नैषधीयचरितम् - नवमः सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


इतीयमक्षिभ्रुवविभ्रमेङ्गित-
स्फुटामनिच्छां विवरीतुमुत्सुका ।
तदुक्तिमात्रश्रवणेच्छयाऽशृणोद्
दिगीशसंदेशगिरं न गौरवात् ॥१॥
तदर्पितामश्रुतवद्विधाय
तां दिगीशसंदेशमयीं सरस्वतीम् ।
इदं तमुर्वीतलशीतलद्युतिं
जगाद वैदर्भनरेन्द्रनन्दिनी ॥२॥
मयाङ्ग ! पृष्टः कुलनामनी भवान्
अमू विमुच्यैव किमन्यदुक्तवान् ।
न मह्यमत्रोत्तरधारयस्य किं
ह्रियेऽपि सेयं भवतोऽधमर्णता ॥३॥
अदृश्यमाना क्वचिदीक्षिता क्वचिन्
ममानुयोगे भवतः सरस्वती ।
क्वचित्प्रकाशां क्वचिदस्फुटार्णसं
सरस्वतीं जेतुमनाः सरस्वतीम् ॥४॥
गिरः श्रुता एव तव श्रवः सुधाः
श्लथा भवन्नाम्नि तु न श्रुतिस्पृहा ।
पिपासुता शान्तिमुपैति वारिजा
न जातु दुग्धान्मधुनोऽधिकादपि ॥५॥
बिभर्ति वंशः कतमस्तमोपहं
भवादृशं नायकरत्नमीदृशम् ।
तमन्यसामान्यधियावमानितं
त्वया महान्तं बहु मन्तुमुत्सहे ॥६॥
इतीरयित्वा विरतां स तां पुनः
गिरानुजग्राहतरां नराधिपः ।
विरुत्य विश्रान्तवतीं तपात्यये
घनाघनश्चातकमण्डलीमिव ॥७॥
अये ! ममोदासितमेव जिह्वया
द्वयेऽपि तस्मिन्ननतिप्रयोजने ।
गरौ गिरः पल्लवनार्थलाघवे
मितं च सारं च वचो हि वाग्मिता ॥८॥
वृथा कथेयं मयि वर्णपद्धतिः
कयानुपूर्व्या समकेति केति च ।
क्षमे समक्षव्यवहारमावयोः
पदे विधातुं खलु युष्मदस्मदी ॥९॥
यदि स्वभावान्मम नोज्ज्वलं कुलं
ततस्तदुद्भावनमौचिती कुतः ।
अथावदातं तदहो विडम्बना
तथा कथा प्रेष्यतयोपसेदुषः ॥१०॥
इति प्रतीत्यैव मयावधीरिते
तवापि निर्बन्धरसो न शोभते ।
हरित्पतीनां प्रतिवाचिकं प्रति
श्रमो गिरां ते घटते हि संप्रति ॥११॥
तथापि निर्बन्धति ! तेऽथवा स्पृहाम्
इहानुरुन्धे मितया न किं गिरा ।
हिमांशुवंशस्य करीरमेव मां
निशम्य किं नासि फलेग्रहिग्रहा ॥१२॥
महाजनावारपरम्परेदृशी
स्वनाम नामाददते न साधवः ।
अतोऽभिधातुं न तदुत्सहे पुनः
जनः किलाचारमुचं विगायति ॥१३॥
अदोऽयमालप्य शिखीव शारदो
बभूव तूष्णीमहितापकारकः ।
अथास्यरागस्य दधा पदे पदे
वचांसि हंसीव विदर्भजाददे ॥१४॥
सुधांशुवंशाभरणं भवानिति
श्रुतेऽपि नापैति विशेषसंशयः ।
कियत्सु मौनं वितता कियत्सु वाङ्-
महत्यहो वञ्चनचातुरी तव ॥१५॥
मयापि देयं प्रतिवाचिकं न ते
स्वनाम मत्कर्णसुधामकुर्वते ।
परेण पुंसा हि ममापि संकथा
कुलाबलाचारसहासनासहा ॥१६॥
हृदाभिनन्द्य प्रतिबन्द्यनुत्तरः
प्रियागिरः सस्मितमाह स स्म ताम् ।
वदामि वामाक्षि ! परेषु मा क्षिप
स्वमीदृशं माक्षिकमाक्षिपद्वचः ॥१७॥
करोषि नेमं फलिनं मम श्रमं
दिशोऽनुगृह्णासि न कंचन प्रभुम् ।
त्वमित्थमर्हासि सुरानुपासितुं
रसामृतस्नानपवित्रया गिरा ॥१८॥
सुरेषु संदेशयसीदृशीं बहुं
रसस्रवेण स्तिमितां न भारतीम् ।
मदर्पिता दर्पकतापितेषु या
प्रयाति दावार्दितदाववृष्टिताम् ॥१९॥
यथा यथेह त्वदुपेक्षयानया
