मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
अथ उग्ररथ शान्तिः ।

अथ उग्ररथ शान्तिः ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


( षष्टितमवर्षेप्राप्ते (६०) क्रियमाणा । )
अस्यां उग्ररथशान्तौ अयं विशेषः । प्रादेशकरणोत्तरं स्थण्डिलात् पूर्वतो वेदिकायां नवग्रहस्थापन - पूजनोत्तरं स्थंडिलसमीपमुपविश्य अग्निस्थापनादि - अन्वाधानोत्तरं अन्वाधानसमिददानान्ते प्रधानमार्कण्डेयादिदेवतास्थापनपूजनं उत्तरतः वेद्यां कृत्वा परिसमूहनादि - पूर्वाङ्गम् कुर्यात् ।
अथ कर्ता यजमानः षष्टितमवर्षारंभदिने तद्वर्षांतर्गतजन्मनक्षत्रे वा शुभे काले चन्द्रताराबलान्विते मंगलस्नानं विधाय, कृतनित्यक्रियः, शुभे सवस्त्रपीठासने उपविश्य, सुवासिन्या, कृत्तमंगलतिलकः, यज्ञोपवीती, आचम्य, पवित्रपाणिः, प्राणानायम्य, देवतागुर्वादींश्चाभिवाद्य ब्राह्मणैर्दत्तानुज्ञः पुनरपि आचम्येत्यादिदेशकालनिर्देशान्ते अमुकगोत्रप्रवरोपेतः अमुकशर्माहं मम जन्मनः सकाशात् षष्टितम - वर्षप्राप्त्या भविष्यत्वेन सूचितानां अपमृत्यु - दुःस्वप्न - दर्शन - मातापितृमृति - भार्यापुत्रादिवियोग - ग्रहपीडा - राजभय - विविध - रोग - छायाविकृति - स्फुटनक्षत्र ध्रुवाद्यदर्शन - यक्षरक्षोभूतप्रेतपिशाचादि - विविधदर्शनानां अन्येषां च महोत्पातानां अरिष्टरुपाणां सद्यः परिहारपूर्वकं सर्वारिष्टविनाश - दीर्घायुरारोग्य - सर्वसंपद्‍ - भवनद्वारा श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां शौनकोक्तां उग्ररथशान्तिं करिष्ये । तदंगं स्वस्ति० आदौ नि० सि० महागणपतिपूजनं करिष्ये इति संकल्प्य, गणेशपूजनादि - नांदीश्राद्धान्ते आचार्यं ब्रह्माणं ऋत्विजश्च वृणुयात् । तत आचार्यः, आचमनादिप्रादेशकरणान्ते ग्रहस्थापनादि - कलश - प्रार्थनान्तं कृत्वा तन्नैऋत्यां स्थंडिले वरदनामानमग्निं प्रतिष्ठाप्य, ध्यात्वा, अन्वादध्यात् । ग्रहादिकीर्तनान्ते मार्कंडेयं प्रधानं देवं समिदाज्य - चरु - दूर्वा - पायसैः प्रतिद्रव्यं १००८ अष्टोत्तरसहस्रसंख्याभिराहुतिभिः । (१०८) अष्टोत्तरशतसंख्याभिर्वा । मृत्युंजयं दूर्वातिलैः प्रतिद्रव्यं १०००० अयुतसंख्याभिः तदर्धं - ५००० पंचसहस्रसंख्याभिः - ३००० त्रिसहस्रसंख्याभिः - १००० सहस्रसंख्याभिः - ५०० पंचशतसंख्याभिर्वा । तिलभिश्रदूर्वाभिः उक्तसंख्यातो द्विगुणाभिः । देशकालाद्यनुसारं शक्त्यनुसारं च मृत्युंजयप्रीत्यर्थं हवनपक्षः स्वीकार्यः । पृथक्‍ दूर्वास्तिलाश्च तिलसंमिश्रदूर्वाः वा ।

तथा अश्वत्थामानं, बलिं, व्यासं, हनूमन्तं, बिभीषणं, कृपं, परशुरामं च प्रत्येकं अष्टाविंशतिभिः अष्टभिर्वा संख्याभिः लाजाद्रव्येण यक्ष्ये । शेषेणेत्यादिसमिदाधानान्ते ग्रहाणामुत्तरतः ( अत्र केचन - सर्वतोभद्रस्य ( लिंगतोभद्रस्य वा ) सर्वसाधारणत्वात् पीठे सर्वतोभद्रं विरच्य तत्र ब्रह्मादि - मंडल - देवताः आवाह्य, संपूज्य, तण्डुलैराच्छाद्य, तदुपरि कलशं संस्थाप्य, वरुणं संपूज्य, कर्णिकायां देवतास्थापनमिच्छन्ति । ) महीद्यौरित्यादिविधिना कलशं संस्थाप्य, तत्र सर्वोषधीः पंचत्वचः पंचगव्यं क्षिप्त्वा, पूर्णपात्रनिधानान्ते उक्तलक्षण - सुवर्णप्रतिमायां देवतां मार्कण्डेयमहाभागेतिमंत्रेण आवाह्य, तथा अश्वत्थामादिसप्तचिरंजीवांश्च नाममंत्रेणावाह्य, वस्त्रयुग्मेनावेष्टय, षोडशोपचारैः संपूज्य, इध्माबर्हिषोश्च संनहनादि चक्षुषीहोमान्तं कृत्वा, यजमानेन द्रव्यत्यागे कृते, ग्रहादिहोमोत्तरं मार्कण्डेय महाभाग सप्तकल्पान्तजीवन । आयुरारोग्यमैश्वर्यं देहि मे मुनिपुंगव स्वाहा ॥ इति हवनमंत्रेण समिधाज्य - चरु - दूर्वा - पायसानि, त्र्यंबकं इति मंत्रेण दूर्वातिलान्‍ तिलमिश्रदूर्वा वा उक्तसंख्योक्ता हुत्वा, अश्वत्थाम्ने नमः स्वाहा । बलये० । व्यासाय० । हनूमते० । बिभीषणाय० । कृपाय० । परशुरामाय स्वाहा इति नाममंत्रैः प्रत्येकं २८ अष्टविंशतिभिः अष्टाभिर्वा लाजाभिर्जुहुयात् । ततः स्विष्टकृतात् प्राक्‍, श्रीसूक्तं, रुद्राध्यायं च जप्त्वा आयुष्यमंत्रान्‍ जपेत् । ते च - एष वां देवा ऋकद्वयं परावतो सप्तदशर्चं आ नो भद्रा दशर्चं इति वा इति आयुष्यमिति च सूक्तं पठेत् । ततः वेदपारायणं कार्यं तदसंभवे पुरुषसूक्तं अग्निमीळे इति नवर्चंसूक्तं च पठेत् । ततः स्विष्टकृतादि प्रायश्चित्तहोमान्ते बलिदानं पूर्णाहुतिं च कृत्वा संस्रावादिहोमशेषं समाप्य, स्थापितकलशोदकैः सकुटुंबं बंधुवर्गयुतं यजमानमभिषिंचेत् । तत्र मंत्राः समुद्रज्येष्ठा० शं न इन्द्राग्नी इति पञ्चदशर्चं, सहस्रशीर्षेति षोडशर्चं, परं मृत्यो० इति चतुर्दशर्चं, एष वां देवावितिद्वयो० परावतो य इति सप्तदशर्चं, स्वादिष्ठयेति दशर्चं अक्षिभ्यां षटभिः, यज्जाग्रत इति षण्णाम् । ग्रहमंत्र - मुख्यदेवतामंत्रेत्यादीनां सर्वेषां अभिषेके विनियोगः ।

( अभिषेकमंत्राणां बाहुल्यात् यथावकाशं यथाशक्ति पाठः । )

तच्छं यां इत्येतेनाभिषिक्तो यजमानः धृतशुक्लांबरगंधमाल्यो अभिषेकवस्त्रं आचार्याय दद्यात् । विभूतिं धृत्वा आचार्येण आ नो भद्रा इत्यादिमहाशांतिमंत्रजपपूर्वकं देवतोत्तरपूजने कृते मार्कण्डेयादीन्‍ प्रार्थयेत ( इयं प्रार्थना अन्ते द्रष्टव्या । ) ततः आयुर्वृद्धयै सतिल - गुडसंमिश्रं दुग्धं प्राशयेत् । तत्र मंत्रः ‘ सतिलं गुडसंमिश्रं अंजल्यर्धमितं पयः । मार्कण्डेयात् वरं लब्ध्वा पिबाम्यायुर्विवृद्धये ’ । इति पिबेत् । ततः आचार्यादीन्‍ संपूज्य, आचार्याय मार्कण्डेयप्रतिमासहितं कलशं गां च दत्त्वा, ब्राह्मणेभ्यः गवादिदशदानानि शतगुजांपरिमितं सुवर्णं तन्मूल्यं वा विभज्य विभज्य दद्यात् । अशक्तौ शतसर्षपतुलितं वा गवादीनां प्रत्यक्षदानासंभवे तन्मूल्यम् देयम् । ततः विसर्जितदेवतापीठदानान्ते कांस्यपात्रे आज्यं विलोक्य, तत्पात्रं सदक्षिणाकं ब्राह्मणाय तिलदानं च कृत्वा, तत्र मंत्रः ‘ तिलाः कश्यपसंभूतास्तिलाः पापहराः शुभाः । तिलपात्रप्रदानेन अतः शान्तिं प्रयच्छ मे ॥ ’ इति । पुरंध्रीभिः नीराजितः बंधुबर्गैः सत्कृतः देवान्‍ अभिवाद्य, यथाशक्ति ब्राह्मणभोजनं संकल्प्य, आशीर्वचनं गृहीत्वा, द्विराचम्य, यस्य स्मृत्येति विष्णुस्मरणं कृत्वा उत्तिष्ठेत् ।
॥ इति प्राचीनग्रंथानुसारं नारायणशास्त्री जोशी - विरचितः
उग्ररथ - शान्तिप्रयोगः ‘ शांतिकमलाकर ’ स्थः ॥
॥ श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP