( पंचाशत् वर्षे (५०) क्रियमाणा । )
अथ कर्ता यजमानः जन्मनः सकाशात् पंचाशत् वर्षे प्राप्ते, जन्मदिने, जन्मनक्षत्रे, चन्द्रानुकूल्ये शुभेऽहनि वा, कृताभ्यंगः कृतनित्यक्रियः, कृताग्निसिद्धिः शुभे सवस्त्रपीठासने उपविश्य, यज्ञोपवीती, आचम्य, पवित्रपाणिः प्राणानायम्य़, पंचगव्यप्राशनादिना शरीरशुद्धिं विधाय, सुवासिन्या कृतमंगलतिलकः देवतागुर्वादींश्चाभिवाद्य, ब्राह्मणैर्दत्तानुज्ञः स्वासने उपविश्य, पुनः आचम्य, प्राणानायम्य, देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रः अमुकशर्माऽहं मम जन्मनः सकाशात् पंचाशत्तमे वर्षे प्राप्ते सूचितसंभाव्यमान - नानाविधरोग - दृष्टिमान्द्य - छायावैकृत्य - भार्यापुत्रादिवियोग - धनधान्यपशुक्षयादि - अरिष्ट - निरसनार्थं जन्मराशिजन्मलग्नाभ्यां सकाशात् गोचरेण अनिष्टस्थानस्थित - आदित्यादि - नवग्रहाणा उत्पन्नोत्पत्स्यमान - पीडापरिहारपूर्वकं सर्वसुखावाप्तिधनधान्याद्यभिवृद्धयर्थं समस्तमंगलप्राप्त्यर्थं देशकलाद्यनुसारतः विद्वदुपदिष्टेन विधिना यथा संभृतसंभारैः यथाशक्ति यथाज्ञानतः सग्रहमखां शौनकोक्तां वैष्णवीशान्तिं करिष्ये । तदंगं स्वस्ति - पुण्याहवाचनं मातृकापूजननांदीश्राद्धं आचार्यवरणं च करिष्ये । तत्रादौ निर्विघ्नतासिद्धयर्थं महागणपतिपूजनं करिष्ये । इति संकल्प्य, तानि कृत्वा वृताचार्यः स्थंडिलसमीपमुपविश्य; आचम्येत्यादि० श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोत्पन्नेन अमुकशर्मणा यजमानेन संकल्पित - वैष्णवीशान्तिकर्मणि वृतोऽहं यथाज्ञानतः देशकालाद्यनुसारेण एभिर्ब्राह्मणैः सह आचार्यकर्म करिष्ये । तदंगं शरीरशुद्धयर्थं पुरुषसूक्त - जप - पूर्वकम् भू - शुद्धयादि करिष्ये, आदौ निर्विघ्नार्थं महागणपति - स्मरणं च करिष्ये इत्यादि गौरसर्षपविकिरणादि प्रादेशान्तं कर्म कृत्वा, स्थण्डिलात् पूर्वभागे वेदीं प्रकल्प्य, ( अत्र केचन - सर्वतोभद्रस्य ( लिंगतो - भद्रस्य वा ) सर्वसाधारणत्वात् पीठे सर्वतोभद्रं विरच्य, तत्र ब्रह्मादि - मंडल - देवताः आवाह्य, संपूज्य, तण्डुलैराच्छाय, तदुपरि कलशं संस्थाप्य, वरुणं संपूज्य, कर्णिकायां देवतास्थापनमिच्छन्ति । ) सवस्त्रपीठासने तण्डुलराश्युपरि महीद्यौरित्यादिना कलशं प्रतिष्ठाप्य, वरुणप्रार्थनान्तं कृत्वा, पूर्णपात्रे अष्टदलमध्ये कर्णिकायां कृताग्न्युत्तारणपूर्विकायां सुवर्णप्रतिमायां वषट् ते विष्णवास इति मंत्रेण प्रधानदेवं विष्णुमावाहयेत् । तद्यथा - वषट् ते विष्णवास इति मंत्रस्य मैत्रावरुणिर्वसिष्ठो विष्णुस्त्रिष्टुब् विष्णु - आवाहने विनियोगः ।
ॐ वषट् ते विष्णवासऽआकृणोमि
तन्मे जुषस्व शिपिविष्ट हव्यम् ।
वर्धन्तु त्वा सुष्टुतयो गिरो मे
यूयं पात स्वस्तिभिः सदा नः ।
( अष्टक - ५, अ - ६, वर्ग - २४ )
अस्यां सुवर्णमय्यां मूर्तौ प्रधानदेवतां विष्णुं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि । ॐ भूः विष्णुं आवां ० । ॐ भुवः विष्णुं० आवा० । ॐ स्वः विष्णुं आवा०, ॐ भूर्भुवः स्वः विष्णुं आवा० । तदुत्तरतः त्र्यंबकेति मंत्रेण त्र्यंबकं आवाह्य । तदुत्तरतः नक्षत्रदेवता नाममंत्रेणावाह्य, काण्डानुसमयेन पदार्थानुसमयेन वा सर्वान् संपूज्य, प्रधानदेवतासमीपे तन्मंत्रं ( वषट् ते० ) अष्टोत्तरशतं अष्टाविशतिवारं वा जप्त्वा, स्थंडिलान्तिकमेत्य, अद्येत्यादि ० संकल्पित - वैष्णवी - शांतिकर्मणि स्थंडिलादि - सकलं कर्म करिष्ये । वरदनामानमग्निं प्रतिष्ठाप्य, ध्यात्वा, ध्यानान्तेदेवतोत्तरवेद्यां आदित्यदिनवग्रहानावाह्य, संपूज्य, देवदानवसंवादे० इति वरुणप्रार्थनान्तं कृत्वा, स्थंडिलसमीपमेत्य समिद् द्वयेत्यन्वादध्यात् । चक्षुष्यन्तं उक्त्वा ग्रहानन्वादध्यात् । अत्र प्रधानं देवं विष्णुं, वषट् ते विष्णवासेति मंत्रण समिध् - आज्य - चरु - पायस - द्रव्यैः चतुर्भिः प्रतिद्रव्यं ( अष्टोत्तरसहस्त्र ) - अष्टोत्तरशतसंख्याकाभिराहुतिभिर्वा, मृत्युंजयं त्र्यंबकं त्र्यंबकेतिमंत्रेण घृताक्ततिलद्रव्येण सहस्त्रसंख्याकाहुतिभिः नक्षत्रदेवतां नाममंत्रेण अष्टाविंशति - अष्टसंख्याकाभिर्वाज्यद्रव्येण यक्ष्ये । शेषेण स्विष्टकृतमिति चक्षुष्यन्तं कर्म कृत्वा यजमानेन द्रव्यत्यागे कृते, ग्रहहोमं प्रधानादिहोमं विधाय स्विष्टकृतात् प्राक् विविधसूक्तपाठजपः कार्यः । तानि च सूक्तानि - श्रीसूक्तं, रुद्राध्यायं, आयुष्य - मंत्रान् जपेत् । ते च ऋक् - द्वयं एष वां देवा परावतो सप्तदशर्चं आ नो भद्रा दशर्चं इति वा इति आयुष्यमिति च सूक्तं पठेत् । ततः वादपारायणं कार्यं तदसंभवे पुरुषसूक्तं अग्निमीळे इति नवर्चं सूक्तं च पठेत् । ततः स्विष्टकृतादिप्रायश्चित्तहोमान्ते बलिदानं पूर्णाहुतिं च कृत्वा संस्रवादिहोमशेष समाप्य, स्थापितकलशोदकैः सकुटुंबं बंधुवर्गयुतं यजमानं अभिषिचेत् । तत्र अभिषेकमंत्राः - समुद्रज्येष्ठा० शं न इंद्राग्नी ० परं मृत्यो- एष वां देवा ऋग्द्वयं० परावतो सप्तदशर्चं, स्वादिष्टयेति दशर्चं, अक्षिभ्यां षटभिः, यज्जाग्रत इति षण्णाम् । ग्रहमंत्र - मुख्य - देवतामंत्रेत्यानां सर्वेषां अभिषेके विनियोगः ।
( अभिषेकमंत्राणां बाहुल्यात् यथावकाशं यथाशक्ति पाठः । )
ततो यजमानः अभिषेकवस्त्रं परित्यज्य, धृतशुक्लांबरः, अभिषेकवस्त्रं आचार्याय दद्यात् । विभूतिं धृत्वा आ नो भद्रा इति महाशांतिजपपूर्वकं देवतोत्तरपूजने कृते, मार्कंडेयादीन् प्रार्थयेत । ततः आयुर्वृद्धयै सतिलगुडसंमिश्रं दुग्धं प्राशयेत् । तत्र मंत्रः ‘ सतिलं गुडसंमिश्रं अंजल्यर्धमितं पयः । मार्कडेयात् वरं लब्ध्वा पिबाम्यायुर्विवृद्धये । इति पिबेत् । ततः कांस्यपात्रे घृतमासिच्य, तत्र ‘ रुपं रुपं ’ इति मंत्रेण आज्यालोकनं कृत्वा तत्पात्रं, सदक्षिणाकं ब्राह्मणाय दत्त्वा, गो - भू - तिल - हिरण्यादिदशदानानि कानिचित् प्रत्यक्षाणि, कानिचित् निष्क्रयद्वारा, सर्वाणि वा निष्क्रयरुपेण ब्राह्मणेभ्यः दत्त्वा, तथा शतगुंजापरिमितं सुवर्णं, तन्निष्क्रयं वा विभज्य विभज्य ब्राह्मणेभ्यो दत्त्वा, अशक्तौ शतसर्षपतुलितं वा ततः विसर्जितदेवतापीठदानान्ते तिलदानं च कृत्वा, तत्र मंत्रः ‘ तिलाः कश्यपसंभूतास्तिलाः पापहराः शुभाः । तिलपात्रप्रदानेन अतः शान्तिं प्रयच्छ मे ॥ ’ इति । पुत्रादिकैः पुष्पमालावस्त्रादिना यजमानं ( अहेर ) सत्कृत्य पुरंध्रीभिः ( सुवासिनीभिः ) आचारात् यजमानस्य यावन्ति वयोवर्षाणि तावद्भिर्वा नीराजनैः ( दीपैः ) नीराजयित्वा, ब्राह्मणेभ्यः दक्षिणां दत्त्वां, तेभ्यः आशीर्वचनं गृहीत्वा, ब्राह्मणभोजनसंकल्पं कृत्वा, देवानभिवाद्य, कर्म परमेश्वरार्पणं कुर्यात् । द्विराचम्य, त्रिवारं विष्णुस्मरणं कुर्यात् इति ।
॥ इति प्राचीनग्रंथानुसारं नारायणशास्त्री जोशी - विरचिता
वैष्णवी - शांतिः समाप्ता ॥
॥ श्रीकृष्णार्पणमस्तु ॥