निमेषमप्येष जनो विलम्बते ।
रुषा शरव्यीकरणे दिवौकसां
तथा तथाद्य त्वरते रतेः पतिः ॥२०॥
इयच्चिरस्यावदधन्ति मत्पथे
किमिन्द्रनेत्राण्यशनिर्न निर्ममौ ।
धिगस्तु मां सत्वरकार्यमन्थरं
स्थितः परप्रेष्यगुणोऽपि यत्र न ॥२१॥
इदं निगद्य क्षितिभर्तरि स्थिते
तयाभ्यधायि स्वगतं विदग्धया ।
अधिस्त्रि तं दूतयतां भुवः स्मरं
मनो दधत्या नयनैपुणव्यये ॥२२॥
जलाधिपस्त्वामदिशन्मयि ध्रुवं
परेतराजः प्रजिधाय स स्फुटम् ।
मरुत्वतैव प्रहितोऽसि निश्चितं
नियोजितश्चोर्ध्वमुखेन तेजसा ॥२३॥
अथ प्रकाशं निभृतस्मिता सती
सतीकुलस्याभरणं किमप्यसौ ।
पुनस्तदाभाषणविभ्रमोन्मुखं
मुखं विदर्भाधिपसंभवा दधौ ॥२४॥
वृथापरीहास इति प्रगल्भता
न नेति च त्वादृशि वाग्विगर्हणा ।
भवत्यवज्ञा च भवत्यनुत्तरात्
अतः प्रदित्सुः प्रतिवाचमस्मि ते ॥२५॥
कथं नु तेषां कृपयापि वागसा-
वसावि मानुष्यकलाञ्छने जने ।
स्वभावभक्तिप्रवणं प्रतीश्वराः
कया न वाचा मुदमुद्गिरन्ति वा ॥२६॥
अहो महेन्द्रस्य कथं मयौचिती
सुराङ्गनासंगमशोभिताभृतः ।
ह्रदस्य हंसावलिमांसलश्रियो
बलाकयेव प्रबला विडम्बना ॥२७॥
पुरः सुरीणां भण केव मानवी
न यत्र तास्तत्र तु शोभिकापि सा ।
अकाञ्चनेऽकिंचन नायिकाङ्गके
किमारकूटाभरणेन न श्रियः ॥२८॥
यथा तथा नाम गिरः किरन्तु
ते श्रुती पुनर्मे बधिरे तदक्षरे ।
पृषत्किशारी कुरुतामसंगतां
कथं मनोवृत्तिमपि द्विपाधिपे ॥२९॥
अदो निगद्यैव नतास्यया तया
श्रुतौ लगित्वाभिहितालिरालपत् ।
प्रविश्य यन्मे हृदयं ह्रियाह तद्
विनिर्यदाकर्णय मन्मुखाध्वना ॥३०॥
बिभेमि चिन्तामपि कर्तुमीदृशीं
चिराय चित्तार्पितनैषधेश्वरा ।
मृणालतन्तुच्छिदुरा सतीस्थितिः
लवादपि त्रुट्यति चापलात्किल ॥३१॥
ममाशयः स्वप्नदशाज्ञयापि वा
नलं विलङ्घ्येतरमस्पृशद्यदि ।
कुतः पुनस्तत्र समस्तसाक्षिणी
निजैव बुद्धिर्विबुधैर्न पृच्छ्यते ॥३२॥
अपि स्वमस्वप्नमसूषुपन्नमी
परस्य दाराननवैतुमेव माम् ।
स्वयं दुरध्वार्णवनाविकाः कथं
स्पृशन्तु विज्ञाय हृदापि तादृशीम् ॥३३॥
अनुग्रहः केवलमेष मादृशे
मनुष्यजन्मन्यपि यन्मनो जने ।
स चेद्विधेयस्तदमी तमेव मे
प्रसद्य भिक्षां वितरीतुमीशताम् ॥३४॥
अपि द्रढीयः शृणु मत्प्रतिश्रुतं
स पीडयेत्पाणिमिमं न चेन्नृपः ।
हुताशनोद्बन्धनवारिकारितां
निजायुषस्तत्करवै स्ववैरिताम् ॥३५॥
निषिद्धमप्याचरणीयमापदि
क्रिया सती नावति यत्र सर्वथा ।
घनाम्बुना राजपथे हि पिच्छिले
क्वचिद्बुधैरप्यपथेन गम्यते ॥३६॥
स्त्रिया मया वाग्मिषु तेषु शक्यते
न जातु सम्यग्वितरीतुमुत्तरम् ।
तदत्र मद्भाषितसूत्रपद्धतौ
प्रबन्धृतास्तु प्रतिबन्धृता न ते ॥३७॥
निरस्य दूतः स्म तथा विसर्जितः
प्रियोक्तिरप्याह कदुष्णमक्षरम् ।
कुतूहलेनेव मुहुः कुहूरवं
विडम्ब्य डिम्भेन पिकः प्रकोपितः ॥३८॥
अहो मनस्त्वामनु तेऽपि तन्वते
त्वमप्यमीभ्यो विमुखीति कौतुकम् ।
क्व वा निधिर्निर्धनमेति किंच तं
स वाक्कवाटं घटयन्निरस्यते ॥३९॥
सहाखिलस्त्रीषु वहेऽवहेलया
महेन्द्ररागाद्गुरुमादरं त्वयि ।
त्वमीदृशि श्रेयसि संमुखेऽपि तं
पराङ्मुखी चन्द्रमुखि ! न्यवीवृतः ॥४०॥
दिवौकसं कामयते न मानवी
नवीनमश्रावि तवाननादिदम् ।
कथं न वा दुर्ग्रहदोष एष ते
हितेन सम्यग्गुरुणापि शाम्यते ॥४१॥
अनुग्रहादेव दिवौकसां नरो
निरस्य मानुष्यकमेति दिव्यताम् ।
अयोविकारे स्वरितत्वमिष्यते
कुतोऽयसां सिद्धरसस्पृशामपि ॥४२॥
हरिं परित्यज्य नलाभिलाषुका
न लज्जसे वा विदुषिब्रुवा कथम् ? ।
उपेक्षितेक्षोः करभाच्छमीरतात्
उरुं वदे त्वां करभोरु ! भोरिति ॥४३॥
विहाय हा सर्वसुपर्वनायकं
त्वया धृतः किं नरसाधिमभ्रमः ।
मुखं विमुच्य श्वसितस्य धारया
वृथैव नासापथधावनश्रमः ॥४४॥
तपोऽनले जुह्वति सूरयस्तनुः
दिवे फलायान्यजनुर्भविष्णवे ।
करे पुनः कर्षति सैव विह्वला
बलादिव त्वां बलसे न बालिशे ! ॥४५॥
यदि स्वमुद्बन्धुमना विना नलं
भवेर्भवन्तीं हरिरन्तरिक्षगाम् ।
दिविस्थितानां प्रथितः पतिस्ततो
हरिष्यति न्याय्यमुपेक्षते हि कः ॥४६॥
निवेक्ष्यसे यद्यनले नलोज्झिता
सुरे तदस्मिन्महती दया कृता ।
चिरादनेनार्थनयापि दुर्लभं
स्वयं त्वयैवाङ्ग ! यदङ्गमर्प्यते ॥४७॥
जितं जितं तत्खलु पाशपाणिना
विना नलं वारि यदि प्रवेक्ष्यसि ।
तदा त्वदाख्यान्बहिरप्यसूनसौ
पयःपतिर्वक्षसि वक्ष्यतेतराम् ॥४८॥
करिष्यसे यद्यत एव दूषणात्
उपायमन्यं विदुषी स्वमृत्यवे ।
प्रियातिथिः स्वेन गृहागता कथं
न धर्मराजं चरितार्थयिष्यसि ? ॥४९॥
निषेधवेषो विधिरेष तेऽथवा
तवैव युक्ता खलु वाचि वक्रता ।
विजृम्भितं यस्य किल ध्वनेरिदं
विदग्धनारीवदनं तदाकरः ॥५०॥
भ्रमामि ते भैमि ! सरस्वतीरस-
प्रवाहचक्रेषु निपत्य कत्यदः ।
त्रपामपाकृत्य मनाक्कुरु स्फुटं
कृतार्थनीयः कतमः सुरोत्तमः ॥५१॥
मतः किमैरावतकुम्भकैतव-
प्रगल्भपीनस्तनदिग्धवस्तव ।
सहस्रनेत्रान्न पृथग्मते मम
त्वदङ्गलक्ष्मीमवगाहितुं क्षमः ॥५२॥
प्रसीद तस्मै दमयन्ति ! संततं
त्वदङ्गसङ्गप्रभवैर्जगत्प्रभुः ।
पुलोमजालोचनतीक्ष्णकण्टकैः
तनुं घनामातनुतां स कण्टकैः ॥५३॥
अबोधि तत्त्वं दहनेऽनुरज्यसे
स्वयं खलु क्षत्रियगोत्रजन्मनः ।
विना तमोजस्विनमन्यतः कथं
मनोरथस्ते वलते विलासिनि ! ॥५४॥
त्वयैकसत्या तनुतापशङ्कया
ततो निवर्त्य न मनः कथंचन ।
हिमोपमा तस्य परीक्षणक्षणे
सतीषु वृत्तिः शतशो निरूपिता ॥५५॥
स धर्मराजः खलु धर्मशीलया
त्वयास्ति चित्तातिथितामवापितः ।
ममापि साधुः प्रतिभात्ययं क्रमः
चकास्ति योग्येन हि योग्यसंगमः ॥५६॥
अजातविच्छेदलवैः स्मरोद्भवैः
अगस्त्यभासा दिशि निर्मलत्विषि ।
धुतावधिं कालममृत्युशङ्किता
निमेषवत्तेन नयस्व केलिभिः ॥५७॥
शिरीषमृद्वी वरुणं किमीहसे
पयः प्रकृत्या मृदुवर्गवासवम् ।
विहाय सर्वान्वृणुते स्म किं न
सा निशापि शीतांशुमनेन हेतुना ॥५८॥
असेवि यस्त्यक्तदिवा दिवानिशं
