नैषधीयचरितम् - एकादश सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


लाभाय चेतसि धृतस्य वरस्य भीम-
भूमीन्द्रजा तदनु राजसभां बभाज ॥१॥
तन्निर्मलावयवभित्तिषु तद्विभूषा-
रत्नेषु च प्रतिफलन्निजदेहदम्भात् ।
दृष्ट्या परं न हृदयेन न केवलं तैः
सर्वात्मनैव सुतनौ युवभिर्ममज्जे ॥२॥
द्यामन्तरा वसुमतीमपि गाधिजन्मा
यद्यन्यमेव निरमास्यत नाकलोकम् ।
चारुः स यादृगभविष्यदभूद्विमानै-
स्तादृक्तदभ्रमवलोकितुमागतानाम् ॥३॥
कुर्वद्भिरात्मभवसौरभसंप्रदानं
भूपालचक्रचलचामरमारुतौघम् ।
आलोकनाय दिवि संचरतां सुराणां
तत्रार्चनाविधिरभूदधिवासधूपैः ॥४॥
तत्रावनीन्द्रचयचन्दनचन्द्रलेप-
नेपथ्यगन्धवहगन्धवहप्रवाहम् ।
आलीभिरापतदनङ्गशरानुसारी
संरुध्य सौरभमगाहत भृङ्गवर्गः ॥५॥
उत्तुङ्गमङ्गलमृदङ्गनिनादभङ्गी-
सर्वानुवादविधिबोधितसाधुमेधाः ।
सौधस्रजः प्लुतपताकतयाभिनिन्युः
मन्ये जनेषु निजताण्डवपण्डितत्वम् ॥६॥
संभाषणं भगवती सदृशं विधाय
वाग्देवता विनयवन्धुरकंधरायाः ।
ऊचे चतुर्दशजगज्जनतानमस्या
तन्नाश्रिता सदसि दक्षिणपक्षमस्याः ॥७॥
अभ्यागमन्मुखभुजामिह कोटिरेषा
येषां पृथक्कथनमब्दशतातिपाति ।
अस्यां वृणीष्व मनसा परिभाव्य कंचि-
द्यं चित्तवृत्तिरनुधावति तावकीना ॥८॥
एषां त्वदीक्षणरसादनिमेषतैषा
स्वाभाविकानिमिषतामिलिता यथाभूत् ।
आस्ये तथैव तव नन्वधरोपभोगैः
मुग्धे विधावमृतपानमपि द्विधाष्तु ॥९॥
एषां गिरेः सकलरत्नफलस्तरुः स
प्राग्दुग्धभूमिसुरभेः खलु पञ्चशाखः ।
मुक्ताफलं फलनसान्वयनाम तन्व-
न्नाभाति बिन्दुभिरिव च्छुरितः पयोधेः ॥१०॥
वक्त्रेन्दुसंनिधिनिमीलदलारविन्द-
द्वन्द्वभ्रमक्षममथाञ्जलिनात्ममौलौ ।
कृत्वापराधभयचञ्चलमीक्षमाणा
सान्यत्र गन्तुममरैः कृपयान्वमानि ॥११॥
तत्तद्विरागमुदितं शिबिकाधरस्थाः
साक्षाद्विदुः स्म न मनागपि यानधुर्याः ।
आसन्ननायकविषण्णमुखानुमेय-
भैमीविरक्तचरितानुमया तु जज्ञुः ॥१२॥
रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तो
विद्याधरेष्वधरतां वपुषैव भैम्याः ।
गन्धर्वसंसदि न गन्धमपि स्वरस्य
तस्या विमृश्य विमुखोऽजनि यानवर्गः ॥१३॥
दीनेषु सत्स्वपि कृताफलवित्तरक्षैः
यक्षैरदर्शि न मुखं त्रपयैव भैम्याम् ।
ते जानते स्म सुरशाखिपतिव्रतां किं
तां कल्पवीरुधमधिक्षिति नावतीर्णाम् ॥१४॥
जन्यास्ततः फणभृतामधिपः सुरौघान्
माञ्जिष्थमञ्जिमवगाहिपदोष्ठलक्ष्मीम् ।
तां मानसं निखिलवारिचयान्नवीना
हंसावलीमिव घना गमयांबभूवुः ॥१५॥
यस्या विभोरखिलवाङ्मयविस्तरोऽयम्
आख्यायते परिणतिर्मुनिभिः पुनः सा ।
उद्गत्वरामृतकरार्धपरार्ध्यभालां
बालामभाषत सभासततप्रगल्भा ॥१६॥
आश्लेषलग्नगिरिजाकुचकुङ्कुमेन
यः पट्टसूत्रपरिरम्भणशोणशोभः ।
यज्ञोपवीतपदवीं भजते स शंभोः
सेवासु वासुकिरयं प्रसितः सितश्रीः ॥१७॥
पाणौ फणी भजति कङ्कणभूयमैशे
सोऽयं मनोहरमणीरमणीयमुच्चैः ।
कोटीरबन्धनधनुर्गुणयोगपट्ट-
व्यापारपारगममुं भज भूतभर्तुः ॥१८॥
धृत्वैकया रसनयामृतमीश्वरेन्दो-
रप्यन्यया त्वदधरस्य रसं द्विजिह्वः ।
आस्वादयन्युगपदेष परं विशेषं
निर्णेतुमेतदुभयस्य यदि क्षमः स्यात् ॥१९॥
आशीविषेण रदनच्छददंशदानम्
एतेन ते पुनरनर्थतया न गण्यम् ।
बाधां विधातुमधरे हि न तावकीने
पीयूषसारधटिते घटतेऽस्य शक्तिः ॥२०॥
तद्विस्फुरत्फणविलोकनभूतभीतेः
कम्पं च वीक्ष्य पुलकं च ततोनु तस्याः ।
संजातसात्विकविकारधियः स्वभृत्यान्
नृत्यान्न्यषेधदुरगाधिपतिर्विलक्षाः ॥२१॥
तद्दर्शिभिः स्ववरणे फणिभिर्निराशैः
निश्वस्य तत्किमपि सृष्टमनात्मनीनम् ।
यत्तान्प्रयातुमनसोऽपि विमानवाहा
हा हा प्रतीपपवनाशकुनान्न जग्मुः ॥२२॥
ह्रीसंकुचत्फणगणादुरगप्रधानात्
तां राजसङ्घमनयन्त विमानवाहाः ।
संध्यानमद्दलकुलात्कमलाद्विनीय
कह्लारमिन्दुकिरणा इव हासभासम् ॥२३॥
देव्याभ्यधायि भव भीरु धृतावधाना
भूमीभुजो भजत भीमभुवो निरीक्षाम् ।
आलोकितामपि पुनः पिबतां दृशैनाम्
इच्छा विगच्छति न वत्सरकोटिभिर्वा ॥२४॥
लोकेशकेशवशिवानपि यश्चकार
शृङ्गारसान्तरभृशान्तरशान्तभावान् ।
पञ्चेन्द्रियाणि जगतामिषुपञ्चकेन
संक्षोभयन्वितनुतां वितनुर्मदं वः ॥२५॥
पुष्पेषुणा ध्रुवममूनिषुवर्षजप्ति-
हुंकारमन्त्रबलभस्मितशान्तशक्तीन् ।
शृङ्गारसर्गरसिकद्व्यणुकोदरि त्वं
द्वीपाधिपान्नयनयोर्नय गोचरत्वम् ॥२६॥
स्वादूदके जलनिधौ सवनेन सार्धं
भव्या भवन्तु तव वारिविहारलीलाः ।
द्वीपस्य तं पतिममुं भज पुष्करस्य
निस्तन्द्रपुष्करतिरस्करणक्षमाक्षि ॥२७॥
सावर्तभावभवदद्भुतनाभिकूपे
स्वर्भौममेतदुपवर्तनमात्मनैव ।
स्वाराज्यमर्जयसि न श्रियमेतदीयाम्
एतद्गृहे परिगृहाण शचीविलासम् ॥२८॥
देवः स्वयं वसति तत्र किल स्वयंभूः
न्यग्रोधमण्डलतले हिमशीतले यः ।
स वां विलोक्य निजशिल्पमनन्यकल्पं
सर्वेषु कारुषु करोतु करेण दर्पम् ॥२९॥
न्यग्रोधनादिव दिवः पतदातपादेः
न्यग्रोधमात्मभरधारमिवावरोहैः ।
तं तस्य पाकिफलनीलदलद्युतिभ्यां
द्वीपस्य पश्य शिखिपत्त्रजमातपत्रम् ॥३०॥
न श्वेततां चरतु वा भुवनेषु राज-
हंसस्य न प्रियतमा कथमस्य किर्तिः ।
चित्रं तु यद्विशदिमाद्वयमाविशन्ती
क्षीरं च नाम्बु च मिथः पृथगातनोति ॥३१॥
शूरेऽपि सूरिपरिषत्प्रथमाऋचितेऽपि
शृङ्गारभङ्गिमधुरेऽपि कलाकरेऽपि ।
तस्मिन्नवद्यमियमाप तदेव नाम
यत्कोमलं न किल तस्य नलेति नाम ॥३२॥
भ्रूवल्लिवेल्लितमथाकृतिभङ्गिमेषा
लिङ्गं चकार तदनादरणस्य विज्ञा ।
राज्ञोऽपि तस्य तदलाभजतापवह्निः
चिह्नीबभूव मलिनच्छविभूमधूमः ॥३३॥
