नैषधीयचरितम् - सप्तमः सर्गः
महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.
अथ प्रियासादनशीलनादौ
मनोरथः पल्लवितश्चिरं यः ।
विलोकनेनैव स राजपुत्र्याः
पत्या भुवः पूर्णवदभ्यमानि ॥१॥
प्रतिप्रतीकं प्रथमं प्रियायाम्
अथान्तरानन्दसुधासमुद्रे ।
ततः प्रमोदाश्रुपरम्पराणां
ममज्जतुस्तस्य दृशौ नृपस्य ॥२॥
ब्रह्माद्वयस्यान्वभवत्प्रमोदं
रोमाग्र एवाग्रनिरीक्षितेऽस्याः ।
यथौचितीत्थं तदशेषदृष्टा-
वथ स्मराद्वैतमुदं तथासौ ॥३॥
वेलामतिक्रम्य पृथुं मुखेन्दोः
आलोकपीयूषरसेन तस्याः ।
नलस्य रागाम्बुनिधौ विवृद्धे
तुङ्गौ कुचावाश्रयतः स्म दृष्टि ॥४॥
मग्ना सुधायां किमु तन्मुखेन्दोः
लग्ना स्थिता तत्कुचयाः किमन्तः ।
चिरेण तन्मध्यममुञ्चतास्य
दृष्टिः क्रशीयः स्खलनाद्भिया नु ॥५॥
प्रियाङ्गपान्था कुचयोर्निवृत्य
निवृत्य लोला नलदृग्भ्रमन्ती ।
बभौतमां तन्मृगनाभिलेप-
तमः समासादितदिग्भ्रमेव ॥६॥
विभ्रम्य तच्चारुनितम्बचक्रे
दूतस्य दृक्तस्य खलु स्खलन्ती ।
स्थिरा चिरादास्य तदूरुरम्भाः
तम्भावुपाश्लिष्य करेण गाढम् ॥७॥
वासः परं नेत्रमहं न नेत्रं
किमु त्वमालिङ्ग्य तन्मयापि ।
उरोनितम्बोपु कुरु प्रसादम्
इतीव सा तत्पदयोः पपात ॥८॥
दृशोर्यथाकाममथोपहृत्स
स प्रेयसीमालिकुलं च तस्याः ।
इदं प्रमोदाद्भुतसंभृतेन
महीमहेन्द्रो मनसा जगाद ॥९॥
पदे विधातुर्यदि मन्मथो वा
ममाभिषिच्येत मनोरथो वा ।
तदा घटेतापि न वा तदेतत्
प्रतिप्रतीकाद्भुतरूपशिल्पम् ॥१०॥
तरङ्गिणी भूमिभृतः प्रभूता
जानामि श्रृङ्गाररसस्य सेयम् ।
लावण्यपूरोऽजनि यौवनेन
तस्यां तथोच्चैस्तनताघनेन ॥११॥
अस्यां वपुर्व्यूहविधानविद्यां
किं द्योतयामास नवां स कामः ।
प्रत्यङ्गसङ्गस्फुटलब्धभूमा
लावण्यसीमा यदिमामुपास्ते ॥१२॥
जम्बालजालात्किमकर्षि जम्बू-
नद्या न हारिद्रनिभप्रभेयम् ।
अप्यङ्गयुग्मस्य न सङ्गचिह्नम्
उन्नीयते दन्तुरता यदत्र ॥१३॥
सत्येव साम्ये सदृशादशेषाद्
गुणान्तरेणोच्चकृषे यदङ्गैः ।
अस्यास्ततः स्यात्तुलनापि नाम
वस्तु त्वमीषामुपमापमानः ॥१४॥
पुराकृतिस्त्रैणमिमां विधातुम्
अभूद्विधातुः खलु हस्तलेखः ।
येयं भवद्भाविपुरंघ्निसृष्टिः
सास्यै यशस्तज्जयजं प्रदातुम् ॥१५॥
भव्यानि हानीरगुरेतदङ्गाद्
यथा यथानर्ति तथा तथा तैः ।
अस्याधिकस्योपमयोपमाता
दाता प्रतिष्ठां खलु तेभ्य एव ॥१६॥
नास्पर्शि दृष्टापि विमोहिकेयं