श्रियः प्रियेणानणुरामणीयकः ।
सहामुना तत्र पयःपयोनिधौ
कृशोदरि ! क्रीड यथामनोरथम् ॥५९॥
इति स्फुटं तद्वचसस्तयादरात्
सुरस्पृहारोपविडम्बनादपि ।
कराङ्कसुप्तैककपोलकर्णया
श्रुतं च तद्भाषितमश्रुतं च तत् ॥६०॥
चिरादनध्यायमवाङ्मुखी मुखे
ततः स्म सा वासयते दमस्वसा ।
कृतायतश्वासविमोक्षणाथ तं
क्षणाद्बभाषे करुणं विचक्षणा ॥६१॥
विभिन्दता दुष्कृतिनीं मम श्रुतिं
दिगिन्द्रदुर्वाचिकसूचिसंचयैः ।
प्रयातजीवामिव मां प्रति स्फुटं
कृतं त्वयाप्यन्तकदूततोचितम् ॥६२॥
त्वदास्यनिर्यन्मदलीकदुर्यशोम्
अषीमयं सल्लिपिरूपभागिव ।
श्रुतं ममाविश्य भवद्दुरक्षरं
सृजत्यदः कीटवदुत्कटा रुजः ॥६३॥
तमालिरूचेऽथ विदर्भजेरिता
प्रगाढमौनव्रतयैकया सखी ।
त्रपां समाराधयतीयमन्यया
भवन्तमाह स्वरसज्ञया मया ॥६४॥
तमर्चितुं मद्वरणस्रजा नृपं
स्वयंवरः संभविता परेद्यवि ।
ममासुभिर्गन्तुमनाः पुरः सरैः
तदन्तरायः पुनरेष वासरः ॥६५॥
तदद्य विश्रम्य दयालुरेधि मे
दिनं निनीषामि भवद्विलोकिनी ।
नखैः किलाख्यायि विलिख्य पक्षिणा
तवैव रूपेण समः स मत्प्रियः ॥६६॥
दृशोर्द्वयी ते विधिनास्ति वञ्चिता
मुखस्य लक्ष्मीं तव यन्न वीक्षते ।
असावपि श्वस्तदिमां नलानने
विलोक्य साफल्यमुपैतु जन्मनः ॥६७॥
ममैव पाणौकरणेऽग्निसाक्षिकं
प्रसङ्गसंपादितमङ्ग ! संगतम् ।
न हा सहाधीतिधृतः स्पृहा कथं
तवार्यपुत्रीयमजर्यमर्जितुम् ? ॥६८॥
दिगीश्वरार्थे न कथंचन त्वया
कदर्थनीयास्मि कृतोऽयमञ्जलिः ।
प्रसद्यतां नाद्य निगाद्यमीदृशं
दृशौ दधे बाष्परयास्पदे भृशम् ॥६९॥
वृणे दिगीशानिति का कथा तथा
त्वयीति नेक्षे नलभामपीहया ।
सतीव्रतेऽग्नौ तृणयामि जीवितं
स्मरस्तु किं वस्तु तदस्तु भस्म यः ॥७०॥
न्यवेशि रत्नत्रितये जिनेन यः
स धर्मचिन्तामणिरुज्झितो यया ।
कपालिकोपानलभस्मनः कृते
तदेव भस्म स्वकुले स्तृतं तया ॥७१॥
निपीय पीयूषरसौरसीरसौ
गिरः स्वकंदर्पहुताशनाहुतीः ।
कृतान्तदूतं न तया यथोदितं
कृतान्तमेव स्वममन्यतादयम् ॥७२॥
स भिन्नमर्मापि तदर्तिकाकुभिः
स्वदूतधर्मान्न विरन्तुमैहत ।
शनैरशंसन्निभृतं विनिश्वसन्
विचित्रवाक्चित्रशिखण्डिनन्दनः ॥७३॥
दिवोधवस्त्वां यदि कल्पशाखिनं
कदापि याचेत निजाङ्गणालयम् ।
कथं भवेरस्य न जीवितेश्वरी
न मोघयाच्ञः स हि भीरु ! भूरुहः ॥७४॥
शिखी विधाय त्वदवाप्तिकामनां
स्वयंहुतस्वांशहविः स्वमूर्तिषु ।
क्रतुं विधत्ते यदि सार्वकामिकं
कथं स मिथ्यास्तु विधिस्तु वैदिकः ॥७५॥
सदा तदाशामधितिष्ठतः करं
वरं प्रदातुं चलिताद्बलादपि ।
मुनेरगस्त्याद्वृणुते स धर्मराड्
यदि त्वदाप्तिं भण का तदा गतिः ॥७६॥
क्रतोः कृते जाग्रति वेत्ति कः कति
प्रभोरपां वेश्मनि कामधेनवः ? ।
त्वदर्थमेकामपि याचते स चेत्
प्रचेतसः पाणिगतैव वर्तसे ॥७७॥
न संनिधात्री यदि विघ्नसिद्धये
पतिव्रता पत्युरनिच्छया शची ।
स एव राजव्रजवैशसात्कुतः
परस्परस्पर्धिवरः स्वयंवरः ? ॥७८॥
निजस्य वृत्तान्तमजानतां मिथो
मुखस्य रोषात्परुषाणि जल्पतः ।
मृधं किमच्छत्रकदण्डताण्डवं
भुजाभुजि क्षोणिभुजां दिदृक्षसे ॥७९॥
अपार्थयन्याजकफूत्कृतिश्रमं
ज्वलेद्रुषा चेद्वपुषा तु नानलः ।
अलं नलः कर्तुमनग्निसाक्षिकं
विधिं विवाहे तव सारसाक्षि ! कम् ? ॥८०॥
पतिंवरायाः कुलजं वरस्य वा
यमः कमप्याचरितातिथिं यदि ।
कथं न गन्ता विफलीभविष्णुतां
स्वयंवरः साध्वि ! समृद्धिमानपि ? ॥८१॥
अपः प्रति स्वामितयाऽपरः सुरः
स ता निषेधेद्यदि नैषधक्रुधा ।
नलाय लोभात्ततपाणयेऽपि ते
पिता कथं त्वां वद संप्रदास्यते ॥८२॥
इदं महत्तेऽभिहितं हितं मया
विहाय मोहं दमयन्ति ! चिन्तय ।
सुरेषु विघ्नैकपरेषु को नरः
करस्थमप्यर्थमवाप्तुमीश्वरः ? ॥८३॥
इमा गिरस्तस्य विचिन्त्य चेतसा
तथेति संप्रत्ययमाससाद सा ।
निवारितावग्रहनीरनिर्झरे
नभोनभस्यत्वमलम्भयदृशौ ॥८४॥
स्फुटोत्पलाभ्यामलिदंपतीव तद्
विलोचनाभ्यां कुचकुङ्मलाशया ।
निपत्य बिन्दू हृदि कज्जलाविलौ
मणीव नीलौ तरलौ विरेजतुः ॥८५॥
धुतापतत्पुष्पशिलीमुखाशुगैः
शुचेस्तदासीत्सरसी रसस्य सा ।
रयाय बद्धादरयाश्रुधारया
सनालनीलोत्पललीललोचना ॥८६॥
अथोद्भ्रमन्ती रुदती गतक्षमा
ससंभ्रमा लुप्तरतिः स्खलन्मतिः ।
व्यधात्प्रियप्राप्तिविधातनिश्चयान्
मृदूनि दूना परिदेवतानि सा ॥८७॥
त्वरस्व पञ्चेषुहुताशनात्मनः
तनुष्व मद्भस्ममयं यशश्चयम् ।
विधे ! परेहाफलभक्षणव्रती
पताद्य तृष्यन्नसुभिर्ममाफलैः ॥८८॥
भृशं वियोगानलतप्यमान !
किं विलीयसे न त्वमयोमयं यदि ।
स्मरेषुभिर्भेद्य ! न वज्रमप्यसि
ब्रवीषि न स्वान्त ! कथं न दीर्यसे ॥८९॥
विलम्बसे जीवित  ! किं द्रव द्रुतं
ज्वलत्यदस्ते हृदयं निकेतनम् ।
जहासि नाद्यापि मृषा सुखासिकाम्
अपूर्वमालस्यमिदं तवेदृशम् ॥९०॥
दृशौ ! मृषा पातकिनो मनोरथाः
कथं पृथू वामपि विप्रलेभिरे ।
प्रियश्रियः प्रेक्षणघाति पातकं
स्वमश्रुभिः क्षालयतं शतं समाः ॥९१॥
प्रियं न मृत्युं न लभे त्वदीप्सितं
तदेव न स्यान्मम यत्त्वमिच्छसि ।
वियोगमेवेच्छ मनः ! प्रियेण मे
तव प्रसादान्न भवत्वसौ मम ॥९२॥
न काकुवाक्यैरतिवाममङ्गजं
द्विषत्सु याचे पवनं तु दक्षिणम् ।
दिशापि मद्भस्म किरत्वयं तया
प्रियो यया वैरविधिर्वधावधिः ॥९३॥
अमूनि गच्छन्ति युगानि न क्षणः
कियत्सहिष्ये न हि मृत्युरस्ति मे ।
स मां न कान्तः स्फुटमन्तरुज्झिता
न तं मनस्तच्च न कायवायवः ॥९४॥
मदुग्रतापव्ययशक्तशीकरः
सुराः ! स वः केन पपे कृपार्णवः ।
उदेति कोटिर्न मुदे मदुत्तमा
किमाशु संकल्पकणश्रमेण वः ॥९५॥
ममैव वाहर्दिनमश्रुदुर्दिनैः
प्रसह्य वर्षासु ऋतौ प्रसञ्जिते ।
कथं नु शृण्वन्तु सुषुप्य देवता
भवत्वरण्येरुदितं न मे गिरः ॥९६॥
इयं न ते नैषध ! दृक्पथातिथिः
त्वदेकतानस्य जनस्य यातना ।
ह्रदे ह्रदे हा न कियद्गवेषितः
स वेधसाऽगोपि खगोऽपि वक्ति यः ॥९७॥
ममापि किं नो दयसे दयाघन !
त्वदङ्घ्रिमग्नं यदि वेत्थ मे मनः ।
निमज्जयन्संतमसे पराशयं
विधिस्तु वाच्यः क्व तवागसः कथा ? ॥९८॥
कथावशेषं तव सा कृते गते-
त्युपैष्यति श्रोत्रपथं कथं न ते ? ।
दयाणुना मां समनुग्रहीप्यसे
तदापि तावद्यदि नाथ ! नाधुना ॥९९॥
ममादरीदं विदरीतुमान्तरं
तदर्थिकल्पद्रुम ! किंचिदर्थये ।
भिदां हृदि द्वारमवाप्य मा स मे
हतासुभिः प्राणसमः समं गमः ॥१००॥
इति प्रियाकाकुभिरुन्मिषन्भृशं
दिगीशदूत्येन हृदि स्थिरीकृतः ।
नृपं स योगेऽपि वियोगमन्मथः
क्षणं तमुद्भ्रान्तमजीजनत्पुनः ॥१०१॥
महेन्द्रदूत्यादि समस्तमात्मनः
ततः स विस्मृत्य मनोरथस्थितैः ।
क्रियाः प्रियाया ललितैः करम्बिता
वितर्कयन्नित्थमलीकमालपत् ॥१०२॥
अयि प्रिये ! कस्य कृते विलप्यते
विलिप्यते हा मुखमश्रुबिन्दुभिः ।
पुरस्त्वयालोकि नमन्नयं न किं
तिरश्चलल्लोचनलीलया नलः ॥१०३॥
चकास्ति बिन्दुच्युतकातिचातुरी
घनास्रुबिन्दुस्रुतिकैतवात्तव ।
मसारताराक्षि ! ससारमात्मना
तनोषि संसारमसंशयं यतः ॥१०४॥
अपास्तपाथोरुहि शायितं करे
करोषि लीलाकमलं किमाननम् ।
तनोषि हारं कियदस्रुणः स्रवैः
अदोषनिर्वासितभूषणे हृदि ॥१०५॥
दृशोरमङ्गल्यमिदं मिलज्जलं
करेण तावत्परिमार्जयामि ते ।
अथापराधं भवदङ्घ्रिपङ्कजद्
वयीरजोभिः सममात्ममौलिना ॥१०६॥
मम त्वदच्छाङ्घ्रिनखामृतद्युतेः
किरीमाणिक्यमयूखमञ्जरी ।
उपासनामस्य करोतु रोहिणी
त्यज त्यजाकारणरोषणे ! रुषम् ॥१०७॥
तनोषि मानं मयि चेन्मनागपि
त्वयि श्रये तद्बहुमानमानतः ।
विनम्य वक्रं यदि वर्तसे कियन्
नमामि ते चण्डि ! तदा पदावधि ॥१०८॥
प्रभुत्वभूम्नानुगृहाण वा न वा
प्रणाममात्राधिगमेऽपि कः श्रमः ? ॥१०९॥
स्मरेषुमाथं सहसे मृदुः कथं
हृदि द्रढीयः कुचसंवृते तव ।
निपत्य वैसारिणकेतनस्य वा
व्रजन्ति बाणा विमुखोत्पतिष्णुताम् ॥११०॥
स्मितस्य संभावय सृक्वणा कणान्
विधेहि लीलाचलमञ्चलं भ्रुवः ।
अपाङ्गरथ्यापथिकीं च हेलया
प्रसद्य संधेहि दृशं ममोपरि ॥१११॥
समापय प्रावृषमस्रुविप्नुषां
स्मितेन विश्राणय कौमुदीमुदः ।
दृशावितः खेलतु खञ्जनद्वयी
विकासि पङ्केरुहमस्तु ते मुखम् ॥११२॥
सुधारसोद्वेलनकेलिमक्षर-
स्रजा सृजान्तर्मम कर्णकूपयोः ।
दृशौ मदीये मदिराक्षि ! कारय
स्मितश्रिया पायसपारणाविधिम् ॥११३॥
ममासनार्धे भव मण्डनं न न
प्रिये ! मदुत्सङ्गविभूषणं भव ।
अहं भ्रमादालपमङ्ग ! मृष्यतां
विना ममोरः कतमत्तवासनम् ॥११४॥
अधीतपञ्चाशुगबाणवञ्चने !
स्थिता मदन्तर्बहिरेषि चेदुरेः ।
स्मराशुगेभ्यो हृदयं बिभेतु न
प्रविश्य तत्त्वन्मयसंपुटे मम ॥११५॥
परिष्वजस्वानवकाशबाणता
स्मरस्य लग्ने हृदयेद्वयेऽस्तु नौ ।
दृढा मम त्वत्कुचयोः कठोरयोः
उरस्तटीयं परिचारिकोचिता ॥११६॥
तवाधराय स्पृहयामि यन्मधु-
स्रवैः श्रवः साक्षिकमाक्षिका गिरः ।
अधित्यकासु स्तनयोस्तनोतु ते
ममेन्दुलेखाभ्युदयाद्भ्रुतं नखः ॥११७॥
न वर्तसे मन्मथनाटिका कथं
प्रकाशरोमावलिसूत्रधारिणी ।
तवाङ्गहारे रुचिमेति नायकः
शिखामणिश्च द्विजराड्विदूषकः ॥११८॥
शुभाष्टवर्गस्त्वदनङ्गजन्मनः
तवाधरेऽलिख्यत यत्र लेखया ।
मदीयदन्तक्षतराजिरञ्जनैः
स भूर्जतामर्जतु बिम्बपाटलः ॥११९॥
गिरानुकम्पस्व दयस्व चुम्बनैः
प्रसीद शुश्रूषयितुं मया कुचौ ।
निशेव चान्द्रस्य करोत्करस्य
यन्मम त्वमेकासि नलस्य जीवितम् ॥१२०॥
मुनिर्यथात्मानमथ प्रबोधवान्
प्रकाशयन्तं स्वमसावबुध्यत ।
अपि प्रपन्नां प्रकृतिं विलोक्य ताम्
अवाप्तसंस्कारतयासृजद्गिरः ॥१२१॥
अये ! मयात्मा किमनिह्नुतीकृतः
किमत्र मन्ता स तु मां शतक्रतुः ।
पुरः स्वभक्त्याथ नमन्ह्रियाविलो
विलोकिताहे न तदिङ्गितान्यपि ॥१२२॥
स्वनाम यन्नाम मुधाभ्यधामहो
महेन्द्रकार्ये महदेतदुज्झितम् ।
हनूमदाद्यैर्यशसा मया पुनर्द्विषां
हसैर्दूत्यपथः सितीकृतः ॥१२३॥
धियात्मनस्तावदचारु नाचरं
परस्तु तद्वेद स यद्वदिष्यति ।
जनावनायोद्यमिनं जनार्दनं
क्षये जगज्जीवपिबं शिवं वदन् ॥१२४॥
स्फुटत्पदः किं हृदयं त्रपाभराद्
यदस्य शुद्धिर्विबुधैर्विबुध्यताम् ।
विदन्तु ते तत्त्वमिदं तु दन्तुरं
जनानने कः करमर्पयिष्यति ॥१२५॥
मम श्रमश्चेतनयानया फली
बलीयसालोपि च सैव वेधसा ।
न वस्तु दैवस्वरसाद्विनाश्वरं
सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः ॥१२६॥
इति स्वयं मोहमहोर्मिनिर्मितं
प्रकाशनं शोचति नैषधे निजम् ।
तथाव्यथामग्नतदुद्दिधीर्षया
दयालुरागाल्लघु हेमहंसराट् ॥१२७॥
नलं स तत्पक्षरवोर्ध्ववीक्षिणं
स एष पक्षीति भणन्तमभ्यधात् ।
नयादयैनामति मा निराशताम्
असून्विहातेयमतः परं परम् ॥१२८॥
सुरेषु पश्यन्निजसापराधताम्
इयत्प्रयस्यापि तदर्थसिद्धये ।
न कूटसाक्षीभवनोचितो भवान्
सतां हि चेतः शुचितात्मसाक्षिका ॥१२९॥
इतीरिणापृच्छय नलं विदर्भजाम्
अपि प्रयातेन खगेन सान्त्वितः ।
मृदुर्बभाषे भगिनीं दमस्य स
प्रणम्य चित्तेन हरित्पतीन्नृपः ॥१३०॥
ददेऽपि तुभ्यं कियतीः कदर्थनाः
सुरेषु रागप्रसवावकेशिनीः ।
अदम्भदूत्येन भजन्तु वा दयां
दिशन्तु वा दण्डममी ममागसा ॥१३१॥
अयोगजामन्वभवं न वेदनां
हिताय मेऽभूदियमुन्मदिष्णुता ।
उदेति दोषादपि दोषलाघवं
कृशत्वमज्ञानवशादिवैनसः ॥१३२॥
तवेत्ययोगस्मरपावकोऽपि मे
कदर्थनात्यर्थतयाऽगमद्दयाम् ।
प्रकाशमुन्माद्य यदद्य कारयन्
मयात्मनस्त्वामनुकम्पते स्म सः ॥१३३॥
अमी समीहैकपरास्तवामराः
स्वकिंकरं मामपि कर्तुमीशिषे
विचार्य कार्यं सृज मा विधान्मुधा
कृतानुतापस्त्वयि पार्ष्णिविग्रहम् ॥१३४॥
उदासितेनैव मयेदमुद्यसे
भिया न तेभ्यः स्मरतानवान्न वा ।
हितं यदि स्यान्मदसुव्ययेन ते
तदा तव प्रेमणि शुद्धिलब्धये ॥१३५॥
इतीरितैर्नैषधसूनृतामृतैः
विदर्भजन्मा भृशमुल्ललास सा ।
ऋतोरधिश्रीः शिशिरनुजन्मनः
पिकस्वरैर्दूरविकस्वरैर्यथा ॥१३६॥
नलं तदावेत्य तमाशये निजे
घृणां विगानं च मुमोच भीमजा ।
जुगुप्समाना हि मनो धृतं तदा
सतीधिया दैवतदूतधावि सा ॥१३७॥
मनोभुवस्ते भविनां मनः पिता
निमज्जयन्नेनसि तन्न लज्जसे ।
अमुद्रि सत्पुत्रकथा त्वयेति सा
स्थिता सती मन्मथनिन्दिनी धिया ॥१३८॥
प्रसूनमित्येव तदङ्गवर्णना
न सा विशेषात्कतमत्तदित्यभूत् ।
तदा कदम्बं तदवर्णि लोमभिः
मुदस्रुणा प्रावृषि हर्षमागतैः ॥१३९॥
मयैव संबोध्य नलं व्यलापि यत्
स्वमाह मद्बुद्धमिदं विमृश्य तत् ।
असाविति भ्रान्तिमसाद्दमस्वसुः
स्वभाषितस्वोद्भ्रमविभ्रमक्रमः ॥१४०॥
विदर्भराजप्रभवा ततः परं
त्रपासखी वक्तुमलं न वा नलम् ।
पुरस्तमूचेऽभिमुखं यदत्रपा
ममज्ज तेनैव महाह्रदे ह्रियः ॥१४१॥
यदापवार्यापि न दातुमुत्तरं
शशाक सख्याः श्रवसि प्रियस्व सा ।
विहस्य सख्येव तमव्रवीत्तदा
ह्रियाऽधुना मौनधना भवत्प्रिया ॥१४२॥
पदातिथेयाँल्लिखितस्य ते स्वयं
वितन्वती लोचननिर्झरानियम् ।
जगाद यां सैव मुखान्मम त्वया
प्रसूनवाणोपनिषन्निशम्यताम् ॥१४३॥
असंशयं स त्वयि हंस एव मां
शशंस न त्वद्विरहाप्तसंशयाम् ।
क्व चन्द्रवंशस्य वतंस ! मद्वधान्
नृशंसता संभविनी भवादृशे ॥१४४॥
जितस्तवयास्येन विधुः स्मरः श्रिया
कृतप्रतिज्ञौ मम तौ वधे कुतः ।
तवेति कृत्वा यदि तज्जितं मया
न मोघसङ्कल्पधराः किलामराः ॥१४५॥
निजांशुनिर्दग्धमदङ्गभस्मभिः
मुधा विधुर्वाञ्छति लाञ्छनोन्मृजाम् ।
त्वदास्यतां यास्यति तावतापि किं
वधूवधेनैव पुनः कलङ्कितः ॥१४६॥
प्रसीद यच्छ स्वशरान्मनोभुवे
स हन्तु मां तैर्धुतकौसुमाशुगः ।
त्वदेकचित्ताहमसून्विमुञ्चती
त्वमेव भूत्वा तृणवज्जयामि तम् ॥१४७॥
श्रुतिः सुराणां गुणगयनी यदि
त्वदङ्घ्रिमग्नस्य जनस्य किं ततः ।
स्तवे रवेरप्सु कृताप्लवैः कृते
न मुद्वती जातु भवेत्कुमुद्वती ॥१४८॥
कथासु शिष्यै वरमद्य न ध्रिये
ममावगन्तासि न भावमन्यथा ।
त्वदर्थमुक्तासुतया सुनाथ ! मां
प्रतीहि जावाभ्यधिक ! त्वदेकिकाम् ॥१४९॥
महेन्द्रहेतेरपि रक्षणं भयाद्
यदर्थिसाधारणमस्त्रभृद्द्रतम् ।
प्रसूनबाणादपि मामरक्षतः
क्षतं तदुच्चैरवकीर्णिनस्तव ॥१५०॥
तवास्मि मां धातुकमप्युपेक्षसे
मृषामरं हाऽमरगौरवात्स्मरम् ।
अवेहि चण्डालमनङ्गमङ्ग ! तं
स्वकाण्डकारस्य मघोः सखा हि सः ॥१५१॥
लघौ लघावेव पुरः परे बुधैः
विधेयमुत्तेजनमात्मतेजसः ।
तृणे तृणेढि ज्वलनः खलु ज्वलन्
क्रमात्करीषद्रुमकाण्डमण्डलम् ॥१५२॥
सुरापराधस्तव वा कियानयं
स्वयंवरायामनुकम्प्रता मयि ।
गिरापि वक्ष्यन्ति मखेषु तर्पणाद्
इदं न देवा मुखलज्जयैव ते ॥१५३॥
व्रजन्तु ते तेऽपि वरं स्वयंवरं
प्रसाद्य तानेव मया वरिष्यसे ।
न सर्वथा तानपि न स्पृशेद्दया
न तेऽपि तावन्मदनस्त्वमेव वा ॥१५४॥
इतीयमालेख्यगतेऽपि वीक्षिते
त्वयि स्मरव्रीडसमस्ययानया ।
पदे पदे मौनमयान्तरीपिणी
प्रवर्तिता सारघसारसारणी ॥१५५॥
चण्डालस्ते विषामविशिखः स्पृश्यते दृश्यते न
ख्यातोऽनङ्गस्त्वयि जयति यः किंनु कृत्ताङ्गुलीकः ।
कृत्वा मित्त्रं मधुमधिवनस्थानमन्तश्चरित्वा
सख्याः प्राणान्हरति हरितस्त्वद्यशस्तज्जुषन्ताम् ॥१५६॥
अथ भीमभुवैव रहोऽभिहितां
नतमौलिरपत्रपया स निजाम् ।
अमरैः सह राजसमाजगतिं
जगतीपतिरभ्युपगत्य ययौ ॥१५७॥
श्वस्तस्याः प्रियमाप्तुसुद्धुरधियो धाराः सृजन्त्या रया-
न्नम्रोन्नम्रकपोलपालिपुलकैर्वेतस्वतीरस्रुणः ।
चत्वारः प्रहराः स्मरार्तिभिरभूत्सापि क्षपा दुःक्षया
तत्तस्यां कृपयाखिलैव विधिना रात्रिस्त्रियामा कृता ॥१५८॥
तदखिलमिह भूतं भूतगत्या जगत्याः
पतिरभिलपति स्म स्वात्मदूतत्वतत्त्वम् ।
त्रिभुवनजनयावद्दृत्तवृत्तान्तसाक्षा-
त्कृतिकृतिषु निरस्तानन्दमिन्द्रादिषु द्राक् ॥१५९॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
संदृब्धार्णववर्णनस्य नवमस्तस्य व्यरंसीन्महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१६०॥

N/A

References : N/A
Last Updated : January 19, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP