मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
प्रार्थना - श्लोकाः ।

सप्तचिरंजीव - प्रार्थना - श्लोकाः ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।
आयुरारोग्यमैश्वर्यं देहि मे मुनिपुंगव ॥१॥
द्रौणे मे त्वं महाभाग रुद्रतेजः समुद्भव ।
आयुर्बलं यशो देहि अश्वत्थामन् नमोऽस्तु ते ॥२॥
दैत्येन्द्रकुलसंभूत यज्ञदानक्रियारत ।
बले त्वां शरणं यामि दीर्घायुष्यं प्रयच्छ मे ॥३॥
वसिष्ठकुलसंभूत वेदशास्त्रविशारद ।
नारायणांशसंभूत वेदव्यास नमोऽस्तु ते ॥४॥
अंजनीगर्भसंभूत कपीन्द्र सचिवोत्तम ।
रामप्रिय नमस्तुभ्यं हनुमन् रक्ष मां सदा ॥५॥
बिभीषण नमस्तुभ्यं रामपादाब्जपूजक ।
आयुरारोग्यमैश्वर्यं देहि पौलस्त्यनंदन ॥६॥
द्विजेन्द्र भरताचार्य सर्वविद्याविशारद ।
शरणं त्वां प्रपन्नोऽस्मि कृप मां रक्ष सर्वदा ॥७॥
रेणुकेय महाभाग कार्तवीयकृतान्तक ।
आयुः प्रयच्छ मे राम जामदग्न्य नमोऽस्तु ते ॥८॥
इति ।

अभिषेकोत्तरं सर्वासु शान्तिषु अन्ते यजमानेन पठनीयाः सप्तचिरंजीवप्रार्थनाश्लोकाः ।

हिरण्यवर्णामिति पंचदशर्चस्य सूक्तस्य आनंदकर्दमचिक्लीतेंदिरासुता ऋषयः । श्रीर्देवता । आद्यास्तिस्रोऽनुष्टुभः । चतुर्थी बृहती पंचमीषष्ठयौ त्रिष्टुभौ । ततोऽष्टावनुष्टुभः । अंत्या प्रस्तारपंक्तिः ।

हरिः ॐ हिरण्यवर्णांहरिणींसुवर्णरजतस्रजाम् ॥ चंद्रांहिरण्मयींलक्ष्मींजातवेदोम आवह ॥ तांम आवहजात वेदोलक्ष्मीमनपगामिनीम् ॥ यस्यांहिरण्यंविंदेयंगामश्वं पुरुषानहम् ॥ अश्वपूर्वांरथमध्यांहस्तिनादप्रबोधिनीम् ॥ श्रियंदेवीमुपह्वयेश्रीर्मादेवीजुषताम् ॥ कांसोस्मितांहिरण्य प्राकारामार्द्रांज्वलतींतृप्तांतर्पयंतीम् ॥ पद्मेस्थितांपद्मवर्णां तामिहोपह्वयेश्रियम् ॥ चंद्रांप्रभासांयशसाज्वलंतींश्रियं लोकेदेंवजुष्टामुदाराम् ॥ तांपद्मिनीमींशरणमहंप्रपद्येऽ लक्ष्मीर्मेनश्यतांत्वांवृणे ॥१॥

आदित्यवर्णेतपसोधिजातो वनस्पतिस्तववृक्षोथबिल्वः ॥ तस्यफलानितपसानुदंतु मायांतरायाश्चबाह्याअलक्ष्मीः ॥ उपैतुमांदेवसखः कीर्तिश्चमणिनासह ॥ प्रादुर्भूतोसुराष्ट्रेस्मिन् कीर्तिमृद्धिंददातुमे ॥ क्षुत्पिपासामलांज्येष्ठामलक्ष्मींनाशयाम्यहम् ॥ अभूतिमसमृद्धिंचसर्वांनिर्णुदमेगृहात् ॥ गंधद्वारांदुराधर्षांनित्यपुष्टांकरीषिणीम् ॥ ईश्वरींसर्वभूतानांतामिहोपह्वयेश्रियम् ॥ मनसः काममाकूतिंवाचः सत्यमशीमहि ॥ पशूनांरुपमन्नस्यमयिश्रीः श्रयतांयशः ॥२॥