राजान्तराभिमुखमिन्दुमुखीमथैनां
जन्या जनीं हृदयवेदितयैव निन्युः ।
अन्यानपेक्षितविधौ न खलु प्रधान-
वाचां भवत्यवसरः सति भव्यभृत्ये ॥३४॥
ऊचे पुनर्भगवती नृपमन्यमस्यै
निर्दिश्य दृश्यतमतावमताश्विनेयम् ।
आलोक्यतामयमये कुलशीलशाली
शालीनतानतमुदस्य निजास्यबिम्बम् ॥३५॥
एतत्पुरःपठदपश्रमबन्दिवृन्द-
वाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् ।
उत्पत्तुमस्ति पदमेव न मत्पदानाम्
अर्थोऽपि नाऋथपुनरुक्तिषु पातुकानाम् ॥३६॥
नन्वत्र हव्य इति विश्रुतनाम्नि शाकद्
वीपप्रशासिनि सुधीषु सुधीभवन्त्या ।
एतद्भुजाबिरुदबन्दिजयानयापि
किं रागि राजनि गिराजनि नान्तरं ते ॥३७॥
शाकः शुकच्छदसमच्छविपत्त्रमाल-
भारी हरिष्यति तरुस्तव तत्र चित्तम् ।
यत्पल्लवौघपरिरम्भविजृम्भितेन
ख्याता जगत्सु हरितो हरितः स्फुरन्ति ॥३८॥
स्पर्शेन तत्र किल तत्तरुपत्त्रजन्मा
यन्मारुतः कमपि संमदमादधाति ।
कौतूहलं तदनुभूय विधेहि भूयः
श्रद्धां पराशरपुराणकथान्तरेऽपि ॥३९॥
क्षीरार्णवस्तवकटाक्षरुचिच्छटानाम्
अन्वेतु तत्र विकटायितमायताक्षि ।
वेलावनीवनततिप्रतिबिम्बचुम्बी-
किर्मीरितोर्मिचयचारिमचापलाभ्याम् ॥४०॥
कल्लोलजालचलनोपनतेन पीवा
जीवातुनानवरतेन पयोरसेन ।
अस्मिन्नखण्डपरिमण्डलितोरुमूर्तिः
अध्यास्यते मधुभिदा भुजगाधिराजः ॥४१॥
त्वद्रूपसंपदवलोकनजातशङ्का
पादाब्जयोरिह कराङ्गुलिलालनेन ।
भूयाच्चिराय कमला कलितावधाना
निद्रानुबन्धमनुरोधयितुं धवस्य ॥४२॥
बालातपैः कृतकगैरिकतां कृतां द्विः
तत्रोदयाचलशिलाः परिशीलयन्तु ।
त्वद्विभ्रमभ्रमणजश्रमवारिधारि-
पादाङ्गुलीगलितया नखलाक्षयापि ॥४३॥
नॄणां करम्बितमुदामुदयन्मृगाङ्क-
शङ्कां सृजत्वनघजङ्घि परिभ्रमन्त्याः ।
तत्रोदयाद्रिशिखरे तव दृश्यमास्यं
कश्मीरसंभवसमारचनाभिरामम् ॥४४॥
एतेन ते विरहपावकमेत्य तावत्
कामं स्वनाम कलितान्वयमन्वभावि ।
अङ्गीकरोषि यदि तत्तव नन्दनाद्यैः
लब्धान्वयं स्वमपि नन्वयमातनोतु ॥४५॥
लक्ष्मीलतासमवलम्बभुजद्रुमेऽपि
वाग्देवतायतनमञ्जुमुखाम्बुजेऽपि ।
सामुत्र दूषणमजीगणदेकमेव
नाऋथी बभूव मघवा यदमुष्य देवः ॥४६॥
लक्ष्मीविलासवसतेः सुमनःसु मुख्यात्
अस्माद्विकृष्य भुवि लब्धगुणप्रसिद्धिम् ।
स्थानान्तरं तदनु निन्युरिमां विमान-
वाहाः पुनः सुरभितामिव गन्धवाहाः ॥४७॥
भूयस्ततो निखिलवाङ्मयदेवता सा
हेमोपमेयतनुभा समभाषतैनाम् ।
एतं स्वबाहुबहुवारनिवारितारिं
चित्ते कुरुष्व कुरुविन्दसकान्तिदन्ति ॥४८॥
द्वीपस्य पश्य दयितं द्युतिमन्तमेतं
क्रौञ्चस्य चञ्चलदृगञ्चलविभ्रमेण ।
यन्मण्डले स परिमण्डलसंनिवेशः
पाण्डुश्चकास्ति दधिमण्डपयोधिपूरः ॥४९॥
तत्राद्रिरस्ति भवदङ्घ्रिविहारयाची
क्रौञ्चः स्फुरिष्यति गुणानिव यस्त्वदीयान् ।
हंसावली कलकलप्रतिनादवाग्भिः
स्कन्देषुवृन्दविवरैर्विवरीतुकामः ॥५०॥
वैदर्भि दर्भदलपूजनयापि यस्य
गर्भे जनः पुनरुदेति न जातु मातुः ।
तस्यार्चनां रचय तत्र मृगाङ्कमौलेः
तन्मात्रदैवतजनाभिजनः स देशः ॥५१॥
चूडाग्रचुम्बिमिहिरोदयशैलशीलः
तेनाः स्तनंधयसुधाकरशेखरस्य ।
तस्मिन्सुवर्णरसभूषणरम्यहर्म्य-
भूभृद्धटा घटय हेमघटावतंसाः ॥५२॥
तस्मिन्मलिम्लुच इव स्मरकेलिजन्म-
घर्मोदबिन्दुमययौक्तिकमण्डनं ते ।
जालैर्मिलन्दधिमहोदधिपूरलोल-
कल्लोलचामरमरुत्तरुणि छिनत्तु ॥५३॥
एतद्यशो नवनवं खलु हंसवेषं
वेशन्तसंतरणदूरगमक्रमेण ।
अभ्यासमर्जयति संतरितुं समुद्रान्
गन्तुं च निःश्रममितः सकलान्दिगन्तान् ॥५४॥
तस्मिन्गुणैरपि भृते गणनादरिद्रैः
तन्वी न सा हृदयबन्धमवाप भूपे ।
दैवे निरुन्धति निबन्धनतां वहन्ति
हन्त प्रयासपरुषाणि न पौरुषाणि ॥५५॥
ते निन्यिरे नृपतिमन्यमिमाममुष्माद्
अंसावतंसशिबिकांशभृतः पुमांसः ।
रत्नाकरादिव तुषारमयूखलेखां
लेखानुजीविपुरुषा गिरिशोत्तमाङ्गम् ॥५६॥
एकैकमद्भुतगुणं धुतदूषणं च
हित्वान्यमन्यमुपगत्य परित्यजन्तीम् ।
एनां जगाद जगदञ्चितपादपद्मा
पद्मामिवाच्युतभुजान्तरविच्युतां सा ॥५७॥
ईशः कुशेशयसनाभिशये कुशेन
द्वीपस्य लाञ्छिततनोर्यदि वाञ्छितस्ते ।
ज्योतिष्मता सममनेन वनीघनासु
तत्त्वं विनोदय घृतोदतटीषु चेतः ॥५८॥
वातोर्मिदोलनचलद्दलमण्डलाग्र-
भिन्नाभ्रमण्डलगलज्जलजातसेकः ।
स्तम्बः कुशस्य भविताम्बरचुम्बिचूडः
चित्राय तत्र तव नेत्रनिपीयमानः ॥५९॥
पाथोधिमाथसमयोत्थितसिन्धुपुत्री-
पत्पङ्कजार्पणपवित्रशिलासु तत्र ।
पत्या सहावह विहारमयैर्विलासैः
आनन्दमिन्दुमुखि मन्दरकन्दरासु ॥६०॥
आरोहणाय तव सज्ज इवास्ति तत्र
सोपानशोभिवपुरश्मवलिच्छटाभिः ।
भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि-
क्षुब्धाचलः कनककेतकगोत्रगात्रि ॥६१॥
मन्था नगः स भुजगप्रभुवेष्टघृष्टि-
लेखावलद्धवलनिर्झरवारिधारः ।
त्वन्नेत्रयोः स्वभरयन्त्रितशीर्षशेष-
शेषाङ्गवेष्टिततनुभ्रममातनोतु ॥६२॥
एतेन ते स्तनयुगेन सुरेभकुम्भौ
पाणिद्वयेन दिविषह्रुमपल्लवानि ।
आस्येन स स्मरतु नीरधिमन्थनोत्थं
स्वच्छन्दमिन्दुमपि सुन्दरि मन्दराद्रिः ॥६३॥
वेदैर्वचोभिरखिलैः कृतकीर्तिरत्ने
हेतुं विनैव धृतनित्यपरार्थयत्ने ।
मीमांसयेव भगवत्यमृतांशुमौलौ
तस्मिन्महीभुजि तयानुमतिर्न भेजे ॥६४॥
तस्मादिमां नरपतेरपनीय तन्वीं
राजन्यमन्यमथ जन्यजनः स निन्ये ।
स्त्रीभावधावितपदामविमृश्य याच्ञाम्
अर्थी निवर्त्य विधनादिव वित्तवित्तम् ॥६५॥
देवी पवित्रितचतुर्भुजवामभागा
वागालपत्पुनरिमां गरिमाभिरामाम् ।
अस्यारिनिष्कृपकृपाणसनाथपाणेः
पाणिग्रहादनुगृहाण गणं गुणानाम् ॥६६॥
द्वीपस्य शाल्मल इति प्रथितस्य नाथः
पाथोधिना वलयितस्य सुराम्बुनायम् ।
अस्मिन्वपुष्मति न विस्मयसे गुणाब्धौ
रक्ता तिलप्रसवनासिकि नासि किं वा ॥६७॥
विप्रे धयत्युदधिमेकतमं त्रसत्सु
यस्तेषु पञ्चसु बिभाय न सीधुसिन्धुः ।
तस्मिन्ननेन च निजालिजनेन च त्वं
सार्धं विधेहि मधुरा मधुपानकेलीः ॥६८॥
द्रोणः स तत्र वितरिष्यति भाग्यलभ्य-
सौभाग्यकाऋमणमयीमुपदां गिरिस्ते ।
तद्द्वीपदीप इव दीप्तिभिरौषधीनां
चूडामिलज्जलदकज्जलदर्शनीयः ॥६९॥
तद्वीपलक्ष्मपृथुशाल्मलितूलजालैः
क्षोणीतले मृदुनि मारुतचारुकीर्णैः ।
लीलाविहारसमये चरणार्पणानि
योग्यानि ते सरससारसकोशमृद्वि ॥७०॥
एतद्गुणश्रवणकालविजृम्भमाण-
तल्लोचनाञ्चलनिकोचनसूचितस्य ।
भावस्य चक्ररुचितं शिबिकाभृतस्ते
तामेकतः क्षितिपतेरपरं नयन्तः ॥७१॥
तां भारती पुनरभाषत नन्वमुष्मिन्
काश्मीरपङ्कनिभलग्नजनानुरागे ।
श्रीखण्डलेपमयदिग्जयकीर्तिराजि-
राजद्भुजे भज महीभुजि भैमि भावम् ॥७२॥
द्वीपं द्विपाधिपति मन्दपदे प्रशास्ति
प्लक्षोपलक्षितमयं क्षितिपस्तदस्य ।
मेधातिथेस्त्वमुरसि स्फुर सृष्टसौख्या
साक्षाद्यथैव कमला यमलार्जुनारेः ॥७३॥
प्लक्षे महीयसि महीवलयातपत्रे
तत्रेक्षिते खलु तवापि मतिर्भवित्री ।
खेलां विधातुमधिशाखविलम्बिदोला-
लोलाखिलाङ्गजनताजनितानुरागे ॥७४॥
पीत्वा तवाधरसुधां वसुधासुधांशुः
न श्रद्दधातु रसमिक्षुरसोदवाराम् ।
द्वीपस्य तस्य दधतां परिवेषवेषं
सोऽयं चमत्कृतचकोरचलाचलाक्षि ॥७५॥
सूरं न सौर इव नेन्दुमवीक्ष्य तस्मिन्
नाश्नाति यस्तदितरत्रिदशानभिज्ञः ।
तस्यैन्दवस्य भवदास्यनिरीक्षयैव
दर्शे श्नतोऽपि न भवत्यवकीर्णिभावः ॥७६॥
उत्सर्पिणी न किल तस्य तरिङ्गिणी
या त्वन्नेत्रयोरहह तत्र विपाशि जाता ।
नीराजनाय नवनीरजराजिरास्ताम्
अत्राञ्जसानुरज राजनि राजमाने ॥७७॥
एतद्यशोभिरखिलेऽम्बुनि सन्तु हंसा
दुग्धीकृते तदुभयव्यतिभेदमुग्धाः ।
क्षीरे पयस्यपि पदे द्वयवाचिभूयं
नानार्थकोषविषयोऽद्य मृषोद्यमस्तु ॥७८॥
ब्रूमः किमस्य नलमप्यलमाजुहूषोः
कीर्तिं स चैष च समादिशतः स्म कर्तुम् ।
स्वद्वीपसीमसरिदीश्वरपूरपार-
वेलाचलाक्रमणविक्रममक्रमेण ॥७९॥
अम्भोजगर्भरुचिराथ विदर्भसुभ्रूः
तं गर्भरूपमपि रूपजितत्रिलोकम् ।
वैराग्यरूक्षमवलोकयति स्म भूपं
दृष्टिः पुरत्रयरिपोरिव पुष्पचापम् ॥८०॥
ते तां ततोऽपि चकृषुर्जगदेकदीपा-
दंसस्थलस्थितसमानविमानदण्डाः ।
चण्डद्युतेरुदयिनीमिव चन्द्रलेखां
सोत्कण्ठकैरववनीसुकृतप्ररोहाः ॥८१॥
भूपेषु तेषु न मनागपि दत्तचित्ता
विस्मेरया वचनदेवतया तयाथ ।
वाणीगुणोदयतृणीकृतपाणिवीणा-
निक्वाणया पुनरभाणि मृगेक्षणा सा ॥८२॥
यन्मौलिरत्नमुदितासि स एष जम्बू-
द्वीपस्त्वदर्थमिलितैर्युवभिर्विभाति ।
दोलायितेन बहुना भवभीतिकम्प्रः
कंदर्पलोक इव खात्पतितस्त्रुटित्वा ॥८३॥
विष्वग्वृतः परिजनैरयमन्तरीपैः
तेषामधीश इव राजति राजपुत्रि ।
हेमाद्रिणा कनकदण्डमहातपत्रः
कैलासरश्मिचयचामरचक्रचिह्नः ॥८४॥
एतत्तरुस्तरुणि राजति राजजम्बूः
स्थूलोपलानिव फलानि विमृश्य यस्याः ।
सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्ति-
यूथानि केन तरुमारुरुहुः पथेति ॥८५॥
जाम्बूनदं जगति विश्रुतिमेति मृत्स्ना
कृत्स्नापि सा तव रुचा विजितश्रि ।
यस्याः तज्जाम्बवद्रवभवास्य सुधाविधाम्बुः
जम्बूसरिद्वहति सीमनि कम्बुकण्ठि ॥८६॥
अस्मिञ्जयन्ति जगतीपतयः सहस्रम्
अस्रास्रुसार्द्ररिपुतद्वनितेषु तेषु ।
रम्भोरु चारु कतिचित्तव चित्तबिन्धि-
रूपान्निरूपय मुदाहमुदाहरामि ॥८७॥
प्रत्यर्थियौवतवतंसतमालमालोन्
मीलत्तमः प्रकरतस्करशौर्यसूर्ये ।
अस्मिन्नवन्तिनृपतौ गुणसंततीनां
विश्रान्तिधामनि मनो दमयन्ति किं ते ॥८८॥
तत्रानुतीरवनवासितपस्विविप्रा
शिप्रा तवोर्मिभुजया जलकेलिकाले ।
आलिङ्गनानि ददती भवता वयस्या
हास्यानुबन्धिरमणीयसरोरुहास्या ॥८९॥
अस्याधिशय्य पुरमुज्जयिनीं भवानी
जागर्ति या सुभगयौवतमौलिमाला ।
पत्याऽर्धकायघटनाय मृगाक्षि तस्याः
शिष्या भविष्यसि चिरं वरिवस्ययापि ॥९० ॥
निःशङ्कमङ्कुरिततां रतिवल्लभस्य
देवः स्वचन्द्रकिरणामृतसेचनेन ।
तत्रावलोक्य सुदृशां हृदयेषु रुद्रः
तद्देहदाहफलमाह स किं न विद्मः ॥९१॥
आगश्शतं विदधतोऽपि समिद्धकामा
नाधीयते परुषामक्षरमस्य वामाः ।
चान्द्री न तत्र हरमौलिशयालुरेका-
नध्यायहेतुतिथिकेतुरपैति लेखा ॥९२॥
भूपं व्यलोकत न दूरतरानुरक्तं
सा कुण्डिनावनिपुरंदरनन्दिनी तम् ।
अन्यानुरागविरसेन विलोकनाद्वा
जानामि सम्यगविलोकनमेव रम्यम् ॥९३॥
भैमीङ्गितानि शिबिकामधरे वहन्तः
साक्षान्न यद्यपि कथंचन जानते स्म ।
जज्ञुस्तथापि सविधस्थितसंमुखीन-
भूपालभूषणमणिप्रतिविम्बितेन ॥९४॥
भैमीमवापयत जन्यजनस्तदन्यं
गङ्गामिव क्षितितलं रधुवंशदीपः ।
गाङ्गेयपीतकुचकुम्भयुगां च हार-
चूडासमागमवशेन विभूषितां च ॥९५॥
तां मत्स्यलाञ्छनदराञ्छितचापभासा
नीराजितभ्रुवमभाषत भाषितेशा ।
व्रीडाजडे किमपि सूचय चेतसा चेत्
क्रीडारसं वहसि गौडविडौजसीह ॥९६॥
एतद्यशोभिरमलानि कुलानि भासां
तथ्यं तुषारकिरणस्य तृणीकृतानि ।
स्थाने ततो वसति तत्र सुधाम्बुसिन्धौ
रङ्कुस्तदङ्कुरवनीकवलाभिलाषात् ॥९७॥
आलिङ्गितः कमलवत्करकस्त्वयाऽयं
श्यामः सुमेरुशिस्वयेव नवः पयोदः ।
कन्दर्पमूर्धरुहमण्डनचम्पकस्र-
ग्दामत्वदङ्गरुचिकञ्चुकितश्चकास्तु ॥९८॥
एतेन संमुखमिलत्करिकुम्भमुक्ताः
कौक्षेयकाभिहतिभिर्विबभुर्विमुक्ताः ।
एतद्भुजोष्मभृशनिःसहया विकीर्णाः
प्रस्वेदबिन्दव इवारिनरेन्द्रलक्ष्म्या ॥९९॥
आश्चर्यमस्य ककुभामवधीनवाप-
दाजानुगाद्भुजयुगादुदितः प्रतापः ।
व्यापत्सदाशयविसारितसप्ततन्तु-
जन्मा चतुर्दश जगन्ति यशःपटश्च ॥१००॥
औदास्यसंविदवलम्बितशून्यमुद्रा-
मस्मिन्दृशोर्निपतितामवगम्य भैम्याः ।
स्वेनैव जन्यजनतान्यमजीगमत्तां
सुज्ञं प्रतीङ्गितविभावनमेव वाचः ॥१०१॥
एतां कुमारनिपुणां पुनरप्यभाणी-
द्वाणी सरोजमुखि निर्भरमारभस्व ।
अस्मिन्नसंकुचितपङ्कजसख्यशिक्षा-
निष्णातदृष्टिपरिरम्भविजृम्भितानि ॥१०२॥
प्रत्यर्थिपार्थिवपयोनिधिमाथमन्थ-
पृथ्वीधरः पृथुरयं मथुराधिनाथः ।
अश्मश्रुजातमनुयाति न शर्वरीशः
श्यामाङ्ककर्बुरवपुर्वदनाब्जमस्य ॥१०३॥
बालेऽधराधरितनैकविधप्रवाले
पाणौ जगद्विजयकार्मणमस्य पश्य ।
ज्याघातजेन रिपुराजकधूमकेतु-
तारायमाणमुपरज्य मणिं किणेन ॥१०४॥
एतद्भुजारणिसमुद्भवविक्रमाग्नि-
चिह्नं धनुर्गुणकिणः खलु धूमलेखा ।
जातं ययारिपरिषन्मशकाऋथयाश्रु-
विश्राणनाय रिपुदारदृगम्बुजेभ्यः ॥१०५॥
श्यामीकृता मृगमदैरिव माथुरीणां
धौतैः कलिन्दतनयामधिमध्यदेशम् ।
तत्राप्तकालियमहाह्रदनाभिशोभां
रोमावलीमिव विलोकयितासि भूमेः ॥१०६॥
गोवर्धनाचलकलापिचयप्रचार-
निर्वासिताहिनि घने सुरभिप्रसूनैः ।
तस्मिन्ननेन सह निर्विश निर्विशङ्कं
वृन्दावने वनविहारकुतूहलानि ॥१०७॥
भावी करः कररुहाङ्कुरकोरकोऽपि
तद्वल्लिपल्लवचये तव सौख्यलक्ष्यः ।
अन्तस्त्वदास्यहृतसारतुषारभानु-
शोकानुकारिकरिदन्तजकङ्कणाङ्कः ॥१०८॥
तज्जः श्रमाम्बु सुरतान्तमुदा नितान्त-
मुत्कण्टके स्तनतटे तव संचरिष्णुः ।
खञ्जन्प्रभञ्जनजनः पथिकः पिपासुः
पाता कुरङ्गमदपङ्किलमप्यशङ्कम् ॥१०९॥
पूजाविधौ मखभुजामुपयोगिनो ये
विद्वत्कराः कमलनिर्मलकान्तिभाजः ।
लक्ष्मीमनेन दधतेऽनुदिनं वितीर्णैः
ते हाटकैः स्फुटवराटकगौरगर्भाः ॥११०॥
वैरिश्रियं प्रतिनियुद्धमनाप्नुवन्यः
किंचिन्न तृप्यति धरावलयैकवीरः ।
स त्वामवाप्य निपतन्मदनेषुवृन्द-
स्यन्दीति तृप्यतु मधूनि पिबन्निवायम् ॥१११॥
तस्मादियं क्षितिपतिक्रमगम्यमान-
मध्वानमैक्षत नृपादवतारिताक्षी ।
तद्भावबोधबुधतां निजचेष्टयैव
व्याचक्षते स्म शिबिकानयने नियुक्ताः ॥११२॥
भूयोऽपि भूपमपरं प्रति भारती तां
त्रस्यच्चमूरुचलचक्षुषमाचचक्षे ।
एतस्य काशिनृपतेस्त्वमवेक्ष्य लक्ष्मी-
मक्ष्णोः सुखं जनय खञ्जनमञ्जुनेत्रे ॥११३॥
एतस्य सावनिभुजः कुलराजधानी
काशी भवोत्तरणधर्मतरिः स्मरारेः ।
यामागता दुरितपूरितचेतसोऽपि
पापं निरस्य चिरजं विरजीभवन्ति ॥११४॥
आलोक्य भाविविधिकर्तृकलोकसृष्टि-
कष्टानि रोदिति पुरा कृपयैव रुद्रः ।
नामेच्छयेति मिषमात्रमधत्त यत्तां
संसारतारणतरीमसृजत्पुरीं सः ॥११५॥
वाराणसी निविशते न वसुंधरायां
तत्र स्थितिर्मखभुजां भुवने निवासः ।
तत्तीर्थमुक्तवपुषामत एव मुक्तिः
स्वर्गात्परं पदमुदेतु मुदे तु कीदृक् ॥११६॥
सायुज्यमृच्छति भवस्य भवाब्धियाद-
स्तां पत्युरेत्य नगरीं नगराजपुत्र्याः ।
भूताभिधानपटुमद्यतनीमवाप्य
भीमोद्भवे भवतिभावमिवास्तिधातुः ॥११७॥
निर्विश्य निर्विरति काशिनिवासि भोगा-
न्निर्माय नर्म च मिथो मिथुनं यथेच्छम् ।
गौरीगिरीशघटनाधिकमेकभावं
शर्मोर्मिकञ्चुकितमञ्चति पञ्चतायाम् ॥११८॥
न श्रद्दधासि यदि तन्मम मौनमस्तु
कथ्या निजाप्ततमयैव तवानुभूत्या ।
न स्यात्कनीयसितरा यदि नाम काश्या
राजन्वती मुदिरमण्डनधन्वना भूः ॥११९॥
ज्ञानाधिकासि सुकृतान्यधिकाशि कुर्याः
कार्यं किमन्यकथनैरपि यत्र मृत्योः ।
एकं जनाय सतताभयदानमन्य-
द्धन्ये वहत्यमृतसत्त्रमवारितार्थि ॥१२०॥
भूभर्तुरस्य रतिरेधि मृगाक्षि मूर्ता
सोऽयं तवास्तु कुसुमायुध एव मूर्तः ।
भातं च ताविव पुरा गिरिशं विराद्ध-
माराद्धुमाशु पुरि तत्र कृतावतारौ ॥१२१॥
कामानुशासनशते सुतरामधीती
सोऽयं रहो नखपदैर्महतु स्तनौ ते ।
रुष्टाद्रिजाचरणकुङ्कुमपङ्कराग-
संकीर्णशंकरशशाङ्ककलाङ्ककारैः ॥१२२॥
पृथ्वीश एष नुदतु त्वदनङ्गताप-
मालिङ्ग्य कीर्तिचयचामरचारुचापः ।
सङ्ग्रामसंगतविरोधिशिरोधिदण्ड-
खण्डिक्षुरप्रशरसंप्रसरत्प्रतापः ॥१२३॥
वक्षस्त्वदुग्रविरहादपि नास्य दीर्णं
वज्रायते पतनकुण्ठतशत्रुशस्त्रम् ।
तत्कन्दकन्दलतया भुजयोर्न तेजो
वह्निर्नमत्यरिवधूनयनाम्बुनापि ॥१२४॥
किं न द्रुमा जगति जाग्रति लक्षसंख्या-
स्तुल्योपनीतपिककाकफलोपभोगाः ।
स्तुत्यस्तु कल्पविटपी फलसंप्रदानं
कुर्वन्स एष विबुधानमृतैकवृत्तीन् ॥१२५॥
अस्मै करं प्रवितरन्तु नृपा न कस्मा-
दस्यैव तत्र यदभूत्प्रतिभूः कृपाणः ।
दैवाद्यदा प्रवितरन्ति न ते तदैव
नेदंकृपा निजकृपाणकरग्रहाय ॥१२६॥
एतद्बलैः क्षणिकतामपि भूखुराग्र-
स्पर्शायुषां रयरसादसमापयद्भिः ।
दृक्पेयकेवलनभःक्रमणप्रवाहै-
र्वाहैरलुप्यत सहस्रदृगर्वगर्वः ॥१२७॥
तद्वर्णनासमय एव समेतलोक-
शोभावलोकनपरा तमसौ निरासे ।
मानी तया गुणविदा यदनादृतोऽसौ
तद्भूभृतां सदसि दुर्यशसेव मम्लौ ॥१२८॥
सानन्तानाप्यतेजःसखनिखिलमरुत्पार्थिवान्दिष्टभाज-
श्चित्तेनाशाजुषस्तान्सममसमगुणान्मुञ्चती गूढभावा ।
पारेवाग्वर्तिरूपं पुरुषमनु चिदम्भोधिमेकं शुभाङ्गी
निःसीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः ॥१२९॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
शृङ्गारामृतशीतगावयमगादेकादशस्तन्महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१३०॥

N/A

References : N/A
Last Updated : January 19, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP