नैषधीयचरितम् - सप्तदश सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


अथारभ्य वृथाप्रायं धरित्रीधावनश्रमम् ।
सुराः सरस्वदुल्लोललीला जग्मुर्यथागतम् ॥१॥
भैमीं पत्ये भुवस्तस्मै चिरं चित्ते धृतामपि ।
विद्यामिव विनीताय न विषेदुः प्रदाय ते ॥२॥
कान्तिमन्ति विमानानि भेजिरे भासुराः सुराः ।
स्फटिकाद्रेस्तटानीव प्रतिबिम्बा विवस्वतः ॥३॥
जवाज्जातेन वातेन बलाकृष्टबलाहकैः ।
श्Vअसनात्स्वस्य शीघ्रत्वं रथैरेषामिवाकथि ॥४॥
कमाद्दवीयसां तेषां तदानीं समदृश्यत ।
स्पष्टमष्टगुणैश्वर्यात्पर्यवस्यन्निवाणिमा ॥५॥
ततान विद्युता तेषां रथे पीतपताकताम् ।
लब्धकेतुशिखोल्लेखा लेखा जलमुचः क्वचित् ॥६॥
पुनःपुनर्मिलन्तीषु पथि पाथोदपङ्क्तिषु ।
नाकनाथरथालम्बि बभूवाभरणं धनुः ॥७॥
जले जलदजालानां वज्रितज्रानुबिम्बनैः ।
जाने तत्कालजैस्तेषां जाताशनिसनाथता ॥८॥
स्फुटं सावर्णिवंश्यानां कुलच्छत्रं महीभुजाम् ।
चक्रे दण्डभृतश्चुम्बन्दण्डश्चण्डरुचिं क्वचित् ॥९॥
नलभीमभुवोः प्रेम्णि विस्मिताया दधौ दिवः ।
पाशिपाशः शिरःकम्पस्रस्तभूषश्रवःश्रियम् ॥१०॥
पवनस्कन्धमारुह्य नृत्यत्तरकरः शिखी ।
अनेन प्रापि भैमीति भ्रमं चक्रे नभःसदाम् ॥११॥
तत्कर्णौ भारती दूनौ विरहाद्भीमजागिराम् ।
अध्वनि ध्वनिभिर्वैणिरनुकल्पैर्व्यनोदयत् ॥१२॥
अथायान्तमवैक्षन्त ते जनौघमसित्विषम् ।
तेषां प्रत्युद्गमप्रीत्या मिलद्व्योमेव मूर्तिमत् ॥१३॥
अद्राक्षुराजिहानं ते स्मरमग्रेसरं सुराः ।
अक्षाविनयशिक्षार्थं कलिनेव पुरस्कृतम् ॥१४॥
अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः ।
शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्विकाः ॥१५॥
बिभर्ति लोकजिद्भावं बुद्धस्य स्पर्धयेव यः ।
यस्येशतुलयेवात्र कर्तृत्वमशरीरिणः ॥१६॥
ईश्वरस्य जगत्कृत्स्नं सृष्टिमाकुलयन्निमाम् ।
अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वैरं स्मरन्निव ॥१७॥
चक्रे शक्रादिनेत्राणां स्मरः पीतनलश्रियाम् ।
अपि दैवतवैद्याभ्यामचिकित्स्यमरोचकम् ॥१८॥
यत्तत्क्षिपन्तमुत्कम्पमुत्थायुकमथारुणम् ।
बुबुधुर्विबुधाः क्रोधमाक्रोशाक्रोशघोषणम् ॥१९॥
यमुपासन्त दन्तौष्ठक्षतासृक्शिष्यचक्षुषः ।
भ्रुकुटीफणिनीनादनिभनिश्वासफूत्कृतः ॥२०॥
दुर्गं कामाशुगेनापि दुर्लङ्घ्यमवलम्ब्य यः ।
दुर्वासोहृदयं लोकान्सेन्द्रानपि दिधक्षति ॥२१॥
वैराग्यं यः करोत्युच्चै रञ्जनं जनयन्नपि ।
सूते सर्वेन्द्रियाच्छादि प्रज्वलन्नपि यस्तमः ॥२२॥
पञ्चेषुविजयाशक्तौ भवस्य क्रुध्यतो जयात् ।
येनान्यविगृहीतारिजयकालनयः श्रितः ॥२३॥
हस्तौ विस्तारयन्निभ्ये बिभ्यदर्धपथस्थवाक् ।
सूचयन्काकुमाकूतैर्लोभस्तत्र व्यलोकि तैः ॥२४॥
दैन्यस्तैन्यमया नित्यमत्याहारामयाविनः ।
भुञ्जानजनसाकूतपश्या यस्यानुजीविनः ॥२५॥
धनिदानाम्बुवृष्टेर्यः पात्रपाणाववग्रहः ।
स्वान्दासानिव हा निःस्वाद्विक्रीणीतेऽर्थवत्सु यः ॥२६॥
एकद्विकरणे हेतू महापातकपञ्चके ।
न तृणे मन्यते कोपकामौ यः पञ्च कारयन् ॥२७॥
यः सर्वेन्द्रियसद्मापि जिह्वां बह्ववलम्बते ।
तस्यामाचार्यकं याञ्जाबटवे पाटवेऽर्जितुम् ॥२८॥
