अथ भैमरथी शान्ति प्रयोगः ।
आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.
तत्रादौ मूलवचनानि । तदुक्तं बृहच्छौनकीये ॥
अथ भैमरथीं शान्तिं भगवान् शौनकोऽब्रवीत्
जननात्सप्ततौ वर्षे मृत्युर्भीमरथो भवेत् ॥१॥
षष्मासान्मृत्युमाप्नोति धनहानिं तथैव च
पुत्रदारादिनाशश्च द्रव्यधान्यपशुक्षयः ॥२॥
तद्दोषशमनार्थाय भगवान् शौनकोऽब्रवीत्
जन्मर्क्षे वानुकूलर्क्षे शान्तिं कुर्याद्विचक्षणः ॥३॥
देवालये नदीतीरे स्वगृहे वा शुभे स्थले
गृहस्यैशानदिग्भागे मण्डपं कारयेदथ ॥४॥
व्रीहिभारं तु निक्षिप्य तण्डुलांस्तु तदर्धकम्
तदर्धं तिलभारः स्यात् पद्ममष्टदलं स्मृतम् ॥५॥
तस्योपरि न्यसेत्कुंभान् तंतुवस्त्रादिवेष्टितान्
र्हींकारोपरि विन्यस्य भीमं मृत्युंजयं यजेत् ॥६॥
पलमात्रं सुवर्णेन तदर्धार्धेन वा पुनः
महावरुणमभ्यर्च्य लोकपालादिकानथ ॥७॥
अधि - प्रत्यधि - देवौ च तदर्धेन प्रकल्पयेत्
आचार्य वरयित्वा तु ऋत्विजो वरयेदथ ॥८॥
उपचारैः षोडशभिः प्रधानं देवमर्चयेत्
यथोक्तपूजां कृत्वा तु तत्तन्मंत्रान् जपेदथ ॥९॥
स्तुहि श्रुतेति मंत्रेण प्रधानं जपमाचरेत्
वेदपारायणजपं ततो द्वारजपं तथा ॥१०॥
नमकं चमकं चैव श्रीसूक्तं भीमसूक्तकम्
मण्डपात्पश्चिमे भागे कुण्डं स्याच्चतुरस्रकम् ॥११॥
स्वसूत्रोक्तेन मार्गेण आज्यभागान्तमाचरेत्
प्रधानमंत्रकैः कुर्यात् समिच्चर्वाज्यकैः क्रमात् ॥१२॥
नवग्रहाणां मंत्रेण तिलद्रव्येण कारयेत्
अष्टोत्तरं सहस्रं वा अष्टोत्तरशतं तथा ॥१३॥
प्रधानहोमः कर्तव्यः तिलैर्होमस्तथैव च
वरुणं लोकपालांश्च ह्यधिप्रत्यधिदेवते ॥१४॥
ततः स्विष्टकृतं हुत्वा ग्रहयज्ञं समापयेत्
यजमानाभिषेकं च आचार्यः कारयेदथ ॥१५॥
कुंभदानं ततः कुर्यात् दश दानानि कारयेत्
दीनांधकदरिद्रेभ्यः भूरिदानं समाचरेत् ॥१६॥
ब्राह्मणान् भोजयेत् पश्चादाशिषो वाचयेदथ
सर्वदुःखनिवृत्तिः स्यांत् सर्वदा सुखमेधते ॥१७॥
शत्रवोऽपि वशं यान्ति पुत्रपौत्रप्रवर्धनम्
हरिमेव स्मरेन्नित्यं कर्म पूर्वापरेऽपि च ॥१८॥
इति बृहच्छौनकीये सप्तत्यब्दिका भैमरथी शान्तिः ॥
N/A
References : N/A
Last Updated : May 24, 2018
TOP