दोषैरशेषैः स्वभियेति मन्ये ।
अन्येषु तैराकुलितस्तदस्यां
वसत्यसापत्न्यसुखी गुणौघः ॥१७॥
औज्झि प्रियाङ्गैर्घृणयैव रूक्षा
न वारिदुर्गात्तु वराटकस्य ।
न कण्टकैरावरणाच्च कान्तिः
धूलीभृता काञ्चनकेतकस्य ॥१८॥
प्रत्यङ्गमस्यामभिकेन रक्षां
कर्तुं मघोनेव निजास्त्रमस्ति ।
वज्रं च भूषामणिमूर्तिधारि
नियोजितं तद्दयुतिकार्मुकं च ॥१९॥
अस्याः सपक्षैकविधोः कचौघः
स्थाने मुखस्योपरि वासमाप ।
पक्षस्थतावद्बहुचन्द्रकोऽपि
कलापिनां येन जितः कलापः ॥२०॥
अस्या यदास्येन पुरस्तिरश्च
तिरस्कृतं शीतरुचान्धकारम् ।
स्फुटस्फुटद्भङ्गिकचच्छलेन
तदेव पश्चादिदमस्ति बद्धम् ॥२१॥
अस्याः कचानां शिखिनश्च किंनु
विधिं कलापौ विमतेरगाताम् ।
तेनायमेभिः किमपूजि पुष्पैः
भर्त्सि दत्त्वा स किमर्धचन्द्रम् ॥२२॥
केशान्धकारादथ दृश्यभाल-
स्थललार्धचन्द्रा स्फुटमष्टमीयम् ।
एनां यदासाद्य जगज्जयाय
मनोभुवा सिद्धिरसाधि साधु ॥२३॥
पौष्पं धनुः किं मदनस्य दाहे
श्यामीभवत्केसरशेषमासीत् ।
व्यधाद्द्विधेशस्तदपि क्रुधा किं
भैमीभ्रुवौ येन विधिर्यधत्त ॥२४॥
भ्रूम्यां प्रियाया भवता मनोभू-
चापेन चापे घनसारभावः ।
निजां यदप्लोषदशामपेक्ष्य
संप्रत्यनेनाधिकवीर्यतार्जि ॥२५॥
स्मारं धनुर्यद्विधुनोज्झितास्या
यास्येन भूतेन च लक्ष्मलेखा ।
एतद्भ्रुवौ जन्म तदाप युग्मं
लीलाचलत्वोचितबालभावम् ॥२६॥
इषुत्रयेणैव जगत्त्रयस्य
विनिर्जयात्पुष्पमयाशुगेन ।
शेषा द्विबाणी सफलीकृतेयं
प्रियादृगम्भोजपदेऽभिषिच्य ॥२७॥
सेयं मृदुः कौसुमचापयष्टिः
स्मरस्य मुष्टिग्रहणार्हमध्या ।
तनोति नः श्रीमदपाङ्गमुक्तां
मोहाय या दृष्टिशरौघवृष्टिम् ॥२८॥
आघूर्णितं पक्ष्मलमक्षिपद्मं
प्रान्तद्युतिश्वैत्यजितामृतांशु ।
अस्या इवास्याश्चलदिन्द्रनील-
गोलामलश्यामलतारतारम् ॥२९॥
कर्णोत्पलेनापि मुखं सनाथं
लभेत नेत्रद्युतिनिर्जितेन ।
यद्येतदीयेन ततः कृतार्था
स्वचक्षुषी किं कुरुते कुरङ्गी ॥३०॥
त्वचः समुत्तार्य दलानि रीत्या
मोचात्वचः पञ्चषपाटनायाम् ।
सारौर्गृहीतैर्विधिरुत्पलौघात्
अस्यामभूदीक्षणरूपशिल्पी ॥३१॥
चकोरनेत्रैणदृगुत्पलानां
निमेषयन्त्रेण किमेष कृष्टः ।
सारः सुधोद्गारमयः प्रयत्नैः
विधातुमेतन्नयने विधातुः ॥३२॥
ऋणीकृता किं हरिणीभिरासीत्
अस्याः सकाशान्नयनद्वयश्रीः ।
भूयोगुणेयं सकला बलाद्यत्
ताभ्योऽनयाऽलभ्यत बिभ्यतीभ्यः ॥३३॥