पथ्यां तथ्यामगृह्णन्तमन्धं बन्धुप्रबोधनाम् ।
शून्यमाश्लिष्य नोज्झन्तं मोहमैक्षन्त हन्त ते ॥२९॥
श्वःश्वः प्राणप्रयाणेऽपि न स्मरन्ति स्मरद्विषाः ।
मग्नाः कुटुम्बजम्बाले बालिशा यदुपासिनः ॥३०॥
पुंसामलब्धनिर्वाणज्ञानदीपमयात्मनाम् ।
अन्तर्म्लापयति व्यक्तं यः कज्जलवदुज्ज्वलम् ॥३१॥
ब्रह्मचारिवनस्थायियतयो गृहिणं यथा ।
त्रयो यमुपजीवन्ति क्रोधलोभमनोभवाः ॥३२॥
जाग्रतामपि निद्रा यः पश्यतामपि योऽन्धता ।
शृउते सत्यपि जाड्यं यः प्रकाशेऽपि च यस्तमः ॥३३॥
कुरुसैन्यं हरेणेव प्रागलज्जत नाऋजुनः ।
हतं येन जयन्कामस्तमोगुणजुषा जगत् ॥३४॥
चिह्निताः कतिचिद्देवैः प्राचः परिचयादमी ।
अन्ये न केचनाचूडमेनः कञ्चुकमेचकाः ॥३५॥
तत्रोद्गूर्ण इवार्णोधौ सैन्येऽभ्यर्णमुपेयुषि ।
कस्याप्याकर्णयामासुस्ते वर्णान्कर्णकर्कशान् ॥३६॥
ग्रावोन्मज्जनवद्यज्ञफलेति श्रुतिसत्यता ।
का श्रद्धा तत्र धीवृद्धाः कामाध्वा यत्खिलीकृतः ॥३७॥
केनापि बोधिसत्त्वेन जातं सत्त्वेन हेतुना ।
यद्वेदमर्मभेदाय जगदे जगदस्थिरम् ॥३८॥
अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्ड्रकम् ।
प्रज्ञापौरुषानिःस्वानां जीवो जल्पति जीविका ॥३९॥
शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः ।
तदानन्तकुलादोषाददोषा जातिरस्ति का ॥४०॥
कामिनीवर्गसंसर्गैर्न कः संक्रान्तपातकः ।
नाश्नाति स्नाति हा मोहात्कामक्षामव्रतं जगत् ॥४१॥
ईर्ष्यया रक्षतो नारीर्धिक्कुलस्थितिदाम्भिकान् ।
स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः ॥४२॥
परदारनिवृत्तिर्या सोऽयं स्वयमनादृतः ।
अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना ॥४३॥
गुरुतल्पगतौ पापकल्पनां त्यजत द्विजाः ।
येषां वः पत्युरत्युच्चैर्गुरुदारग्रहे ग्रहः ॥४४॥
पापात्तापा मुदः पुण्यात्परासोः स्युरिति श्रुतिः ।
वैपरीत्यं द्रुतं साक्षात्तदाख्यात बलाबले ॥४५॥
संदेहेऽप्यन्यदेहाप्तेर्विवर्ज्यं वृजिनं यदि ।
त्यजत श्रोत्रियाः सत्त्रं हिंसादूषणसंशयात् ॥४६॥
यस्त्रिवेदीविदां वन्द्यः स व्यासोऽपि जजल्प वः ।
रामाया जातकामायाः प्रशस्ता हस्तधारणा ॥४७॥
सुकृते वः कथं श्रद्धा सुरते च कथं न सा ।
तत्कर्म पुरुषः कुर्याद्येनान्ते सुखमेधते ॥४८॥
बालात्कुरुत पापानि सन्तु तान्यकृतानि वः ।
सर्वान्बलकृतान्दोषानकृतान्मनुरब्रवीत् ॥४९॥
स्वागमार्थेऽपि मा स्थास्मिंस्तीर्थिका विचिकित्सवः ।
तं तमाचरतानन्दं स्वच्छन्दं यं यमिच्छथ ॥५०॥
श्रुतिस्मृत्यर्थबोधेषु क्वैकमत्यं महाधियाम् ।
व्याख्या बुद्धिबलापेक्षा सा नोपेक्ष्य सुखोन्मुखी ॥५१॥
यस्मिन्नस्मीति धीर्देहे तद्दाहे वः किमेनसा ।
क्वापि तत्किं फलं न स्यादात्मेति परसाक्षिके ॥५२॥
मृतः स्मरति जन्मानि मृते कर्मफलोर्मयः ।
अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्तवार्तया ॥५३॥
जनेन जनतास्मीति कायं नायं त्वमित्यसौ ।
त्याज्यते ग्राह्यते चान्यदहो श्रुत्यातिधूर्तया ॥५४॥
एकं संदिग्धयोस्तावद्भावि तत्रेष्टजन्मनि ।
हेतुमाहुः स्वमन्त्रादीनसङ्गानन्यथा विटाः ॥५५॥
एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः ।
कः श्रौतस्यात्मनो भीरो भारः स्याद्दुरितेन ते ॥५६॥
किं ते वृन्तहृतात्पुष्पात्तन्मात्रे हि फलत्यदः ।
न्यस्य तन्मूर्ध्न्यनन्यस्य न्यास्यमेवाश्मनो यदि ॥५७॥
तृणानीव घृणावादान्विधूनय वधूरनु ।
तवापि तादृशस्यैव का चिरं जनवञ्चना ॥५८॥
कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्यलङ्घिताम् ।
वेदोऽपि देवकीयाज्ञा तत्राज्ञाः काधिकार्हणा ॥५९॥
प्रलापमपि वेदस्य भागं मन्यध्व एव चेत् ।
केनाभग्येन दुःखान्न विधीनपि तथेच्छथ ॥६०॥
श्रुतिं श्रद्धत्थ विक्षिप्ताः प्रक्षिप्तां ब्रूथ च स्वयम् ।
मीमांसामांसलप्रज्ञास्तां यूपद्विपदापिनीम् ॥६१॥
को हि वेदास्त्यमुष्मिन्वा लोक इत्याह या श्रुतिः ।
तत्प्रामाण्यादमुं लोकं लोकः प्रत्येतु वा कथम् ॥६२॥
धर्माधर्मौ मनुर्जल्पन्नशक्यार्जनवर्जनौ ।
व्याजान्मण्डलदण्डार्थी शृअदधायि मुधा बुधैः ॥६३॥
व्यासस्यैव गिरा तस्मिञ्श्रद्धेत्यद्धा स्थ तान्त्रिकाः ।
मत्स्यस्याप्युपदेश्यान्वः को मत्स्यानपि भाषताम् ॥६४॥
पण्डितः पाण्डवानां स व्यासश्चाटुपटुः कविः ।
निनिन्द तेषु निन्दत्सु स्तुवत्सु स्तुतवान्न किम् ॥६५॥
न भ्रातुः किल देव्यां स व्यासः कामात्समासजत् ।
दासीरतस्तदासीद्यन्मात्रा तत्राप्यदेशि किम् ॥६६॥
देवैर्द्विजैः कृता ग्रन्थाः पन्था येषां तदादृतौ ।
गां नतैः किं न तैर्व्यक्तं ततोऽप्यात्माधरीकृतः ॥६७॥
साधुकामुकतामुक्ता शान्तस्वान्तैर्मखोन्मुखैः ।
सारङ्गलोचनासारां दिवं प्रेत्यापि लिप्सुभिः ॥६८॥
कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः ।
भस्मीभूतस्य भूतस्य पुनरागमनं कुतः ॥६९॥
उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मनः ।
अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥७०॥
बिभ्रत्युपरियानाय जना जनितमज्जनाः ।
विग्रहायाग्रतः पश्चाद्गत्वरोरभ्रविभ्रमम् ॥७१॥
एनसानेन तिर्यक्स्यादित्यादिः का बिभीषिका ।
राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः ॥७२॥
हताश्चेद्दिवि दीव्यन्ति दैत्या दैत्यारिणा रणे ।
तत्रापि तेन युध्यन्तां हता अपि तथैव ते ॥७३॥
स्वं च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् ।
इति स्वोच्छित्तिमुक्त्युक्तिवैदग्धी वेदवादिनाम् ॥७४॥
मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् ।
गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः ॥७५॥
दारा हरिहरादीनां तन्मग्नमनसो भृशम् ।
किं न मुक्ताःकुतः सन्ति कारागारे मनोभुवः ॥७६॥
देवश्चेदस्ति सर्वज्ञः करुणाभागवन्ध्यवाक् ।
तत्किं वाग्व्ययमात्रान्नः कृतार्थयति नाऋथिनः ॥७७॥
भविनां भावयन्दुःखं स्वकर्मजमपीश्वरः ।
स्यादकारणवैरी नः कारणादपरे परे ॥७८॥
तर्काप्रतिष्ठया साम्यादन्योन्यस्य व्यतिघ्नताम् ।
नाप्रामाण्यं मतानां स्यात्केषां सत्प्रतिपक्षवत् ॥७९॥
अक्रोधं शिक्षयन्त्यन्यैः क्रोधना ये तपोधनाः ।
निर्धनास्ते धनायैव धातुवादोपदेशिनः ॥८०॥
किं वित्तं दत्त तुष्टेयमदातरि हरिप्रिया ।
दत्त्वा सर्वं धनं मुग्धो बन्धनं लब्धवान्बलिः ॥८१॥
दोग्धा द्रोग्धा च सर्वोऽयं धनिनश्चेतसा जनः ।
विसृज्य लोभसंक्षोभमेकद्वा यद्युदासते ॥८२॥
दैन्यस्यायुष्यमस्तैन्यमभक्ष्यं कुक्षिवञ्चना ।
स्वाच्छन्द्यमृच्छतानन्दकन्दलीकन्दमेककम् ॥८३॥
इत्थमाकर्ण्य दुर्वर्णं शक्रः सक्रोधतां दधे ।
अवोचदुच्चैः कस्कोयं धर्ममर्माणि कृन्तति ॥८४॥
लोकत्रयीं त्रयीनेत्रां वज्रवीर्यस्फुरत्करे ।
क इत्थं भाषते पाकशासने मयि शासति ॥८५॥
वर्णासंकीर्णतायां वा जात्यलोपोऽन्यथापि वा ।
ब्रह्महादेः परीक्षासु भङ्गमङ्ग प्रमाणय ॥८६॥
ब्राह्मण्यादिप्रसिद्धाया गन्ता यन्नेक्षते जयम् ।
तद्विशुद्धिमशेषस्य वर्णवंशस्य शंसति ॥८७॥
जलानलपरीक्षादौ संवादो वेदवेदिते ।
गलहस्तितनास्तिक्यां धिग्धियं कुरुतेऽनते ॥८८॥
सत्येव पतियोगादौ गर्भादेरध्रुवोदयात् ।
आक्षिप्तं नास्तिकाः कर्म न किं मर्म भिनत्ति वः ॥८९॥
याचतः स्वगयाश्राद्धं प्रेतस्याविश्य कंचन ।
नानादेशजनोपज्ञाः प्रत्येषि न कथाः कथम् ॥९०॥
नीतानां यमदूतेन नामभ्रान्तेरुपागतौ ।
श्रद्धत्से संवदन्तीं न परलोककथां कथम् ॥९१॥
जज्वाल ज्वलनः क्रोधादाचख्यौ चाक्षिपन्नमुम् ।
किमात्थ रे किमात्थेदमस्मदग्रे निरर्गलम् ॥९२॥
महापराकिणः श्रौतधर्मैकबलजीविनः ।
क्षणाभक्षणमूर्च्छाल स्मरन्विस्मयसे न किम् ॥९३॥
पुत्रेष्टिश्येनकारीरीमुखा दृष्टफला मखाः ।
न वः किं धर्मसंदेहमन्देहजयभानवः ॥९४॥
दण्डताण्डवनैः कुर्वन्स्फुलिङ्गालिङ्गितं नभः ।
निर्ममेऽथ गिरामूर्मीर्भिन्नमर्मेव धर्मराट् ॥९५॥
तिष्ठ भोस्तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादयम् ।
अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते ॥९६॥
वेदैस्तद्वेषिभिस्तद्वत्स्थिरं मतशतैः कृतम् ।
परं कस्ते परं वाचा लोकं लोकायत त्यजेत् ॥९७॥
समज्ञानाल्पभूयिष्ठपान्थवैमत्यमेत्य यम् ।
लोके प्रयासि पन्थानं परलोके न तं कुतः ॥९८॥
स्वकन्यामन्यसात्कर्तुं विश्वानुमतिदृश्वनः ।
लोके परत्र लोकस्य कस्य न स्यादृढं मनः ॥९९॥
कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः ।
तद्दृष्ट्या व्यर्थतामात्रमनर्थस्तु न धर्मजः ॥१००॥
क्वापि सर्वैरवैमत्यात्पातित्यादन्यथा क्वचित् ।
स्थातव्यं श्रौत एव स्याद्धर्मे शेषेऽपि तत्कृतेः ॥१०१॥
बभाण वरुणः क्रोधादरुणः करुणोज्झितम् ।
किं न प्रचण्डात्पाखण्डपाश पाशाद्बिभेषि नः ॥१०२॥
मानवाशक्यनिर्माणा कूर्माद्यङ्कबिला शिला ।
न श्रद्धापयते मुग्धास्तीर्थिकाध्वनि वः कथम् ॥१०३॥
शतक्रतूरुजाद्याख्याविख्यातिर्नास्तिकाः कथम् ।
श्रुतिवृत्तान्तसंवादैर्न वश्चमदचीकरत् ॥१०४॥
तत्तज्जनकृतावेशान्गयाश्राद्धादियाचिनः ।
भूताननुभवन्तोऽपि कथं श्रद्धत्थ न श्रुतीः ॥१०५॥
नामभ्रमाद्यमं नीतानथ स्वतनुमागतान् ।
संवादवादिनो जीवान्वीक्ष्य मा त्यजत श्रुतीः ॥१०६॥
संरम्भैर्जम्भजैत्रादेस्तभ्यमानाद्बलाद्वलन् ।
मूर्धबद्धाञ्जलिर्देवानथैवं कश्चिदूचिवान् ॥१०७॥
नापराधी पराधीनो जनोऽयं नाकनायकाः ।
कालस्याहं कलेर्बन्दी तच्चाटुचटुलाननः ॥१०८॥
इति तस्मिन्वदत्येव देवाः स्यन्दनमन्दिरम् ।
कलिमाकलयांचक्रुर्द्वापरं चापरं पुरः ॥१०९॥
संददर्शोन्नमद्ग्रीवः श्रीबहुत्वकृताद्भुतान् ।
तत्तत्पापपरीतस्तान्नाकीयान्नारकीव सः ॥११०॥
गुरुरीढावलीढः प्रागभून्नमितमस्तकः ।
स त्रिशङ्कुरिवाक्रान्ततेजसेव बिडौजसः ॥१११॥
विमुखान्द्रष्टुमप्येनं जनंगम इव द्विजान् ।
एष मत्तः सहेलं तानुपेत्य समभाषत ॥११२॥
स्वस्ति वास्तोष्पते तुभ्यं शिखिन्नस्ति न खिन्नता ।
सखे काल सुखेनासि पाशहस्त मुदस्तव ॥११३॥
स्वयंवरमहे भैमीवरणाय त्वरामहे ।
तदस्माननुमन्यध्वमध्वने तत्र धाविने ॥११४॥
तेऽवज्ञाय तमस्योच्चैरहंकारमकारणम् ।
ऊचिरेऽतिचिरेणैनं स्मित्वा दृष्टमुखा मिथः ॥११५॥
पुनर्वक्ष्यसि मा मैवं कथमुद्वक्ष्यसे तु सः ।
सृष्टवान्परमेष्ठी यं नैष्ठिकब्रह्मचारिणम् ॥११६॥
द्रोहिणं द्रुहिणो वेत्तु त्वामाकर्ण्यावकीर्णिनम् ।
त्वज्जनैरपि वा धातुः सेतुर्लङ्घ्यस्त्वया न किम् ॥११७॥
अतिवृत्तः स वृत्तान्तस्त्रिजगद्युवगर्वनुत् ।
आगच्छतामपादानं स स्वयंवर एव नः ॥११८॥
नागेषु सानुरागेषु पश्यत्सु दिविषत्सु च ।
भूमिपालं नरं भैमी वरं साऽववरद्वरम् ॥११९॥
भुजगेशानसद्वेशान्वानरानितरान्नरान् ।
अमरान्पामरान्भैमी नलं वेद गुणोज्ज्वलम् ॥१२०॥
इति श्रुत्वा स रोषान्धः परमश्चरमं युगम् ।
जगन्नाशनिशारुद्रमुद्रस्तानुक्तवानदः ॥१२१॥
कयापि क्रीडतु ब्रह्मा दिव्याः स्त्रीर्दीव्यत स्वयम् ।
कलिस्तु चरतु ब्रह्म प्रैतु वातिप्रियाय वः ॥१२२॥
चर्येव कतमेयं वः परस्मै धर्मदेशिनाम् ।
स्वयं तत्कुर्वतां सर्वं श्रोतुं यद्बिभितः श्रुती ॥१२३॥
तत्र स्वयंवरेऽलम्भि भुवः श्रीर्नैषाधेन सा ।
जगतो ह्रीस्तु युष्माभिर्लाभस्तुल्याभ एव वः ॥१२४॥
दूरान्नः प्रेक्ष्य यौष्माकी युक्तेयं वक्त्रवक्रणा ।
लज्जयैवासमर्थानां मुखमास्माकमीक्षितुम् ॥१२५॥
स्थितं भवद्भिः पश्यद्भिः कथं भोस्तदसांप्रतम् ।
निर्दग्धा दुर्विदग्धा किं सा दृशा न ज्वलत्क्रुधा ॥१२६॥
महावंशाननादृत्य महान्तमभिलाषुका ।
स्वीचकार कथंकारमहो सा तरलं नलम् ॥१२७॥
भवादृशैर्दिशामीशैर्मृग्यमाणां मृगेक्षणाम् ।
स्वीकुर्वाणः कथं सोढः कृतरीढस्तृणं नलः ॥१२८॥
दारुणः कूटमाश्रित्य शिखी साक्षीभवन्नपि ।
नावहत्किं तदुद्वाहे कूटसाक्षिक्रियामयम् ॥१२९॥
अहो महःसहायानां संभूता भवतामपि ।
क्षमैवास्मै कलङ्काय देवस्येवामृतद्युतेः ॥१३०॥
सा वव्रे यं तमुत्सृज्य मह्यमीर्ष्याजुषाः स्थ किम् ।
ब्रूतागः सद्मनस्तस्माच्छद्मनाद्याच्छिनद्मि तान् ॥१३१॥
यतध्वं सहकर्तुं मां पाञ्चाली पाण्डवैरिव ।
सापि पञ्चभिरस्माभिः संविभज्यैव भुज्यताम् ॥१३२॥
अथापरिवृढा सोढुं मूर्खतां मुखरस्य ताम् ।
चक्रे गिरा शराघातं भारती सारतीव्रया ॥१३३॥
कीर्तिं भैमीं वरं चास्मै दातुमेवागमन्नमी ।
न लीढे धीरवैदग्धीं धीरगम्भीरगाहिनी ॥१३४॥
वाग्ग्मिनीं जडजिह्वस्तां प्रतिवक्तुमशक्तिमान् ।
लीलावहेलितां कृत्वा देवानेवावदत्कलिः ॥१३५॥
प्रौञ्छि वाञ्छितमस्माभिरपि तां प्रति संप्रति ।
तस्मिन्नले न लेशोऽपि कारुण्यस्यास्ति नः पुनः ॥१३६॥
वृत्ते कर्मणि कुर्मः किं तदा नाभूम तत्र यत् ।
कालोचितमिदानीं यः शृणुतालोचितं पुनः ॥१३७॥
प्रतिज्ञेयं नले विज्ञाः कलेर्विज्ञायतां मम ।
तेन भैमीं च भूमिं च त्याजयामि जयामि तम् ॥१३८॥
नैषधेन विरोधं मे चण्डतामण्डितैजसः ।
जगन्ति हन्त गायन्तु रवेः कैरववैरवत् ॥१३९॥
द्वापरः साधुकारेण तद्विकारमदीदिपत् ।
प्रणीय श्रवणे पाणिमवोचन्नमुचे रिपुः ॥१४०॥
विस्मेयमतिरस्मासु साधु वैलक्ष्यमीक्षसे ।
यद्दत्तेऽल्पमनल्पाय तद्दत्ते ह्रियमात्मनः ॥१४१॥
फलसीमां चतुर्वर्गं यच्छतांशोऽपि यच्छति ।
नलस्यास्मदुपघ्ना सा भक्तिर्भूतावकेशिनी ॥१४२॥
भव्यो न व्यवसायस्ते नले साधुमतौ कले ।
लोकपालविशालोऽयं निषाधानां सुधाकरः ॥१४३॥
न पश्यामः कलेस्तस्मिन्नवकाशं क्षामाभृति ।
निचिताखिलधर्मे च द्वापरस्योदयं वयम् ॥१४४॥
सा विनीतअतमा भैमी व्यर्थानर्थग्रहैरहो ।
कथं भवद्विधैर्बाध्या प्रमितिर्विभ्रमैरिव ॥१४५॥
तं नासत्ययुगं तां वा त्रेता स्पर्धितुमर्हति ।
एकप्रकाशधर्माणं न कलिद्वापरौ युवाम् ॥१४६॥
करिष्येऽवश्यमित्युक्तिः करिष्यन्नपि दुष्यसि ।
दृष्टादृष्टा हि नायत्ताः कार्यीया हेतवस्तव ॥१४७॥
द्रोहं मोहेन यस्तस्मिन्नाचरेदचिरेण सः ।
तत्पापसंभवं तापमाप्नुयादनयात्ततः ॥१४८॥
युगशेष तव द्वेषस्तस्मिन्नेष न सांप्रतम् ।
भविता न हितायैतद्वैरं ते वैरसेनिना ॥१४९॥
तत्र यामीत्यसज्ज्ञानं राजसं सदिहास्यताम् ।
इति तर गतो मा गा राजसंसदि हास्यताम् ॥१५०॥
गत्वान्तरा नलं भैमीं नाकस्मात्त्वं प्रवेक्ष्यसि ।
षण्णां चक्रमसंयुक्तं पठ्यमानं डकारवत् ॥१५१॥
अपरेऽपि दिशामीशा वाचमेतां शचीपतेः ।
अन्वमन्यन्त किंत्वेनां नादत्त युगयोर्युगम् ॥१५२॥
कलिं प्रति कलिं देवा देवान्प्रत्येकशः कलिः ।
सोपहासं समैर्वर्णैरित्थं व्यररचन्मिथः ॥१५३॥
तवाऽगमनमेवार्हं वैरसेनौ तया वृते ।
उद्वेगेन विमानेन किमनेनापि धावता ॥१५४॥
पुरा यासि वरीतुं यामग्र एव तया वृते ।
अन्यस्मिन्भवतो हास्यं वृत्तमेतत्त्रपाकरम् ॥१५५॥
पत्यौ तया वृतेऽन्यस्मिन्यदर्थं गतवानसि ।
भवतः कोपरोधस्तादक्षमस्य वृथारुषः ॥१५६॥
यासि स्मरञ्जयन्कान्त्या योजनौघं महार्वता ।
समूढस्तं वृतेऽन्यस्मिन्किं न हीस्तेऽत्र पामर ॥१५७॥
नलं प्रत्यनपेतार्ति तार्तीयीकतुरीययोः ।
युगयोर्युगलं बुद्ध्वा दिवि देवा धियं दधुः ॥१५८॥
द्वापरैकपरीवारः कलिर्मत्सरमूर्च्छितः ।
नलनिग्राहिणीं यात्रां जग्राह ग्रहिलः किल ॥१५९॥
नलेष्टापूर्तसंपूर्तेर्दूरं दुर्गानमुं प्रति ।
निषेधन्निषधान्गन्तुं विघ्नः संजघटे घनः ॥१६०॥
मण्डलं निषाधेन्द्रस्य चन्द्रस्येवामलं कलिः ।
प्राप म्लापयितुं पापः स्वर्भानुरिव संग्रहात् ॥१६१॥
कियतापि च कालेन कालः कलिरुपेयिवान् ।
भैमीभर्तुरहंमानी राजधानीं महीभुजः ॥१६२॥
वेदानुद्धरतां तत्र मुखादाकर्णयन्पदम् ।
न प्रसारयितुं कालः कलिः पदमपारयत् ॥१६३॥
श्रुतिपाठकवक्त्रेभ्यस्तत्राकर्णयतः क्रमम् ।
क्रमः संकुचितस्तस्य पुरे दूरमवर्तत ॥१६४॥
तावद्गतिर्धृताटोपा पादयोस्तेन संहिता ।
न वेदपाठिकण्ठेभ्यो यावदअश्रावि संहिता ॥१६५॥
तस्य होमाज्यगन्धेन नासा नाशमिवागमत् ।
तथातत दृशौ नासौ क्रतुधूमकदर्थितः ॥१६६॥
अतिथीनां पदाम्भोभिरिमं प्रत्यतिपिच्छिले ।
अङ्गणे गृहिणां तत्र खलेनानेन चस्खले ॥१६७॥
पुटपाकमसौ प्राप क्रतुशुष्ममहोष्मभिः ।
तत्प्रत्यङ्गमिवाकर्ति पूर्तोर्मिव्यजनानिलैः ॥१६८॥
पित्ṝणां तर्पणे वर्णैः कीर्णाद्वेश्मनि वेश्मनि ।
कालादिव तिलात्कालाद्दूरमत्रसदत्र सः ॥१६९॥
स्नात्ṝणां तिलकैर्मेने स्वमन्तर्दीर्णमेव सः ।
कृपाणीभूय हृदयं प्रविष्टैरिव तत्र तैः ॥१७०॥
पुमांसं मुमुदे तत्र विदन्मिथ्यावदावदम् ।
स्त्रियं प्रति तथा वीक्ष्य तमथ म्लानवानयम् ॥१७१॥
यज्ञयूपघनां जज्ञौ स पुरं शङ्कुसंकुलाम् ।
जनैर्धर्मधनैः कीर्णां व्यालक्रोडीकृतां च ताम् ॥१७२॥
स पार्श्वमशकद्गन्तुं न वराकः पराकिणाम् ।
मासोपवासिनां छायालङ्घने घनमस्खलत् ॥१७३॥
आवाहितां द्विजैस्तत्र गायत्रीमर्कमण्डलात् ।
स संनिदधतीं पश्यन्दृष्टनष्टोऽभवद्भिया ॥१७४॥
स गृहे गृहिभिः पूर्णे वने वैखानसैर्घने ।
यत्याधारेऽमरागारे क्वापि न स्थानमानशे ॥१७५॥
क्वापि नापश्यदन्विष्यन्हिंसामात्मप्रियामसौ ।
स्वमित्त्रं तत्र न प्राप्नोदपि मूर्खमुखे कलिम् ॥१७६॥
हिंसागवीं मखे वीक्ष्य रिरंसुर्धावति स्म सः ।
सा तु सौम्यवृषासक्ता खरं दूरान्निरास तम् ॥१७७॥
मौनेन व्रतनिष्ठानां स्वाक्रोशं मन्यते स्म सः ।
वन्द्यवन्दारुभिर्जज्ञौ स्व शिरश्च पदाहतम् ॥१७८॥
ऋषीणां स बृसीः पाणौ पश्यन्नाचामतामपः ।
मेने घनैरमी हन्तुं शप्तुं मामद्भिरुद्यताः ॥१७९॥
मौञ्जीधृतो धृताषाढानाशशङ्के स वर्णिनः ।
रज्ज्वामी बन्द्धुमायान्ति हन्तुं दण्डेन मां ततः ॥१८०॥
दृष्ट्वा पुरः पुरोडाशमासीदुत्त्रासदुर्मनाः ।
मन्वानः फणिनीस्तत्र स मुमोचास्रु च स्रुचः ॥१८१॥
मुमुदे मदिरादानं विदन्नेष द्विजन्मनः ।
दृष्ट्वा सौत्रामणीमिष्टिं तं कुर्वन्तमदूयत ॥१८२॥
अपश्यद्यावतो वेदविदां ब्रह्माञ्जलीनसौ ।
उदडीयन्त तावन्तस्तस्यास्राञ्जलयो हृदः ॥१८३॥
स्नातकं घातकं जज्ञे जज्ञौ दान्तं कृतान्तवत् ।
वाचंयमस्य दृष्ट्येव यमस्येव बिभाय सः ॥१८४॥
स पाखण्डजनान्वेषी प्राप्नुवन्वेदपण्डितान् ।
जलार्थीवानलं प्राप्य पापस्तापादपासरत् ॥१८५॥
तत्र ब्रह्महणं पश्यन्नतिसंतोषामानशे ।
निर्वर्ण्य सर्वमेधस्य यज्वानं ज्वरति स्म सः ॥१८६॥
यतिहस्तस्थितैस्तस्य राम्भैरारम्भि तर्जना ।
दुर्जनस्याजनि क्लिष्टिर्गृहिणां वेदयष्टिभिः ॥१८७॥
मण्डलत्यागमेवैच्छद्वीक्ष्य स्थण्डिलशायिनः ।
पवित्रालोकनादेष पवित्रासमविन्दत ॥१८८॥
अपश्यञ्जिनमन्विष्यन्नजिनं ब्रह्मचारिणा ।
क्षपणार्थी सदीक्षस्य स चाक्षपणमैक्षत ॥१८९॥
जपतामक्षमालासु बीजाकर्षणदर्शनात् ।
स जीवाकृष्टिकष्टानि विपरीतदृगन्वभूत् ॥१९०॥
त्रिसंध्यं तत्र विप्राणां स पश्यन्नघमर्षणम् ।
वरमैच्छद्दृशोरेव निजयोरपकर्षणम् ॥१९१॥
अद्राक्षीत्तत्र किंचिन्न कलिः परिचितं क्वचित् ।
भैमीनलव्यलीकाणुप्रश्नकामः परिभ्रमन् ॥१९२॥
तपः स्वाध्याययज्ञानामकाण्डद्विष्टतापसः ।
स्वविद्विषां श्रियं तस्मिन्पश्यन्नुपतताप सः ॥१९३॥
कम्रं तत्रोपनम्राया विश्वस्या वीक्ष्य तुष्टवान् ।
स मम्लौ तं विभाव्याथ वामदेव्याभ्युपासकम् ॥१९४॥
वैरिणी शुचिता तस्मै न प्रवेशं ददौ भुवि ।
न वेदध्वनिरालम्बमम्बरे विततार वा ॥१९५॥
दर्शस्य दर्शनात्कष्टमग्निष्टोमस्य चानशे ।
जुघूर्णे पौर्णमासेक्षी सोमं सोऽमनतान्तकम् ॥१९६॥
तेनादृश्यन्त वीरघ्ना न तु वीरहणो जनाः ।
नापश्यत्सोऽभिनिर्मुक्ताञ्जीवन्मुक्तानवैक्षत ॥१९७॥
स तुतोषाश्नतो विप्रान्दृष्ट्वा स्पृष्टपरस्परान् ।
होमशेषीभवत्सोमभुजस्तान्वीक्ष्य दूनवान् ॥१९८॥
श्रुत्वा जनं रजोजुष्टं तुष्टिं प्राप्नोज्झटित्यसौ ।
तं पश्यन्पावनस्नानावस्थं दुःस्थस्ततोऽभवत् ॥१९९॥
अधावत्क्वापि गां वीक्ष्य हन्यमानामयं मुदा ।
अतिथिभ्यस्तथा बुद्ध्वा मन्दो मन्दं न्यवर्तत ॥२००॥
हृष्टवान्स द्विजं दृष्ट्वा नित्यनैमित्तिकत्यजम् ।
यजमानं निरूप्यैनं दूरं दीनमुखोऽद्रवत् ॥२०१॥
आननन्द निरीक्ष्यायं पुरे तरात्मघातिनम् ।
सर्वस्वारस्य यज्वानमेनं दृष्ट्वाथ विव्यथे ॥२०२॥
क्रतौ महाव्रते पश्यन्ब्रह्मचारीत्वरीरतम् ।
जज्ञे यज्ञक्रियामज्ञः स भण्डाकाण्डताण्डवम् ॥२०३॥
यज्वभार्याश्वमेधाश्वलिङ्गालिङ्गिवराङ्गताम् ।
दृष्ट्वाचष्ट स कर्तारं शृउतेर्भण्डमपण्डितः ॥२०४॥
अथ भीमजया जुष्टं व्यलोकत कलिर्नलम् ।
दुष्टदृग्भिर्दुरालोकं प्रभयेव प्रभाप्रभुम् ॥२०५॥
तयोः सौहार्दसान्द्रत्वं पश्यञ्शल्यमिवानशे ।
मर्मच्छेदमिवानर्च्छ स तन्नर्मोर्मिभिर्मिथः ॥२०६॥
अमर्षादात्मनो दोषात्तयोस्तेजस्वितागुणात् ।
स्प्रष्टुं दृशाप्यनीशस्तौ तस्मादप्यचलत्कलिः ॥२०७॥
अगच्छदाश्रयान्वेषी नलद्वेषी स निःश्वसन् ।
अभिरामं गृहारामं तस्य रामसमश्रियः ॥२०८॥
रक्षिलक्षवृतत्वेन बाधनं न तपोधनैः ।
मेने मानी मनाक्तत्र स्वानुकूलं कलिः किल ॥२०९॥
दलपुष्पफलैर्देवद्विजपूजाभिसंधिना ।
स नलेनार्जितान्प्राप तत्र नाक्रमितुं द्रुमान् ॥२१०॥
अथ सर्वोद्भिदासत्तिपूरणाय स रोपितम् ।
बिभीतकं ददर्शैकं कुटं धर्मेऽप्यकर्मठम् ॥२११॥
स तं नैषधसौधस्य निकटं निष्कुटध्वजम् ।
बहु मेने निजं तस्मिन्कलिरालम्बनं वने ॥२१२॥
निष्पदस्य कलेस्तत्र स्थानदानाद्बिभीतकम् ।
कलिद्रुमः परं नासीदासीत्कल्पद्रुमोऽपि सः ॥२१३॥
ददौ पदेन धर्मस्य स्थातुमेकेन यत्कलिः ।
एकः सोऽपि तदा तस्य पदं मन्येऽमिलत्ततः ॥२१४॥
उद्भिद्विरचितावासः कपोतादिव तत्र सः ।
राज्ञः साग्रेर्द्विजादस्मात्संतापं प्राप दीक्षितात् ॥२१५॥
बिभीतकमधिष्ठाय तथाभूतेन तिष्ठता ।
तेन भीमभुवोऽभीकः स राजर्षिरधर्षि न ॥२१६॥
तमालम्बनमासाद्य वैदर्भीनिषाधेशयोः ।
कलुषं कलिरन्विष्यन्नवात्सीद्वत्सरान्बहून् ॥२१७॥
यथासीत्कानने तत्र विनिद्रकलिका लता ।
तथा नलच्छलासक्तिविनिद्रकलिकालता ॥२१८॥
दोषं नलस्य जिज्ञासुर्बभ्राम द्वापरः क्षितौ ।
अदोषः कोऽपि लोकस्य मुखेऽस्तीति दुराशया ॥२१९॥
अमुष्मिन्नारामे सततनिपतद्दोहदतया
प्रसूनैरुन्निद्रैरनिशममृतांशुप्रतिभटे ।
असौ बद्धालम्बः कलिरजनि कादम्बविहग-
च्छदच्छायाभ्यङ्गोचितरुचितया लाञ्छनमृगः ॥२२०॥
स्फारे तादृशि वैरसेनिनगरे पुण्यैः प्रजानां घनं
विघ्नं लब्धवअश्चिरादुपनतिस्तस्मिन्किलाभूत्कलेः ।
एतस्मिन्पुनरन्तरेऽन्तरमितानन्दः स भैमीनला-
वाराद्धुं व्यधित स्मरः श्रुतिशिखावन्दारुचूडं धनुः ॥२२१॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातः सप्तदशः स्वसुः सुसदृशि छिन्दप्रशस्तेर्महा-
काव्ये तद्भुवि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥२२२॥

N/A

References : N/A
Last Updated : January 19, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP