नैषधीयचरितम् - चतुर्थ सर्गः
महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.
अथ नलस्य गुणं गुणमात्मभूः
सुरभि तस्य यशः कुसुमं धनुः ।
श्रुतिपथोपगतं सुमनस्तया
तमिषुमाशु विधाय जिगाय ताम् ॥१॥
यदतनुज्वरभाक्तनुते स्म
सा प्रियकथासरसीरसमज्जनम् ।
सपदि तस्य चिरान्तरतापिनी
परिणतिर्विषमा समपद्यत ॥२॥
ध्रुवमधीतवंतीयमधीरतां
दयितदूतपतद्गतवेगतः ।
स्थितिविरोधकरीं द्व्यणुकोदरी
तदुदितः स हि यो यदनन्तरः ॥३॥
अतितमां समपादि जडाशयं
स्मितलवस्मरणेऽपि तदाननम् ।
अजनि पङ्गुरपाङ्गनिजाङ्गण-
भ्रमिकणेऽपि तदीक्षणखञ्जनः ॥४॥
किमु तदन्तरुभौ भिषजौ दिवः
स्मरनलौ विशतः स्म विगाहितुम् ।
तदभिकेन चिकित्सितुमाशु तां
मखभुजामधिपेन नियोजितौ ॥५॥
कुसुमचापजतापसमाकुं
कमलकोमलमैक्ष्यत तन्मुखम् ।
अहरहर्वहदभ्यधिकाधिकां
रविरुचिग्लपितस्य विधोर्विधाम् ॥६॥
तरुणतातरणिद्युतिनिर्मित-
द्रढिम तत्कुचकुम्भयुगं तदा ।
अनलसंगतितापमुपैतु नो
कुसुमचापकुलालविलासजम् ॥७॥
अधृत यद्विरहोष्मणि भज्जितं
मनसिजेन तदूरुयुगं तदा ।
स्पृशति तत्कदनं कदलीतरुः
यदि मरूज्वलदूषरदूषितः ॥८॥
स्मरशराहतिनिर्मितसंज्वरं
करयुगं हसति स्म दमस्वसुः ।
अनपिधानपतत्तपनातपं
तपनिपीतसरः सरसीरुहम् ॥९॥
मदनतापभरेण विदीर्य नो
यदुदपाति हृदा दमनस्वसुः ।
निबिडपीनकुचद्वययन्त्रणा
तभपराधमधात्प्रतिबध्नती ॥१०॥
निविशते यदि शूकशिखा पदे
सृजति सा कियतीमिव न व्यथाम् ।
मृदुनोर्वितनोतु कथं न ताम्-
अवनिभृत्तु निविश्य हृदि स्थितः ॥११॥
मनसि सन्तमिव प्रियमीक्षितुं
नयनयोः स्पृहयान्तरुपेतयोः ।
ग्रहणशक्तिरभूदिदमीययोः
अपि न संमुखवास्तुनि वस्तुनि ॥१२॥
हृदि दमस्वसुरश्रुझरप्लुते
प्रतिफलद्विरहात्तमुखानतेः ।
हृदयभाजमराजत चुम्बितुं
नलमुपेत्य किलागमि तन्मुखम् ॥१३॥
सुहृदमग्निमुदञ्चयितुं स्मरं
मनसि गन्धवहेन मृगीदृशः ।
अकलि निःश्वसितेन विनिर्गमा-
नुमितनिह्नुतवेशनमायिता ॥१४॥
विरहपाण्डिमरागतमोमषी-
शितिमतन्निजपीतिमवर्णकैः ।
दश दिशः खलु तद्दृगकल्पयल्-
लिपिकरी नलरूपकचित्रिताः ॥१५॥
स्मरकृतां हृदयस्य मुहुर्दशां बहु
वदन्निव निःश्वसितानिलः ।
व्यधित वाससि कम्पमदः श्रिते
त्रसति कः सति नाश्रयबाधने ॥१६॥
करपदाननलोचननामभिः
शदतलैः सुतनोर्विरहज्वरे ।
रविमहो बहुपीतचरं चिराद्
अनिशतापमिषादुदसृज्यत ॥१७॥
उदयति स्म तदद्भुतमालिभिः
धरणिभृद्भुवि तत्र विमृश्य यत् ।
अनुमितोऽपि च बाष्पनिरीक्षणाद्
द्व्यविभिचचार न तापकरो नलः ॥१८॥
हृदि विदर्भभुवः प्रहरञ्शरै
रतिपतिर्निषधाधिपतेः कृते ।
कृततदन्तरगस्वदृढव्यधैः
फलदनीतिरमूर्च्छदलं खलु ॥१९॥
विधुरमानि तया यदि भानुमान्
कथमहो स तु तद्धृदयं तथा ।
अपि वियोगभरास्फुटनस्फुटी-
कृतदृषत्त्वमजिज्वलदंशुभिः ॥२०॥
हृदयदत्तसरोरुहया तया
क्व सदृगस्तु वियोगनिमग्नया ।
प्रियधनुः परिरभ्य हृदा रत्तिः
किमनुमर्तुमशेत चितार्चिषि ॥२१॥
अनलभावमियं स्वनिवासिनो
न विरहस्य रहस्यमबुध्यत ।
प्रशमनाय विधाय तृणान्यसू-
ञ्ज्वलति तत्र यदुज्झितुमैहत ॥२२॥
प्रकृतिरेतु गुणः स न योषितां
कथमिमां हृदयं मृदु नाम यत् ।
तदिषुभिः कुसुमैरपि दुन्वता
सुविवृतं विबुधेन मनोभुवा ॥२३॥
रिपुतरा भवनादविनिर्यतीं
विधुरुचिर्गृहजालबिलैर्नु ताम् ।
इतरथात्मनिवारणशङ्कया
ज्वरयितुं विशवेशधराविशत् ॥२४॥
हृदि विदर्भभुवोऽश्रुभृति स्फुटं
विनमदास्यतया प्रतिबिम्बितम् ।
मुखदृगोष्ठमरोपि मनोभुवा
तदुपमाकुसुमान्यखिलाः शराः ॥२५॥
विरहपाण्डुकपोलतले विधुः
व्यधित भीमभुवः प्रतिबिम्बितः ।
अनुपलक्ष्यसितांशुतया मुखं
निजसखं सुखमङ्कमृगार्पणात् ॥२६॥
विरहतापिनि चन्दनपांशुभिः
वपुषि सार्पितपाण्डिममण्डना ।
विषधराभबिसाभरणा दधे
रतिपतिं प्रति शंभुविभीषिकाम् ॥२७॥
विनिहितं परितापिनि चन्दनं
हृदि तया धृतबुद्बुदमाबभौ ।
उपनमन्सुहृदं हृदयेशयं
विधुरिवाङ्कगतोडुपरिग्रहः ॥२८॥
स्मरहुताशनदीपितया तया
बहु मुहुः सरसं सरसीरुहम् ।
श्रयितुमर्धपथे कृतमन्तरा
श्वसितनिर्मितमर्मरमुज्झितम् ॥२९॥
प्रियकरग्रहमेवमवाप्स्यति
स्ननयुगं तव ताम्यति किं न्विति ।
जगदतुर्निहिते हृदि नीरजे
दवथुकुङ्मलेन पृथुस्तनीम् ॥३०॥
त्वदितरो न हृदापि मया धृतः
पतिरितीव नलं हृदयेशयम् ।
स्मरहविर्भुजि बोधयति स्म सा
विरहपाण्डुतया निजशुद्धताम् ॥३१॥
विरहतप्ततदङ्गनिवेशिता
कमलिनी निमिषद्दलमुष्टिभिः ।
किमपनेतुमचेष्टत किं परा-
भवितुमैहत तद्दवथुं पृथुम् ॥३२॥
इयमनङ्गशरावलिपन्नग-
क्षतविसारिवियोगविषावशा ।
शशिकलेव खरांशुकरार्दिता
करुणनीरनिधौ निदधौ न कम् ॥३३॥
ज्वलति मन्मथवेदनया निजे
हृदि तयार्द्रमृणाललतार्पिता ।
स्वजयिनोस्त्रपया सविधस्थयोः
मलिनतामभजद्भुजयोर्भृशम् ॥३४॥
पिकलतेश्रुतिकम्पिनि शैवलं
हृदि तया निहितं विचलद्बभौ ।
सतततद्गतहृच्छयकेतुना
हृतमिव स्वतनूघनघर्षिणा ॥३५॥
न खलु मोहवशेन तदाननं
नलमनः शशिकान्तमबोधि तत् ।
इतरथा राशिनोऽभ्युदये ततः
कथमसुस्रुवदस्रुमयं पयः ॥३६॥
रतिपतेर्विजयास्त्रमिषुर्यथा
जयति भीमसुतापि तथैव सा ।
स्वविशिखानिव पञ्चतया ततो
नियतमैहत योजयितुं स ताम् ॥३७॥
शशिमयं दहनास्त्रमुदित्वरं
मनसिजस्य विमृश्य वियोगिनी ।
झटिति वारुणमश्रुमिषादसौ
तदुचितं प्रतिशस्त्रमुपाददे ॥३८॥
अतनुना नवमम्बुदमाम्बुदं
सुतनुरस्त्रमुदस्तमवेक्ष्य सा ।
उचितमायतनिःश्वसितच्छला-
च्छ्सनशस्त्रममुञ्चदमुं प्रति ॥३९॥
रतिपतिग्रहितानिलहेतितां
प्रतियती सुदती मलयानिले ।
तदुरुतापभयात्तमृणालिका-
मयमियं भुजगास्त्रमिवादित ॥४०॥
न्यधित तद्धृदि शल्यमिव द्वयं
विरहितां च तथापि च जीवितम् ।
किमथ तत्र निहत्य निखातवा-
व्रतिपतिः स्तनबिल्वयुगेन तत् ॥४१॥
अतिशरव्ययता मदनेन तां
निखिलपुष्पमयस्वरशरव्ययात् ।
स्फुटमकारि फलान्यपि मुञ्चता
तदुरसि स्तनतालयुगार्पणम् ॥४२॥
अथ मुहुर्बहुनिन्दितचन्द्रया
स्तुतविधुंतुदया च तया मुहुः ।
पतितया स्मरतापमये गदे
निजगदेऽश्रुविमिश्रमुखी सखी ॥४३॥
नरसुराब्जभुवामिव यावता
भवति यस्य युगं यदनेहसा ।
विरहिणामपि तद्गतवद्युव-
क्षणमितं न कथं गणितागमे ॥४४॥
जनुधत्त सती स्मरतापिता
हिमवतो न तु तन्महिमादृता ।
ज्वलति भालतले लिखितः सती-
विरह एव हरस्य न लोचनम् ॥४५॥
दहनजा न पृथुर्दवथुव्यथा
विरहजैव पृथुर्यदि नेदृशम् ।
दहनमाशु विशन्ति कथं स्त्रियः
प्रियमपासुमुपासितुमुद्धुराः ॥४६॥
हृदि लुठन्ति कला नितराममू-
र्विरहिणीवधपङ्ककलङ्किताः ।
कुमुदसख्यकृतस्तु बहिष्कृताः
सखि ! विलोकय दुर्विनयं विधोः ॥४७॥
अयि ! विधुं परिपृच्छ गुरोः
कुतः स्फुटमशिक्ष्यत दाहवदान्यता ।
ग्लपितशंभुगलाद्गरलात्त्वया
किमुदधौ जड ! वा वडवानलात् ॥४८॥
अयमयोगिवभूवधपातकैः
भ्रमिमवाप्य दिवः खलु पात्यते ।
शितिनिशादृषदि स्फुटदुत्पतत्-
कणगणाधिकतारकिताम्बरः ॥४९॥
त्वमभिधेहि विधुं सखि ! मद्गिरा
किमिदमीदृगधिक्रियते त्वया ।
न गणितं यदि जन्म पयोनिधौ
हरशिरःस्थितिभूरपि विस्मृता ॥५०॥
निपततापि न मन्दरभूभृता
त्वमुदधौ शशलाच्छन ! चूर्णितः ।
अपि मुनेर्जठरार्चिषि जीर्णतां
वत गतोऽसि न पीतपयोनिधेः ॥५१॥
किमसुभिर्ग्लपितैर्जड ! मन्यसे
मयि निमज्जतु भीमसुतामनः ।
मम किल श्रुतिमाह तदर्थिकां
नलमुखेन्दुपरां विबुधः स्मरः ॥५२॥
मुखरय स्वयशोनवडिण्डिमं
जलनिधेः कुलमुज्ज्वलयाधुना ।
अपि गृहाण वधूवधपौरुषं
हरिणलाञ्छन ! मुञ्च कदर्थनाम् ॥५३॥
निशि शशिन् ! भज कैतवभानु-
तामसति भास्वति तापय पाप ! माम् ।
अहमहन्यवलोकयितास्मि ते
पुनः अहर्पतिनिह्नुतदर्पताम् ॥५४॥
शशकलङ्क ! भयंकर ! मादृशां
ज्वलसि यन्निशि भूपतिं श्रितः ।
तद्भृतस्य तवेदृशभूतताद्
भुतकरी परमूर्धविधूननी ॥५५॥
श्रवणपूरतमालदलाङ्कुरं
शशिकुरङ्गमुखे सखि ! निक्षिप ।
किमपि तुन्दिलितः स्थगयत्यमुं
सपदि तेन तदुच्छसिमि क्षणम् ॥५६॥
असमये मति रुन्मिषति ध्रुवं
करगतैव गता यदियं कुहूः ।
पुनरुपैति निरुध्यनिवास्यते
सखि ! मुखं न विधोः पुनरीक्ष्यते ॥५७॥
अयि ! ममैष चकोरशिशुर्मुनेः
व्रजति सिन्धुपिबस्य न शिष्यताम् ।
अशितुमब्धिमधीतवतोऽस्य च
शशिकराः पिबतः कति शीकराः ॥५८॥
कुरु करे गुरुमेवकमयोघनं
बहिरतो मुकुरं च कुरुष्व मे ।
विशति तत्र यदैव विधुस्तदा
सखि ! सुखादहितं जहि तं द्रुतम् ॥५९॥
उदर एव धृतः किमुदन्वता
न विषमो वडवानलवद्विधुः ।
विषवदुज्झितमप्यमुना न स
स्मरहरः किममुं बुभुजे विभुः ॥६०॥
असितमेकसुराशितमप्यभून्न
पुनरेष विधुर्विशदं विषम् ।
अपि निपीय सुरैर्जनितक्षयं
स्वयमुदेति पुनर्नवमार्णवम् ॥६१॥
विरहिवर्गवधव्यसनाकुलं
कलय पापमशेषकलं विधुम् ।
सुरनिपीतसुधाकरपापकं
ग्रहविदो विपरीतकथाः कथम् ॥६२॥
विरहिभिर्बहुमानमवापि यः
स बहुलः खलु पक्ष इहाजनि ।
तदमितिः सकलैरपि यत्र तैः
व्यरचि सा च तिथिः किममाकृता ॥६३॥
स्वरिपुतीक्ष्णसुदर्शनविभ्रमात्
किमु विधुं ग्रसते स विधुंतुदः ।
निपतितं वदने कथमन्यथा
बलिकरम्भनिभं निजमुज्झति ॥६४॥
वदनगर्भगतं न निजेच्छया
शशिनमुज्झति राहुरसंशयम् ।
अशित एव गलत्ययमत्ययं
सखि ! विना गलनालबिलाध्वना ॥६५॥
ऋजुदृशः कथयन्ति पुराविदो
मधुभिदं किल राहुशिरश्छिदम् ।
विरहिमूर्धमिदं निगदन्ति न
क्व नु शशी यदि तज्जठरानलः ॥६६॥
स्मरसखौ रुचिभिः स्मरवैरिणा
मखमृगस्य यथा दलितं शिरः ।
सपदि संदधतुर्भिषजौ दिवः
सखि ! तथा तमसोऽपि करोतु कः ॥६७॥
नलविमस्तकितस्य रणे रिपोः
मिलति किं न कबन्धगलेन वा ।
मृतिभिया भृशमुत्पततस्तम्
आग्रहशिरस्तदसृग्दृढबन्धनम् ॥६८॥
सखि ! जरां परिपृच्छ तमः शिरः
सममसौ दधतापि कबन्धताम् ।
मगधराजवपुर्दलयुग्मवत्किम्
इति न व्यतिसीव्यति केतुना ॥६९॥
वद विधुंतुदमालि ! मदीरितैः
त्यजसि किं द्विजराजधिया रिपुम् ।
किमु दिवं पुनरेति यदीदृशः
पतित एष निषेव्य हि वारुणीम् ॥७०॥
दहति कण्ठमयं खलु तेन किं
गरुडवद्द्विजवासनयोज्झितः ।
प्रकृतिरस्य विधुंतुद ! दाहिका
मयि निरागसि का वद विप्रता ॥७१॥
सकलया कलया किल दंष्ट्रया
समवधाय यमाय विनिर्मितः ।
विरहिणीगणचर्वणसाधनं
विधुरतो द्विजराज इति श्रुतिः ॥७२॥
स्मरमुखं हरनेत्रहुताशनाज्
ज्वलदिदं चकृषे विधिना विधुः ।
बहुविधेन वियोगिवधैनसा
शशमिषादथ कालिकयाङ्कितः ॥७३॥
(द्विजपतिग्रसनाहितपातक
प्रभवकुष्ठसितीकृतविग्रहः ।
विरहिणीवदनेन्दुजिघत्सया
स्फुरति राहुरयं न निशाकरः ॥१॥)
इति विधोर्विविधोक्तिवगर्हणं
व्यवहितस्य वृथेति विमृश्य सा ।
अतितरां दधती विरहज्वरं
हृदयभाजमुपालभत स्मरम् ॥७४॥
हृदयमाश्रयसे यदि ममाकं
ज्वलयसीत्थमनङ्ग ! तदेव किम् ।
स्वयमपि क्षणदग्धनिजेन्धनः क्व
भवितासि हतारा ! हुताशवत् ॥७५॥
पुरभिदा गमितस्त्वमदृश्यतां
त्रिनयनत्वपरिप्लुतिशङ्कया ।
स्मर ! निरैष्यत कस्यचनापि न
त्वयि किमक्षिगते नयनैस्त्रिभिः ॥७६॥
सहचरोऽसि रतेरिति विश्रुतिः
त्वयि वसत्यपि मे न रतिः कुतः ।
अथ न संप्रति संगतिरस्ति वा-
मनुमृता न भवन्तमियं किल ॥७७॥
रतिवियुक्तमनात्मपरज्ञ ! किं
स्वमिव मामपि तापितवानसि ।
कथमतापभृतस्तव संगमा-
दितरथा हृदयं मम दह्यते ॥७८॥
अनुममार न मार ! कथं नु सा
रतिरतिप्रथितापि पतिव्रता ।
इयदनाथवधूवधपातकी
दयितयापि तयासि किमुज्झितः ॥७९॥
सुगत एव विजित्य जितेन्द्रियः
त्वदुरुकीर्तितनुं यदनाशयत् ।
तव तनूमवशिष्टवतीं ततः
समिति भूतमयीमहरद्धरः ॥८०॥
फलमलभ्यत यत्कुसुमैस्त्वया
विषमनेत्रमनङ्ग ! विगृह्णता ।
अहद नीतिरवाप्तभया ततो
न कुसुमैरपि विग्रहमिच्छति ॥८१॥
अपि धयन्नितरामरवत्सुधां
त्रिनयनात्कथमापिथ तां दशाम् ।
भण रतेरधरस्य रसादरात्
अमृतमाप्तघृणः खलु नापिबः ॥८२॥
भुवनमोहनजेन किमेनसा
तव बभूव परेत ! पिशाचता ।
यदधुना विरहाधमलीमसाम्
अभिभवन्भ्रमसि स्मर ! मद्विधाम् ॥८३॥
बत ददासि न मृत्युमपि स्मर !
स्खलति तेऽकृपया न धनुः करात् ।
अथ मृतोऽसि मृतेन च मुच्यते
न खलु मुष्टि रुरीकृतबन्धनः ॥८४॥
दृगुपहत्यपमृत्युविरूपताः
शमयतेऽपरनिर्जरसेविता ।
अतिशयान्ध्यवपुः क्षतिपाण्डुताः
स्मर ! भवन्ति भवन्त्यमुपासितुः ॥८५॥
स्मर ! नृशंसतमस्त्वमतो विधिः
सुमनसः कृतवान्भवदायुधम् ।
यदि धनुर्दृढमाशुगमायसं
तव सृजेत्त्रिजगत्प्रलयं व्रजेत् ॥८६॥
स्मररिपोरिव रोपशिखी पुरां
दहतु ते जगतामपि मा त्रयम् ।
इति विधिस्त्वदिषून्कुसुमानि किं
मधुभिरन्तरसिञ्चदनिर्वृतः ॥८७॥
विधिरनंशममेद्यमवेक्ष्य ते
जनमनः खलु लक्षमकल्पयत् ।
अपि स वज्रमदास्यत चेत्तदा
त्वदिषुभिर्वदलिष्यदसावपि ॥८८॥
अपि विधिः कुसुमानि तवाशुगान्
स्मर ! विधाय न निर्वृतिमाप्तवान् ।
अदित पञ्च हि ते स नियम्य तां
स्तदपि तैर्बत जर्जरितं जगत् ॥८९॥
उपहरन्ति न कस्य सुपर्वणः
सुमनसः कति पञ्च सुरद्रुमाः ।
तव तु हीनतया पृथगेकिकां
धिगियतापि न तेऽङ्ग ! विगर्हणा ॥९०॥
कुसुममप्यतिदुर्णयकारि ते
किमु वितीर्य धनुर्विधिरग्रहीत् ।
किमकृतैष तवैकतदास्पदे
द्वयमभूदधुना हि नलभ्रुवौ ॥९१॥
षड्टतवः कृपया स्वकमेककं
कुसुममक्रमनन्दितनन्दनाः ।
ददति षड्भवते कुरुते भवान्
धनुरिवैकमिषूनिवपञ्च तैः ॥९२॥
यदतनुस्त्वमिदं जगते हितं
क्व स मुनिस्तव यः सहते हतीः ।
विशिखमाश्रवणं परिपूर्ण चेद्
अविचलद्भुतमुज्झितुमीशिषे ॥९३॥
सह तया स्मर ! भस्म झटित्यभूः
पशुपतिं प्रति यामिषुमग्रहीः ।
ध्रुवमभूदधुना वितनोः शरः
तव पिकस्वर एव स पञ्चमः ॥९४॥
स्मर ! स मद्दुरितैरफलीकृतो
भगवतोऽपि भवद्दहनश्रमः ।
सुरहिताय हुतात्मतनुः पुनः
ननु जनुर्दिवि तत्क्षणमापिथ ॥९५॥
विरहिणो विमुखस्य विधूदये
शमनदिक्पवनः स न दक्षिणः ।
सुमनसो नमयन्नटनौ धनुः
तव तु बाहुरसौ यदि दक्षिणः ॥९६॥
किमु भवन्तमुमापतिरेककं
मदमुदान्धमयोगिजनान्तकम् ।
यदजयत्तत एव न गीयते
स भगवान्मदनान्धकमृत्युजित् ॥९७॥
त्वमिव कोऽपि परापकृतौ कृती
न ददृशे न च मन्मथ ! शुश्रुवे ।
स्वमदहो दहनाज्ज्वलतात्मना
ज्वलयितुं परिरभ्य जगन्ति यः ॥९८॥
त्वमुचितं नयनार्चिषि शंभुना
भुवनशान्तिकहोमहविः कृतः ।
तव वयस्यमपास्य मधुं मधुं
हतवता हरिणा बत किं कृतम् ॥९९॥
इति कियद्वचसैव भृशं प्रिया-
धरपिपासु तदाननमाशु तत् ।
अजनि पांशुमप्रियवाग्ज्वलन्
मदनशोषणबाणहतेरिव ॥१००॥
प्रियसखीनिवहेन सहाथ सा
व्यरचयद्गिरमर्धसमस्यया ।
हृदयमर्मणि मन्मथसायकैः
क्षततमा बहु भाषितुमक्षमा ॥१०१॥
अकरुणादव सूनशरादसून्
सहजयापदि धीरतयात्मनः ।
असव एव ममाद्य विरोधिनः
कथमरीन्सखि ! रक्षितुमात्थ माम् ॥१०२॥
हितगिरं न शृणोषि किमाश्रवे !
प्रसभमप्यव जीवितमात्मनः ।
सखि ! हिता यदि मे भवसीदृशी
मदरिमिच्छसि या मम जीवितम् ॥१०३॥
अमृतदीधितिरेष विदर्भज !
भजसि तापममुष्य किमंशुभिः ।
यदि भवन्ति मृताः सखि ! चन्द्रिकाः
शशमृतः क्व तदा परितप्यते ॥१०४॥
व्रज धृतिं त्यज भीतिमहेतुकाम्
अयमचण्डमरीचिरुदञ्चति ।
ज्वलयति स्फुटमातपमुर्मुरैः
अनुभवं वचसा सखि ! लुम्पसि ॥१०५॥
अयि ! शपे हृदयाय तवैव तद्
यदि वधोर्न रुचेरसि गोचरः ।
रुचिफलं सखि ! दृश्यत एव तज्
ज्वलयति त्वचमुल्ललयत्यसून् ॥१०६॥
विधुविरोधितिथेरभिधायिनीं
ननु न किं पुनरिच्छसि कोकिलाम् ।
सखि ! किमर्थगवेषणया गिरं
किरति सेयमनर्थमयीं मयि ॥१०७॥
हृदय एव तवास्ति स वल्लभः
तदपि किं दमयन्ति ! विषीदसि ।
हृदि परं न बहिः खलु वर्तते
सखि ! पयस्तत एव विषद्यते ॥१०८॥
स्फुटति हारमणौ मदनोष्मणा
हृदयमप्यनलंकृतमद्य ते ।
सखि ! हतास्मि तदा यदि हृद्यपि
प्रियतमः स मम व्यवधापितः ॥१०९॥
इदमुदीर्य तदैव मुमूर्च्छ सा
मनसि मूर्च्छितमन्मथपावका ।
क्व सहतामवलम्बलवच्छिदाम्
अनुपपत्तिमतीमतिदुःखिता ॥११०॥
अधित कापि मुखे सलिलं सखी
प्यधित कापि सरोजदलैः स्तनौ ।
व्यधित कापि हृदि व्यजनानिलं
न्यधित कापि हिमं सुतनौस्तनौ ॥१११॥
उपचचार चिरं मृदुशीतलैः
जलजनालमृणालजलादिभिः ।
प्रियसखीनिवहः स तथा क्रमाद्
इयमवाप यथा लघु चेतनाम् ॥११२॥
अथ कले ! कलय श्वसिति स्फुटं
चलति पक्ष्म चले ! परिभावय ।
अधरकम्पनमुन्नय मेनके !
किमपि जल्पति कल्पलते ! श्रृणु ॥११३॥
रचय चारुमति ! स्तनयोर्वृतिं
कलय केशिनि ! कैश्यमसंयतम् ।
अवगृहाण तरङ्गिणि ! नेत्रयोः
जलझराविति शुश्रुविरे गिरः ॥११४॥
कलकलः स तदालिजनाननाद्
उदलसद्विपुलस्त्वरितेरितैः ।
यमधिगम्य सुतालयमीयिवान्
धृतदरः स विदर्भपुरंदरः ॥११५॥
कन्यान्तः पुरबाधनाय यदधाकारान्न दोषा नृपं
द्वौ मन्त्रिप्रवरश्च तुल्यमगदंकारश्च तावूचतुः ।
देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं
स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥११६॥
ताभ्यामभूद्युगपदप्यभिधीयमानं
भेदव्यपाकृति मिथःप्रतिघातमेव ।
श्रोत्रे तु तस्य पपतुर्नृपतेर्न किंचिद्
भैम्यामनिष्टशतशङ्कितयाकुलस्य ॥११७॥
द्रुतविगमितविप्रयोगचिह्नामपि
तनयां नृपतिः पदप्रणम्राम् ।
अकलयदसमाशुगाधिमग्नां
झटिति पराशयवेदिनो हि विज्ञाः ॥११८॥
व्यतरदथ पिताशिषं सुतायै
नतशिरसे सहसोन्नमय्य मौलिम् ।
दयितमभिमतं स्वयंवरे ! त्वं गुणम्
अयमाप्नुहि वासरैः कियद्भिः ॥११९॥
तदनु स तनुजासखीरवादीत्
तुहिनऋतौ गत एव हीदृशीनाम् ।
कुसुममपि शरायते शरीरे तद्
उचितमाचरतोपचारमस्याः ॥१२०॥
कतिपयदिवसैर्वयस्यया वः
स्वयमभिलष्य वरिष्यते वरीयान् ।
क्रशिमशमनयानया तदाप्तुं रुचि-
रुचिताथ भवद्विधाविधाभिः ॥१२१॥
एवं यद्वदता नृपेण तनया नापृच्छि लज्जास्पदं
यन्मोहः स्मरभूरकल्पि वपुषः पाण्डुत्वतापादिभिः ।
पच्चाशीः कपटादवादि सदृशी स्यात्तत्र या सान्त्वना
तन्मत्यालिजनो मनोब्धिमतनोदानन्दमन्दाक्षयोः ॥१२२॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुबे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तुर्यः स्थैर्यविचारणप्रकरणभ्रातर्ययं तन्महा-
काव्येऽत्र व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥१२३॥
N/A
References : N/A
Last Updated : January 19, 2013
TOP