कर्दमेन प्रजाभूतामयिसंभवकर्दम ॥ श्रियंवासयमेकुलेमा तरंपद्ममालिनीम् ॥ आपःस्रजंतुस्निग्धानिचिक्लीतवसमेगृहे ॥ निचदेवींमातरंश्रियंवासयमेकुले ॥ आर्द्रांपुष्करिणींपुष्टिंसुवर्णांहेममालिनीम् ॥ चन्द्रांहिरण्मयींलक्ष्मींजातवेदोम आवह ॥ आर्द्रांयः करिणींयष्टिंसुवर्णांहेममालिनीम् ॥ सूर्यांहिरण्मयींलक्ष्मींजातवेदोम आवह ॥ तांम आवहजात वेदोलक्ष्मीमनपगामिनीं ॥ यस्यांहिरण्यंप्रभूतंगावोदास्यो श्वान् विंदेयंपुरुषानहम् ॥३॥
अ० ४ अ० ४ परि०

रुद्राध्यायः न अत्र मुद्रितः सर्वेषां परिचितत्वात् ।
तस्मात् नमकश्चमकेति रुद्राध्यायः अत्र पठनीयः ॥
अथ वा नमः सोमाय० शं चमेति वर्गद्दयं पठेत् ।
एष वां देवावितिद्वयोर्वामदेवाश्विनौ गायत्री ।

हरिः ॐ एषवांदेवावश्विनाकुमारः साहदेव्यः । दीर्घायुरस्तुसोमकः ॥ तंयुवंदेवावश्विनाकुमारंसाहदेव्यं । दीर्घायुषंकृणोतन ॥१६॥
अ० ३ अ० ५ वर्ग १६

परावतो य इति सप्तदशर्चस्य सूक्तस्य गयो विश्वेदेवा जगत्यन्त्ये त्रिष्टुभौ ।

हरिः ॐ परावतोयेदिधिषंतऽआप्यंमनुप्रीतासोजनिमाविवस्वतः । ययातेर्येनहुष्यस्यबर्हिषिदेवाऽआसतेतेऽअधिब्रुवंतुनः ॥ विश्वाहिवोनमस्यानिवंद्यानामानिदेवाऽउतयज्ञियानिवः । येस्थजाताऽअदितेरभ्द्यस्परियेपृथिव्या स्तेमऽइहश्रुताहवं ॥ येभ्योमातामधुमत्पिन्वतेपयः पीयूषं द्यौरदितिरद्रिबर्हाः । उक्थशुष्मान्वृषभरान्त्स्वप्नसस्ताँऽआदित्याँऽअनुमदास्वस्तये ॥ नृचक्षसोऽअनिमिषंतोऽअर्हणाबृहद्देवासोऽअमृतत्वमानशुः । ज्योतीरथाऽअहिमायाऽअनागसोदिवोवर्ष्माणंवसतेस्वस्तये ॥ सम्राजोयेसुवृधोयज्ञमाययुरपरिह्वृतादधिरेदिविक्षयं ॥ ताँऽआविवासनमसासुवृक्तिभिर्महोऽआदित्याँऽअदितिंस्वस्तये ॥३॥

कोवस्तोमंराधतियंजुजोषथविश्वेदेवासोमनुषोयतिष्ठन । कोवोध्वरंतुविजाताऽअरंकरद्योनः पर्षदत्यंहः स्वस्तये ॥ येभ्योहोत्रांप्रथमामायेजेमनुः समिद्धाग्निर्मनसासप्तहो तृभिः । तऽआदित्याऽअभयंशर्मयच्छतसुगानः कर्तसुपथास्वस्तये ॥ यऽईशिरेभुवनस्यप्रचेतसोविश्वस्यस्थातुर्जगतश्चमंतवः । तेनः कृतादकृतादेनसस्पर्यद्यादेवासः पिपृतास्वत्यये ॥ भरेष्विंद्रंसुहवंहवामहेंहोमुचंसुकृतंदैव्यंजनं । अग्निंमित्रंवरुणंसातयेभगंद्यावापृथिवीमरुतः स्वस्तये ॥ सुत्रामाणंपृथिवींद्यामनेहसंसुशर्माणमदितिंसुप्रणीतिं । दैवींनावंस्वरित्रामनागसमस्रवंतीमारुहेमास्वस्तये ॥४॥

विश्वेयजत्राऽअधिवोचतोतयेत्रायध्वंनोदुरेवायाऽअभिहुतः । सत्ययावोदेवहूत्याहुवेमशृण्वतोदेवाऽअवसेस्वस्तये ॥ अपामीवामपविश्वामनाहुतिमपारातिंदुर्विदत्रामघायतः । आरेदेवाद्वेषोऽअस्मद्युयोतनोरुणः शर्मयच्छतास्वस्तये ॥ अरिष्टः समर्तोविश्वऽएधतेप्रप्रजाभिर्जायतेधर्मणस्परि । यमादित्यासोनयथासुनीतिभिरतिविश्वानि दुरितास्वस्तये ॥ यंदेवासोवथवाजसातौयंशूरसातामरुतोहितेधने । प्रातर्यावाणंरथमिंद्रसानसिमरिष्यंतमारुहेमास्वस्तये ॥ स्वस्तिनः पथ्यासुधन्वसुस्वस्त्य १ प्सुवृजने स्वर्वति । स्वस्तिनः पुत्रकृथेषुयेनिषुस्वस्तिरायेमरुतोदधातन ॥ स्वस्तिरिद्धिप्रपथेश्रेष्ठारेक्णस्वत्यभियावाममेति । सानोऽअमासोऽअरणेनिपातुस्वावेशाभवतुदेवगोपा ॥ एवाप्लतेः सूनुरवीवृधद्वोविश्वऽआदित्याऽअदितेमनीषी । ईशानासोनरोऽअमर्त्येनास्ताविजनोदिव्योगयेन ॥५॥
अ० ८ अ० २ वर्ग ३-४-५

आ नो भद्रा इति दशर्चस्य सूक्तस्य गोतमो राहुगणो विश्वेदेवा जगती षष्ठी विराट् - स्थाना अंत्यास्तिस्त्रस्त्रिष्टुभः ।

हरिः ॐ आनोभद्राः क्रतवोयंतुविश्वतोदब्धासोअपरीतास उद्भिदः ॥ देवानोयथासदमिदृधेअसन्नप्रायुवोरक्षितारोदिवेदिवे ॥ देवानांभद्रासुमतिऋजूयतांदेवानांरातिरभिनोनिवर्ततां ॥ देवानांसख्यमुपसेदिमावयंदेवान आयुः प्रतिरंतुजीवसे ॥ तान्पूर्वयानिविदाहूमहेवयंभगंमित्रमदितिंदक्षमस्रिधं । अर्यमणंवरुणंसोममश्विनासरस्वतीनः सुभगामयस्करत् ॥ तन्नोवातोमयोभुवात्रुभेषजंतन्मातापृथिवीतत्पिताद्यौः ॥ तदग्रावाणः सोमसुतोमयोभुवस्तदश्विनाश्रृणुतंधिष्ण्यायुवं ॥ तमीशानंजगतस्तस्थुषस्पतिंधियंजिन्वमवसेहूमहेवयं ॥ पूषानोयथावेदसामसद्धधेरक्षितापायुरदब्धः स्वस्तये ॥१॥

स्वस्तिन इंद्रोवृद्धश्रवाः स्वस्तिनः पूषाविश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्योअरिष्टनेमिः स्वस्तिनोबृहस्पतिर्दधातु ॥ पृषदश्वामरुतः पृश्निमातरः शुभंयावानोविदथेषुजग्मयः ॥ अग्निजिह्वामनवः सूरचक्षसोविश्वेनोदेवाऽअवसागमन्निह ॥ भद्रंकर्णेभिः श्रृणुयामदेवाभद्रंपश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितंयदायुः ॥ शतमिन्नुशरदोअंतिदेवायत्रानश्चक्राजरसंतनूनां ॥ पुत्रासोयत्रपितरोभवंतिमानोमध्यारीरिषतायुर्गंतोः ॥ अदितिर्द्यौरदितिरंतरिक्षमदितिर्मातासपितासपुत्रः ॥ विश्वेदेवाअदितिःपंचजनाअदितिर्जातमदितिर्जनित्वं ॥२॥
अ० १ अ० ६ वर्ग १५-१६

इति वा इति त्रयो दशर्चस्य सूक्तक्य ऐंद्रो लब आत्मा स्तुतिर्गायत्री ।

हरिः ॐ इतिवाइतिमेमनोगामश्वंसनुयामिति ॥ कुवित्सोमस्यापामिति ॥ प्रवाताइवदोधत उन्मापीताऽअयंसत ॥ कुवित्सोमस्यापामिति ॥ उपमामतिरस्थितवाश्रापुत्रमिवप्रियं ॥ कुवित्सोमस्यापामिति ॥ अहंतष्टेववंधुरंपर्यचामिह्रदामतिं ॥ कुवित्सोमस्यांपामिति ॥ नाहिमेऽअक्षिपच्चनाच्छान्त्सुः पंचकृष्टयः ॥ कुवित्सोमस्यापामिति ॥१॥

नहिमेरोदसीउभेऽअन्यंपक्षंचनप्रति ॥ कुवित्सोमस्यापामिति ॥ अभिद्यांमहिनाभुवमभी ३ मांपृथिवींमहीं ॥ कुवित्सोमस्यापामिति ॥ हंताहंपृथिवीमिमांनिदधानीहवेहवा ॥ कुवित्सोमस्यापामिति ॥ ओषमित्पृथिवीमहंजंघनानीहवेहवा ॥ कुवित्सोमस्यापामिति ॥ दिविमेअन्यः पक्षो ३ धोऽअन्यमचीकृषं ॥ कुवित्सोमस्यापामिति ॥ अहमस्मिमहामहोभिनभ्यमुदीषितः ॥ कुवित्सोमस्यापामिति ॥ गृहोयाम्यरंकृतोदेवेभ्योहव्यवाहनः ॥ कुवित्सोमस्यापामिति ॥२॥
अ० ८ अ० ६ वर्ग २६-२७

आयुष्यमिति सूक्तस्य सनक - सनंदन सनातनादयो ऋषयः हिरण्यं देवता आद्याश्चतस्रोऽनुष्टुभः पंचमी त्रिष्टुप् षष्ट्यनुष्टुप् सप्तम्यतिशक्करी अष्टमीनवम्यौ त्रिष्टुभौ दशम्यनुष्टुबेकादशी पंक्तिः । सर्वेषां पठणे श्रवणे विनियोगः ।

हरिः ॐ आयुष्यंवर्चस्यंरायस्पोषमौद्भिदं ॥ इदंहिरण्यंवर्चस्वजैत्रायाविशतादिमाम्‍ ॥ उचैर्वाजीपृतनाषाटसभासाहंधनञ्जयं ॥ सर्वाःसमग्राऋद्धयोहिरण्येस्मिन्समाहिताः ॥ शुनमहंहिरण्यस्यपितुर्मानेवजग्रभ ॥ तेनमांसूर्यत्वचमकरंपूरुषुप्रियं ॥ सम्राजंचविराजंचाभिष्टिर्याचमेध्रुवा ॥ लक्ष्मीराष्ट्रस्ययामुखेतयामामिंद्र संसृज ॥ अग्नेः प्रजातंपरियद्धिरण्यममृतंजज्ञेअधिमर्त्येषु ॥ यएनद्वेदस इदेनमर्हतिजरामृत्युर्भवतियोबिभर्ति ॥१॥

यद्वेदराजावरुणोयदुदेवीसरस्वती ॥ इंद्रोयद्धत्रहावेदतन्मेवर्चस आयुषे ॥ नतद्रक्षांसिनपिशाचाश्चरंतिदेवानामोजः प्रथमजंह्ये ३ तत्‍ ॥ योबिभर्तिदाक्षायणाहिरण्यंसदेवेषुकृणुतेदीर्घमायुः समनुष्येषुकृणुतेदीर्घमायुः ॥ यदाबध्नन्दाक्षायणाहिरण्य़ंशतानीकायसुमनस्यमाना ॥ तन्न आवध्नामिशतशारदायायुष्मान्जरदष्टिर्यथासत्‍ ॥ घृतदुर्लुप्तंमधुमत्सुवर्णंधनञ्जयंधरुणंठधारयिष्णु ॥ ऋणक्सपत्नादधरांश्चकृण्वदारोहमांमहुतेसौभगाय ॥ प्रियंमाकुरुदेवेषुप्रियंराजसुमाकुरु ॥ प्रियंविश्वेषुगोप्त्रेषुमयिधेहिरुचारुचं ॥ अग्निर्येनविराजतिसूर्योयेनविराजति ॥ विराज्येनविराजतितेनास्मान्ब्रह्मणस्पतेविराजसमिधंकुरु ॥
अ० ८ अ० ७ परि०

सहस्रशीर्षेतिषोडशर्चस्य सूक्तस्य नारायणः पौरुषमानुष्टुभं त्रिष्टुभन्त्या ।

हरिः ॐ सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्‍ ॥ सभूमिंविश्वतोवृत्वाऽत्यतिष्ठद्दशांगुलम्‍ ॥ पुरुषएवेदंसर्वंयद्भूतंयच्चभव्यम्‍ ॥ उतामृतत्वस्येशानोयदन्नेनातिरोहति ॥ एतावानस्यमहिमातोज्यायांश्चपूरुषः ॥ पादोस्यविश्वाभूतानित्रिपादस्यामृतंदिवि ॥ त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः ॥ ततोविष्वङ्व्यक्रामत्साशनानशनेअभि ॥ तस्माद्विराळजायतविराजोअधिपूरुषः ॥ सजातोअत्यरिच्यतपश्चाद्भूमिमथोपुरः ॥१॥

यत्पुरुषेणहविषादेवायज्ञमतन्वत ॥ वसंतोअस्यासीदाज्यंग्रीष्म इध्मः शरद्धविः ॥ तंयज्ञंबर्हिषिप्रौक्षन्पुरुषंजातमग्रतः ॥ तेनदेवाअयजंतसाध्याऋषयश्चये ॥ तस्माद्यज्ञात्सर्वहुतः संभृतंपृषदाज्यम्‍ ॥ पशून्ताँश्चक्रेवायव्यानारण्यान्‍ ग्राम्याश्चये ॥ तस्माद्यज्ञात्सर्वहुतऋचः सामानिजज्ञिरे ॥ छंदांसिजज्ञिरेतस्माद्यजुस्तस्मादजायत ॥ तस्मादश्वाअजायंतयेकेचोभयादतः ॥ गावोहजज्ञिरेतस्मात्तस्माज्जाताअजावयः ॥२॥

यत्पुरुषंव्यदधुः कतिधाव्यकल्पयन्‍ ॥ मुखंकिमस्यकौबाहूकाऊरुपादाउच्येते ॥ ब्राह्मणोस्यमुखमासीद्बाहूराजन्यः कृतः ॥ ऊरुतदस्ययद्वैश्यः पदभ्यांशूद्रोअजायत ॥ चंद्रमामनसोजातश्चक्षोः सूर्योअजायत ॥ मुखादिंद्रश्चाग्निश्चप्राणाद्वायुरजायत ॥ नाभ्याआसीदंतरिक्षंशीर्ष्णोद्यौः समवर्तत ॥ पदभ्यांभूमिर्दिशः श्रोत्रात्तथालोकाँअकल्पयन्‍ ॥ सप्तास्यासन्परिधयस्त्रिः सप्तसमिधः कृताः ॥ देवायद्यज्ञंतन्वानाअबध्नन्पुरुषंपशुम्‍ ॥ यज्ञेनयज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्यासन्‍ ॥ तेहनाकंमहिमानः सचंतयत्रपूर्वेसाध्याः संतिदेवाः ॥३॥

अग्निमीळे इति वर्गद्वयस्य मधुच्छंदा अग्निर्गायत्री श्रवणे पठने विनियोगः ।

हरिः ॐ अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजम्‍ ॥ होतारंरत्नधातमम्‍ ॥ अग्निः पूर्वेभिऋषिभिरीडयोनूतनैरुत ॥ सदेवाँऽएहवक्षति ॥ अग्निनारयिमश्नवत्पोषमेवदिवेदिवे ॥ यशसंवीरवत्तमम्‍ ॥ अग्नेयंयज्ञमध्वरंविश्वतः परिभूरसि ॥ सऽइद्देवेषुगच्छति ॥ अग्निर्होताकविक्रतुः सत्यश्चित्रश्रवस्तमः ॥ देवोदेवेभिरागमत्‍ ॥१॥

यदंगदाशुषेत्वमग्नेभद्रंकरिष्यसि ॥ तवेत्तत्सत्यमंगिरः ॥ उपत्वाग्नेदिवेदिवेदोषावस्तर्धियावयम्‍ ॥ नमोभरंतऽएमसि ॥ राजंतमध्वराणांगोपामृतस्यदीदिविम्‍ ॥ वर्धमानंस्वेदमे ॥ सनः पितेवसूनवेऽग्नेसूपायनोभव ॥ सचस्वानः स्वस्तये ॥२॥
अ० १ अ० १ वर्ग १-२

समुद्रज्येष्ठा इति चतसृणां वसिष्ठ आपस्त्रिष्टुप् । त्रायन्तामिति तिसृणां सप्तर्षय आपोऽनुष्टुप् ॥ इमा आप इति तिसृणामैतयेय अपोनुष्टुब्जगत्यनुष्टुभः ।

हरिः ॐ समुद्रज्येष्ठाः सलिलस्यमध्यात्पुनानायंत्यनिविशमानाः ॥ इंद्रोयावज्रीवृषभोररादताआपोदेवीरिहमामवंतु ॥  याआपोदिव्याउतवास्रवंतिखनित्रिमाउतवायाः स्वयंजाः ॥ समुद्रार्थायाः शुचयः पावकास्ताआपोदेवीरिहमामवंतु ॥ यासांराजावरुणोयातिमध्येसत्यानृतेअवपश्यंजनानां ॥ मधुश्चुतः शुचयोयाः पावकास्ताआपोदेवीरिहमामवंतु ॥ यासुराजावरुणोयासुसोमोविश्वेदेवायासूर्जंमदंति ॥ वैश्वानरोयास्वग्निः प्रविष्टस्ताआपोदेवीरिहमामवंतु ॥ त्रायंतामिहदेवास्त्रायतांमरुतांगणः ॥ त्रायंतांविश्वाभूतानियथायमरपाअसत् ॥ आप इद्वाउभेषजीरापोअमीवचातनीः ॥ आपः सर्वस्यभेषजीस्तास्तेकृण्वंतुभेषजं ॥ हस्ताभ्यांदशशाखाभ्यांजिह्वावाचः पुरोगवी ॥ अनामयित्नुभ्यांत्वाताभ्यांत्वोपस्पृशामसि ॥ इमाआपः शिवतमाइमाः सर्वस्यभेषजीः ॥ इमाराष्ट्रस्यवर्धनीरिमाराष्ट्रभृतोमृताः ॥ याभिरिंद्रमभ्यषिंचत्प्रजापतिः सोमंराजानंवरुणंयमंमनुं ॥ ताभिरद्भिरभिषिंचामित्वामहंराज्ञांत्वमधिराजोभवेह ॥ महांतंत्वामहीनांसम्राजंचर्षणीनांदेवीजनित्र्यजीजनद्भद्राजनित्र्यजीजनत् ॥
अ० ५ अ० ४ वर्ग १६

शं न इंद्राग्नी इति पंचदशर्चस्य सूक्तस्य वसिष्ठो विश्वेदेवास्त्रिष्टुप् ।

हरिः ॐ शंनऽइंद्राग्नीभवतामवोभिः शंनऽइंद्रावरुणारातहव्या । शमिंद्रासोमासुवितायशंयोः शंनऽइंद्रापूषणावाजसातौ ॥ शंनोभगः शमुनः शंसोऽअस्तुशंनः पुरंधिः शमुसंतुरायः । शंनः सत्यस्यसुयमस्यशंसः शंनोऽअर्यमापुरुजातोऽअस्तु ॥ शंनोधाताशमुधर्तानोऽअस्तुशंनऽउरुचीभवतुस्वधाभिः । शंरोदसीबृहतीशंनोऽअद्रिः शंनोदेवानांसुहवानिसंतु ॥ शंनोऽअग्निर्ज्योतिरनीकोऽअस्तुशंनोमित्रावरुणावश्विनाशं । शंनः सुकृतांसुकृतानिसंतुशंनऽइषिरोऽअभिवातुवातः ॥ शंनोद्यावापृथिवीपूर्वहूतौशमंतरिक्षंदृशयेनोऽअस्तु । शंनऽओषधीर्वनिनोभवंतुशंनोरजसस्पतिरस्तुजिष्णुः ॥२८॥

शंनऽइंद्रोवसुभिर्देवाऽअस्तुशमादित्येभिर्वरुणः सुशंसः ॥ शंनोरुद्रोरुद्रेभिर्जलाषः शंनस्त्वष्टाग्नीभिरिहश्रृणोतु ॥ शंनः सोमोभवतुब्रह्मशंनः शंनोग्रावाणः शमुसंतुयज्ञाः । शंनः स्वरुणांमितयोभवंतुशंनः प्रस्व १: शम्वस्तुवेदिः ॥ शंनःसूर्यऽउरुचक्षाऽउदेतुशंनश्चतस्रः प्रदिशोभवंतु । शंनः पर्वताध्रुवयोभवंतुशंनः सिंधवः शमुसंत्वापः ॥ शंनोऽअदितिर्भवतुव्रतेभिः शंनोभवंतुमरुतः स्वर्काः । शंनोविष्णुः शमुपूषानोऽअस्तुशंनोभवित्रंशम्वस्तुवायुः ॥ शंनोदेवः सवितात्रायमाणः शंनोभवंतूषसोविभातीः । शंनः पर्जन्योभवतुप्रजाभ्यः शंनः क्षेत्रस्यपतिरस्तुशंभुः ॥२९॥

शंनोदेवाविश्वदेवाभवंतुशंसरस्वतीसहधीभिरस्तु । शमभिषाचः शमुरातिषाचः शंनोदिव्याः पार्थिवाः शंनोऽअप्या ॥ शंनः सत्यस्यपतयोभवंतुशंनोऽअर्वंतः शमुसंतुगावः । शंनऽऋभवः सुकृतः सुहस्ताः शंनोभवंतुपितरोहवेषु ॥ शंनोऽअजऽएकपाद्देवोऽअस्तुशंनोहिर्बुध्न्य १: शंसमुद्रः । शंनोऽअपांनपात्पेरुरस्तुशंनः पृश्निर्थवतुदेवगोपा ॥ आदित्यारुद्रावसवोजुषंतेदंब्रह्मक्रियमाणंनवीयः । शृष्वंतुनोदिव्याः पार्थिवासोगोजाताऽउतयेयज्ञियासः ॥ येदेवानांयज्ञियायज्ञियानांमनोर्यजत्राऽअमृताऋतज्ञाः । तेनोरासंतामुरुगायमद्ययूयंपातस्वस्तिभिः सदानः ॥३०॥
अ० ५ अ० ३ वर्ग २८-२९-३०

पुरुषसूक्तम् पठेत् ।
परं मृत्यो इति चतुर्दशर्चस्य सूक्तस्य संकुसुको विश्वेदेवास्त्रिष्टुप् । एकादशी प्रस्तारपंक्तिस्त्रयोदशी जगती चतुर्दश्यनुष्टुप् ।

हरिः ॐ परंमृत्योऽअनुपरेहिपंथांयस्तेस्वऽइतरोदेवयानात् । चक्षुष्मतेशृण्वतेतेब्रवीमिमानः प्रजांरीरिषोमोतवीरान् ॥ मृत्योः पदंयोपयंतोयदैतद्राघीयऽ आयुः प्रतरंदधानाः ॥ आप्यायमानाः प्रजयाधनेनशुद्धाः पूताभवतयज्ञियासः ॥ इमेजीवाविमृतैराववृत्रन्नभूद्भद्रादेवहूतिर्नोऽअद्य । प्रांचोऽअगामनृतयेहसायद्राघीयऽ आयुः प्रतरंदधानाः ॥ इमंजीवेभ्यः परिधिंदधामिमैषांनुगादपरोऽअर्थमेतं । शतंजीवंतुशरदः पुरुचीरंतर्मृत्युंदधतांपर्वतेन ॥ यथाहान्यनुपूर्वंभवंतियथऽऋतवऽऋतुभिर्यंतिसाधु । यथानपूर्वमपरोजहात्येवाधातरायूंषिकल्पयैषां ॥२६॥

आरोहतायुर्जरसंवृणानाऽअनुपूर्वंयतमानायतिष्ठ । इहत्वष्टासुजनिमासजोषादीर्घमायुः करतिजीवसेवः ॥ इमानारीरविधवाः सुपत्नीरांजनेनसर्पिषासंविशंतु । अनश्रवोनमीवाः सुरत्नाऽआरोहंतुजनयोयोनिमग्रे ॥ उदीर्ष्वनार्यभिजीवलोकंगतासुमेतमुपशेषऽएहि ॥ हस्तग्राभस्यदिधिषोस्तवेदंपत्युर्जनित्वमभिसंबभूथ ॥ धनुर्हस्तादाददानोमृतस्यास्मेक्षयायवर्चसेबलाय ॥ अत्रैवत्वमिहवयंसुवीराविश्वास्पृधोऽअभिमातीर्जयेम ॥ उपसर्पमातरंभूमिमेतामुरुव्यचसंपृथिवींसुशेवां । ऊर्णम्रदायुवतिर्दक्षिणावतऽएषात्वापातुनिऋतेरुपस्थात् ॥२७॥

उच्छ्वंचस्वपृथिविमानिबाधथाः सूपायनास्मैभवसूपवंचना । मातापुत्रंयथासिचाभ्येनंभूमऽऊर्णुहि ॥ उच्छ्वंचमानापृथिवीसुतिष्ठतुसहस्रंमितऽउपहिश्रयंतां ॥ तेगृहासोघृतश्चुतोभवंतुविश्वाहास्मैशरणाः संत्वत्र ॥ उत्तेस्तभ्नामिपृथिवींत्वत्परीमंलोगंनिदधन्मोऽअहंरिषं । एतांस्थूणांपितरोधारयंतुतेत्रायमः सादनातेमिनोतु ॥ प्रतीचीनेमामहनीष्वाः पर्णमिवादधुः । प्रतीचींजग्रभावाचमश्वंरशनयायथा ॥२८॥
अ० ७ अ० ६ वर्ग २६-२७-२८

एष वां देवाइति द्वे पठेत् ।
परावतो य इति सप्तदशर्चं पठेत् ।
स्वादिष्ठयेति दशर्चस्य सूक्तास्य मधुच्छन्दाः पवमानसोमः गायत्री ।

हरिः ॐ स्वादिष्ठयामदिष्ठयापवस्वसोमधारया ॥ इंद्रायपातवेसुतः ॥ रक्षोहाविश्वचर्षणिरभियोनिमयोहतं ॥ द्रुणासधस्थमासदत् ॥ वरिवोधातमोभवमंहिष्ठोवृत्रहन्तमः ॥ पर्षिराधोमघोनां ॥ अभ्यर्षमहानांदेवानांवीतिमंधसा ॥ अभिवाजमुतश्रवः ॥ त्वामच्छाचरामसितदिदर्थंदिवेदिवे ॥ इंदोत्वेनऽआशसः ॥१॥

पुनातितेपरिस्रुतंसोमंसूर्यस्यदुहिता ॥ वारेणशश्वतातना ॥ तमीमण्वीः समर्यऽआगृभ्णंतियोषणोदश ॥ स्वसारः पार्येदिवि ॥ तमींहिन्वंत्यग्रुवोधमंतिबाकुरंदृतिं ॥ त्रिधातुवारणंमधु ॥ अभी ३ ममघ्न्याऽउतश्रीणंतिधेनवः शिशुं ॥ सोममिंद्रायपातवे ॥ अस्येदिंद्रोमदेष्वाविश्वावृत्राणिजिघ्नते ॥ शूरोमघाचमंहते ॥२॥

अक्षिभ्यामिति षडऋचं काश्यपो विवृहा यक्ष्मघ्नी अनुष्टुप् ॥६॥

हरिः ॐ अक्षीभ्यांतेनासिकाभ्यांकर्णाभ्यांछुबुकादधि । यक्ष्मंशीर्षण्यंमस्तिष्काज्जिह्वायाविवृहामिते ॥ ग्रीवाभ्यस्तऽउष्णिहाभ्यः कीकसाभ्योऽअनूक्यात् । यक्ष्मंदोषण्य १ मंसाभ्यांबाहुभ्यांविवृहामिते ॥ आंत्रेभ्यस्तेगुदाभ्यावनिशष्ठोर्ह्रदयादधि । यक्ष्मंमतस्राभ्यांयाक्नः प्लाशिभ्योविवृहामिते ॥ ऊरुभ्यांतेऽअष्ठीवद् भ्यांपार्ष्णिभ्यांप्रपदाभ्यां । यक्ष्मंश्रोणिभ्यांभासदाद्भंससोविवृहामिते ॥ मेहनाद्वनंकरणाल्लोम - भ्यस्तेनखेभ्यः । यक्ष्मंसर्वस्मादात्मनस्तमिदांविवृहामिते ॥ अंगादंगाल्लोम्नोलोम्नोजातंपर्वणिपर्वणि । यक्ष्मंसर्वस्मादात्मनस्तमिदंविवृहामिते ॥२१॥

यज्जाग्रत इति षण्णां शिवसंकल्पमंत्राणां प्रजापतिर्मनस्त्रिष्टुप् । सर्वेषां अभिषेके विनियोगः ।

हरिः ॐ यज्जाग्रतोदूरमुदैतुदैवंतदुसुप्तस्यतथैवैति ॥ दूरंगमंज्योतिषांज्योतिरेकंतन्मेमनः शिवसंकल्पमस्तु ॥ येनकर्माण्यपसोमनीषिणो यज्ञेकृण्वंतिविदथेषुधीराः ॥ यदपूर्वंयक्ष्ममंतः प्रजानांतन्मेमनः शिवसंकल्पमस्तु ॥ यत्प्रज्ञानमुतचेतोधृतिश्चयज्जोतिरंतरमृतंप्रजासु ॥ यस्मान्नऋतेकिंचनकर्मक्रियतेतन्मेमनः शिवसंकल्पमस्तु ॥ येनेदंभूतंभुवनंभविष्यत्परिगृहीतममृतेनसर्वं ॥ येनयज्ञस्त्रायतेसप्तहोतातन्मेमनः शिवसंकल्पमस्तु ॥ यस्मिन्नृचःसामयजू षियस्मिन्प्रतिष्ठितारथनाभाविवाराः ॥ यस्मिश्चित्त सर्वमोतंप्रजानांतन्मेमनः शिवसंकल्पमस्तु ॥ सुषारथिरश्वानिवयंमनुष्यान्नेनीयतेभिशुभिर्वाजिन इव ॥ ह्रत्प्रतिष्ठंयदजिरंयविष्ठंतन्मेमनः शिवसंकल्पमस्तु ॥

आज्यावलोकन - मंत्रः ।
रुपंरुपमित्यस्य भारद्वाजो गर्ग इंद्रास्त्रिष्टुप् ।
मुखावलोकने विनियोगः ।

वैदिकमंत्रः ।
ॐ रुपं रुपं प्रतिरुपो बभूव तदस्य रुपं प्रतिचक्षणाय ।
इंद्रो मायाभिः पुरुरुप ईयते युक्ता ह्यस्य हरयः शता दश ॥
( अ - ४, अ - ७, वर्ग - ३३ )

पुराणमंत्रः ।
आज्यं तेजः समुद्दिष्टं, आज्यं पापहरं स्मृतम् ।
आज्यं सुराणामाहार आज्ये देवाः प्रतिष्ठिताः ॥ इति ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP