिङ्गाभासाच्छब्दाभासाद्वा अप्रवृत्तिप्रसङ्गाच्च, भेदाग्रहवादिनस्तच्च तव तदनुभवाभावात्, मैवं, स्वविशेषणवत्ताप्रतिसन्धानजन्यं हि कार्यताज्ञानं प्रवर्तकं तथा हि काम्ये पुरुषविशेषणं कामना ततः काम्यसाधनताज्ञानेन याग-पाकादौ कार्यताज्ञानं, नित्ये च काल-शौचादि स्वविशेषणं, तथाचैतत्सन्ध्यायामहं कृतिसाध्यसंध्यावन्दनः संध्यासमये शौचादिस्वविशेषणज्ञानजन्यं, तदुक्तं, स च कार्यविशेषः पुरुषविशेषणावगतः प्रवृत्तिहेतुरिति ।
संजातबाधस्य च विषभक्षणे चैत्यवन्दने च भ्रमदशायामिव नेष्टसाधनताज्ञानमस्ति येन तज्जन्यकार्यताज्ञानात् प्रवर्तेत तृप्तस्य च कामनाविरहेण इष्टसाधनताज्ञानाभाव न तथा बोधः ।
अन्ये त्वात्मनो जीवित्वप्रतिसन्धानजन्यं श्रमे कृतिसाध्यताज्ञानं सम्भवतीति जीवनव्यतिरिक्तत्वं स्वविशेषणे विशेषणमिति, तन्न, श्रमे स्वेच्छाधीनकृतिसाध्यत्वाभावात् ।
इष्टसाधनतालिङ्गकं कार्यताज्ञानं प्रवर्तकं इत्यपरे, तन्न, नित्ये तदभावात् ।
ननु विषभक्षणव्यावृत्तमिष्टसाधनत्वमेव कृतिसाध्यताज्ञाने विषयतया विशेषणमस्तु स्वविशेषणवत्ताज्ञानजन्यत्वापेक्षया लघुत्वात् ।
किञ्चोपायविषया
चिकीर्षा इष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावत् ।
भोगचिकीर्षायां तदभावावप्रयोजकमिष्टसाधनत्वमिति चेत्, न, तवापि स्वविशेषणधीजन्यत्वाभावेन तत्र तस्याप्रयोजकत्वात् ।
कृतिहेतुचिकीर्षायां तत् प्रयोजकं, न च भोगचिकीर्षा तथा, उपायचिकीर्षात एव कृतिसम्भवात्, इति चेत्, तुल्यमिति, मैवं, साध्यत्व-साधनत्वयोर्विरोधेनैकत्र ज्ञातुमशक्यत्वात् ।
असिद्धावस्थस्य हि साध्यत्वं सिद्धतादशायां तदभावात् सिद्धतादशायाञ्च साधनत्वं असिद्धावस्थावतः कार्यानुत्पत्तेः तथाच पाकादेरसिद्धत्व-सिद्धत्वज्ञाने साध्यत्व-साधनत्वग्रहः ।
न चैकमेकेनैकदा सिद्धममसिद्धञ्च इति ज्ञायते ।
न च स्वरूपगततासाध्यत्व-साधनत्वयोरतो न विरोध इति वाच्यम् ।
यदि हि स्वरूपनिबन्धनं तदुभयं तदा तत्स्वरूपं सदैव सिद्धमसिद्धञ्च स्यात्, भिन्ननिरूपितत्वेऽपि तयोः सिद्धत्वासिद्धत्वे अनवगम्याज्ञानात्, तस्मात् समयभेदोपाधिक एव तदुभयसम्बन्धः पाके ।
इदानीं साध्यत्वं अग्रे साधनत्वं ज्ञायत इति चेत्, न, इदानीमग्रिमपदार्थयोर्नानात्वादननुगमेन व्याप्त्यग्रहात् शब्देन तथा प्रतिपादयितुमशक्यत्वात् गौरवाच्च ।
न च कृतितः सिद्धमिष्टसाधनमितिज्ञानात् चिकीर्षा, न हि सिद्धं कश्चित् चिकीर्षति, कृतेः पूर्व कृतितः सिद्धमिति ज्ञानाभवाच्च ।
न च कृतिसाध्यत्वेन पाकादेरिष्टसाधत्वात् साधनत्वमपि साध्यम् ।
न हि कृतिसाध्यत्वेन पाकस्यौदनसाधनता, इत्युक्तं तस्मात् कृत -क्रियमाणविलक्षणं कृत्यनन्तरभविष्यत्तारूपं कृतिसाध्यत्वं चिकीर्षाप्रयोजकं तादृशञ्च साधनत्वविरोध्येव ।
किञ्च साधनत्वस्य सिद्धमात्रधर्मत्वात् साधनत्वज्ञानमिच्छाविरोधि, न हि कश्चित् सिद्धमिच्छतीत्युक्तम् ।
एतेन वृष्ट्यादाविष्टसाधनताज्ञानमुपायेच्छाकारणत्वेन क्प्तमिति निरस्तम् ।
कथं तर्हि स्वतोऽसुन्दरे वृष्ट्यादिविच्छा, तत्साध्येष्टज्ञानादिति गृहाण ।
अन्ये तु सुख-दुःखाभाव-तत्साधनेष्टिच्छाप्रयोजकमनुगतमुद्देश्यत्वं पुरुषार्थपदवेदनीयं धर्मान्तरमस्ति अनुगतकार्यस्यानुगतकारणनियम्यत्वात् ।
तदेव दुःख-तत्साधनादौ चिकीर्षाप्रयोजकमिति ।
न च दुःखविरोधित्वमेव तथास्तीति वाच्यम् ।
सहानवस्थाननियमविरोधस्यासम्भवात्, बध्य-धातक भावस्यैकसमये समानाधिकरण्याभावस्य च यत्नादि साधारण्यादिति ।
तन्न ।
तदज्ञानेऽपि सुखत्वज्ञानादिच्छोत्पत्तेः, न हि सुखत्वे ज्ञाते धर्मान्तरज्ञानं विना नेच्छति, तथात्वे स्वतः प्रयोजनहान्यापत्तेः, तदेव हि स्वतः प्रयोजनं तदवगतं सत् स्ववृत्तितयेष्यते ।
किञ्चानुगतधर्मकल्पनापि कारणे ।
न च सुखादि इच्छाकरणं अनागतत्वात्, किन्तु तदवगमः, तर्हि सुखादिज्ञाने तत् स्वरूपसदेवेच्छाप्रयोजकमस्त्विति चेत्, न, यथा ह्युद्देश्यत्वं सुखज्ञानादिषूत्पद्यते अन्यतरत्वात् तृणारणि-मणिन्यायाद्वा तथैवेच्छैव जायतां, कृतिसाध्यत्वञ्च कृतौ सत्यां अग्रिमक्षणे स्वरूपं न कृतिं विना, क्षेमसाधारणञ्चैतत् ।
कृतिसाध्यत्वञ्च न कृतेः पूर्वं ।
ननु कृतौ नष्टायां सन्नपि धर्मी न कार्यः तथाच कथं कार्येऽपूर्वे कामिनोऽन्वयःक्षणिकत्वेन क्रियातुल्यत्वादिति चेत्, न, यद्वृत्तिकाम्यसाधनत्वं तत्र कार्यता बुद्धेः प्रयोजकत्वात् न तु कार्यताविशिष्टस्य काम्यसाधनतेति व्याप्तिः ।
ननु पाकादौ कृतिसाध्यताज्ञानं न प्रत्यक्षेण कृत्यनन्तरं पाके सति कृतिसाध्यताज्ञानं तस्मिन् सति कृतिरित्यन्योन्याश्रयात् कृतिसाध्यतोतीर्णे चिकीर्षा-कृत्योरसम्भवाच्चेति चेत्, न, पाको मत्कृतिसाध्यः मत्कृतिं विना असत्त्वे सति मदिष्टसाधनत्वात् दैवाद्यनधीनत्वे सति मदिष्टसाधनत्वाद्वा मद्भोजनवदित्यनुमानात् स्वकृतिसाध्यताज्ञानं यस्य यदिष्टसाधनं यत्कृतिं विना यदा न सम्भवति तत् तदा तत्कतिसाध्यं इति व्याप्तेः ।
असिद्धस्येष्टसाधनत्वाभावात्, बलवदनिष्टाननुबन्धित्वञ्च लिङ्गविशेषणं तेन न मधु-विषसंम्पृक्तान्नभोजने व्यभिचारः सामान्यतस्तस्यापि कृतिसाध्यतोतीर्णे न व्यभिचारः सामान्यतस्तस्यापि कृतिसाध्यत्वात्, अतीततादशायाञ्चातीतौदनेच्छाविरहेणेष्टसाधनत्वाभावात् ।
अत एव निदाघदूनदेहोवर्षति वारिदे तोयदातोयलाभसम्भावनायां वा सरोऽवगाहने न प्रवर्तते इष्टसन्तापशान्तिसाधनतोयसम्बन्धस्य स्वकृतिं विनापि सिद्धिप्रतिसन्धानेन लिङ्गाभावेन स्वकृतिसाध्यत्वज्ञानाभावात् ।
यदा च मत्कृतिं विना न सम्भवतीति प्रतिसन्धत्ते तदा प्रवर्तते ।
यस्य सन्तापशान्तिममात्रमिष्टं स सतोऽवगाहनस्येष्टसाधनत्वमेव न प्रतिसन्धत्ते उपस्थितवृष्टितोऽपि तत्सम्भवादिति कश्चित्, तन्न तोयसम्बन्धत्वेन सन्तापशान्तिसाधनत्वं तस्य च सरोऽवगाहनेऽपि सत्त्वात् अन्यथा वृष्टिरपि तत्साधनं न स्यात् सरोऽवगाहनादपि तत्सिद्धेः ।
कार्यसाधनत्वञ्च कृतिसाध्यत्वे न लिङ्गं पाकादिवदोदनादेरपि प्रवृत्तेः पूर्वं कृतिसाध्यत्वज्ञाने हेत्वभावात् ।
नन्वेवं लिङ्गज्ञानमेव प्रवर्तकं अस्तु प्राथमिकत्वात् आवश्यकत्वाञ्च ।
न च लाघवात् कृतिसाध्यत्वज्ञानं तथा, कृतिसाध्यतानुमितौ तदा मानाभावेन युगपदुपस्थित्यभावात् प्रवृत्तिसामग्षानुमितिप्रविबन्धाञ्चेति चेत्, न, लिङ्गज्ञाने कृतिसाध्यत्वाप्रकाशे तत्प्रकारकचिकीर्षायां तस्याहेतुत्वात् ।
अत एव लिङ्गान्तरज्ञानमपि न प्रवर्तकम् ।
ननु पाकादिः कृतः क्रियमाणोवा न पक्षः तस्य कृतिसाध्यत्वे बाधात्, नाप्यनागतः, भाविपाके मानाभावेनाश्रयासिद्धेः, पाकत्वं भविष्यद्वृत्ति सामान्यत्वात् गोत्ववत् इति मानमिति चेत्, न, मानाभावेन गोत्वेऽपि तस्याप्रसिद्धेः ।
पाकमात्रं पक्ष इति चेत्, न, मात्रार्थो यदि पाकत्वं तदा बाधोलिङ्गासिद्धिश्च ।
सर्वपाकपरत्वे च तस्य सिद्धभागे बाधोऽनागतभागे चाश्रयासिद्धिः ।
वर्तमानाद्युदासीनः पाकः पक्षः पाकसामान्ये च कृतिसाध्यत्वं न बाधितमित्यपि न, सिद्धस्य पक्षत्वं नासिद्धस्येत्यनुमितेः सिद्धविषयत्वे बाधात् भिन्नविषयत्वे वा सिद्धविषयेच्छाप्रवृत्त्याद्यनुत्पादकत्वाच्च ।
कृत-क्रियमाणसाधारणकृति साध्यत्वज्ञानादेवासिद्धविषया चिकीर्षा कृतिश्चोत्पद्यते, अनन्यगतिकत्वेन तथाकारणस्वभावकल्पनादिति, चेत्, तर्हि यादृशं कृतिसाध्यत्वं चिकीर्षायां प्रकारः तादृशं ज्ञाने नास्तीत्यन्यप्रकारकज्ञानादेव चिकीर्षा स्यात् ।
तथा च लिङ्गज्ञानमेव प्रवृत्तिहेतुरस्तु प्राथमिकत्वात् ।
यत्तु स्मृतपाके कृतिसाध्यत्वासंसर्गाग्रहात्प्रवृत्तिः स चासंसर्गाग्रहः इष्टसाधनताग्रहादिति ।
तन्न, स्मृतपाकस्य सिद्धत्वेन तत्र कार्यत्वासंसर्गग्रहेऽनुमानबाधात् ।
स्मृतपाकस्य सिद्धत्वं तदा न गृह्यते इति चेत्, तर्हि स्मृतपाकस्य सिद्धत्वग्रहे ओदनार्थी पाके न प्रवर्तेत, तत्र पाकादौ सिद्धत्वग्रहात्तदसंसर्गग्रह इति चेतुल्यम् । अपि च स्मृतपाके कार्यत्वासंसर्गाद्विद्यमानासंसर्गाग्रहाद्विसंवादिनी प्रवृत्तिः स्यात् ।
किञ्चैवं सिद्धपाकज्ञानादज्ञातेऽसिद्धे पाके इच्छा-प्रवृत्ती स्यातामिति ।
अत्र ब्रूमः ।
पाके कृतिसाध्यत्वं सिद्धत् सिद्धे बाधात् अनागतपाकमादाय सिध्यति ।
पक्षतावच्छेदकधर्मसामानाधिकरण्यं साध्यमानस्य लिङ्गेन सिध्यतीत्यनुमाने क्त्वात् यथा प्रसिद्धवह्निबाधेऽपि वह्निमात्रं न बाधितं इत्यप्रसिद्धोऽपि वह्निः सिध्यति तथा प्रसिद्धपाके कृतिसाध्यत्वबाधेऽपि पाकमात्रे न बाधितमित्यप्रसिद्धं पाकमादाय तत्सिध्यति, अप्रसिद्धयोः पक्षसाध्ययोः सिद्धावविशेषात्, तस्मात् असिद्धस्य क्वचित् सिद्धे सिद्धे सिद्धस्य च क्वचित् ।
अप्रसिद्धस्य चासिद्धे सिद्धिस्तेनानुमा त्रिधा ।
अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि पाकादौ कृतिसाध्यत्वं कथमवगम्येत । किञ्च तवापीष्टसाधनताज्ञानात् कथं वृष्ट्यादाविच्छा सिद्धत्वस्येच्छाविरोधित्वात् अनागतस्य ज्ञातुमशक्यत्वात् ।
अत एव सिद्धासिद्धविषयत्वनिरासेन सुखादिज्ञानात् फलेऽपि नेच्छेति न वृष्ट्यादाविष्टसाधनतापि ।
न च वृष्ट्यादिसाध्येष्टज्ञानात् वृष्ट्यादाविच्छा, इच्छायाः सिद्धासिद्धवृष्ट्यादितत्फलविषयत्वविकल्पग्रासात् ।
अथ सामान्यलक्षणप्रत्यासत्त्या वृष्ट्यादित्वेन सुखादित्वेन च सिद्धासिद्धवृष्ट्यादि-तत्फलविषयकं ज्ञानमुत्पन्नं तेन सिद्धं विरोधिनं त्यक्त्व असिद्धविषयेच्छोत्पद्यते, यदि च सामान्यलक्षणा नास्ति तदा येन रूपेणेष्टसाधनत्वग्रहः तेन रूपेण ज्ञाते सिद्धे वेच्छोत्पद्यते, अन्वयव्यतिरेकाभ्यां तादृशज्ञानस्य तादृशेच्छाजनकत्वावधारणात् सुखेच्छायामप्येकं इति चेत्, तर्हि ममापि पाकत्वाच्छेदेन कृतिसाध्यताज्ञानादनागते चिकीर्षा तच्च ज्ञानं सकलपाकविषयं सन्निकृष्टपाकविषयं वेत्यन्यदेतत् ।
बालस्य व्याप्त्याद्यग्रहेणाद्या प्रवृत्तिर्जीवनादृष्टोद्बोधितजन्मान्तरसंस्कारजन्यात् स्तनपानं कार्यमिति स्मरणात् तवापीष्टसाधनतास्मरणात् तत्र प्रवृत्तिः अनन्यगतिकत्वात् ।
न च जन्मान्तरेऽपि पर्यनुयोगः ।
जन्मधाराया अनादित्वात् प्रत्यक्षानुमानमूलकत्वाच्च नान्धपरम्परा ।
वस्तुतस्तु शुष्ककण्ठतया बालो दुःखमनुभवन् विरोधितया सुखं स्मरति, ततः सुखत्वज्ञानात् सुखवृत्तिकार्यत्वं सुखवृत्तितया, अन्तरङ्गत्वात् न तु स्तनपानमिष्टसाधनमिति स्मरणं, सुखावृत्तित्वेन वहिरङ्गत्वात् सुखकार्यत्वञ्च स्तनपानमपि विषयः तेन स्तनपाने कार्यत्वज्ञानादेव प्रवृत्तिः, इष्टसाधनताज्ञानस्य तदानीं सामाग्षभावात् एवञ्चाद्यप्रवृत्तौ कार्यत्वज्ञानं प्रयोजकं क्प्तमित्यग्रेऽपि तदेव प्रवर्तकं क्प्तत्वात् ।
नवीनास्तु ममेदं कृतिसाध्यमिति ज्ञानं न प्रवर्तकं अनागतविषये प्रत्यक्षानुमानयोरसम्भवात्, किन्तु यादृशस्य पुरुषस्य कृतिसाध्यं यद्दृष्टं तादृशत्वमात्मनः प्रतिसन्धाय तत्र प्रवर्तते, तथाह्योदनकामस्य तत्साधनताज्ञानवतश्च तण्डुलाद्युपकरणवतः पाकः कृतिसाध्यः अहमपि च तादृश इति ज्ञानात् पाके प्रवर्तते ।
एवञ्चान्यकृतपाके कृतिसाध्यताज्ञानं आत्मनः पाके कृतिसाध्यत्वप्रयोजकविशेषणवत्त्वज्ञानञ्च प्रपर्तकं ।
अन्यत्रापि प्रवृत्तिरेवमेवेत्यनादितैव ।
अत एव सञ्चातबाधश्चैत्यवन्दने विषयभक्षणे च न प्रवर्तते इष्टसाधनता ज्ञानवतो हि तत् कृतिसाध्यं ।
न च सञ्जातबाधस्तत्र इष्टसाधनताज्ञानवान् ।
एवं तृप्तीच्छावतोऽपि भोजनं कृतिसाध्यं तृप्तश्च न तृप्तीच्छावत्त्वमात्मन्यवेतीति न भोजने प्रवर्तते ।
अतिनवीनास्तु यादृशस्येत्यादौ अविगीतत्वं तत्कृतौ विशेषणमाहुः ।
सञ्जातबाधस्तु विषभक्षणं चैत्यवन्दनञ्च विगीतकृतिताध्यत्वेनैव जानातीति तत्र न प्रवर्तते ।
प्रवृत्तिविषयश्च सामान्यतः कालासम्भिन्नः पाकादिर्ज्ञायते, प्रवृत्तिमहिम्ना चानागतपाकसिद्धिः , चिकीर्षा च कालासम्भिन्नविषया न तु भाविनं कृत्या साधयामीत्याकारैवेति ।