दृशौ किमस्याश्चपलस्वभावे
न दूरमाक्रम्य मिथो मिलेताम् ।
न चेत्कृतः स्यादनयोः प्रयाणे
विघ्नः श्रवः कूपनिपातभीत्या ॥३४॥
केदारभाजा शिशिरप्रवेशात्
पुण्याय मन्ये मृतमुत्पलिन्या ।
जाता यतस्तत्कुसुमेक्षणेयं
यातश्च तत्कोरकदृक्चकोरः ॥३५॥
नासादसीया तिलपुष्पतूणं
जगत्त्रयव्यस्तशरत्रयस्य ।
श्वासानिलामोदभरानुमेयां
दधद्द्विबाणीं कुसुमायुधस्य ॥३६॥
बन्धूकबन्धूभवदेतदस्या
मुखेन्दुनानेन सहोज्जिहाना ।
रागश्रिया शैशवयौवनीयां
स्वमाह संध्यामधरोष्ठलेखा ॥३७॥
अस्या मुखेन्दावधरः सुधाभू-
बिम्बस्य युक्तः प्रतिबिम्ब एषः ।
तस्याथ वा श्रीर्द्रुमभाजि देशे
संभाव्यमानास्य तु विद्रुमे सा ॥३८॥
जानेऽतिरागादिदमेव बिम्बं
बिम्बस्य च व्यक्तमितोऽधरत्वम् ।
द्वयोर्विशेषावमाक्षमाणां
नाम्नि भ्रमोऽभूदनयोर्जनानाम् ॥३९॥
मध्योपकण्ठावधरोष्ठभागौ
भातः किमप्युच्छृसितौ यदस्याः ।
तत्स्वप्नसंभोगवितीर्णदन्त-
दंशेन किं वा न मयापराद्धम् ॥४०॥
विद्या विदर्भेन्द्रसुताधरोष्ठे
नृत्यन्ति कत्यन्तरभेदभाजः ।
इतीव रेखाभिरपश्रमस्ताः
संख्यातवान् कौतुकवान्विधाता ॥४१॥
संभुज्यमानाद्य मया निशान्ते
स्वप्नेऽनुभूता मधुराधरेयम् ।
असीमलावण्यरदच्छदेत्थं
कथं मयैव प्रतिपद्यते वा ॥४२॥
यदि प्रसादीकुरुते सुधांशोः
एषा सहस्रांशमपि स्मितस्य ।
तत्कौमुदीनां कुरुते तमेव
निमिच्छय देवः सफलं स जन्म ॥४३॥
चन्द्राधिकैतन्मुखचन्द्रिकाणां
दरायतं तत्किरणाद्धनानाम् ।
पुरः सरस्रस्तपृषद्द्वितीयं
रदावलिद्वन्द्वति बिन्दुवृन्दम् ॥४४॥
सेयं ममैतद्विरहार्तिमूर्च्छा
तमीविभातस्य विभाति संध्या ।
महेन्द्रकाष्ठागतरागकर्त्री
द्विजैरमीभिः समुपास्यमाना ॥४५॥
राजौ द्विजानामिह राजदन्ताः
संबिभ्रति श्रोत्रियबिभ्रमं यत् ।
उद्वेगरागादिमृजावदाताः
चत्वार एते तदवैमि मुक्ताः ॥४६॥
शिरीषकोषादपि कोमलाया
वेधा विधायाङ्गमशेषमस्याः ।
प्राप्तप्रकर्षः सुकुमारसर्गे
समापयद्वाचि मृदुत्वमुद्राम् ॥४७॥
प्रसूनबाणाद्वयवादिनी सा
काचिद्द्विजेनोपनिषत्पिकेन ।
अस्याः किमास्यद्विजराजतो वा
नाधीयते भैक्षभुजा तरुभ्यः ॥४८॥
पद्माङ्कसद्मानमवेक्ष्य लक्ष्मीम्
एकस्य विष्णोः श्रयणात्सपत्नीम् ।
आस्येन्दुमस्या भजते जिताब्जं
सरस्वती तद्विजिगीषया किम् ॥४९॥
कण्ठे वसन्ती चतुरा यदस्याः
सरस्वती वादयते विपञ्चीम् ।
तदेव वाग्भूय मुखे मृगाक्ष्याः
श्रोतुः श्रुतौ याति सुधारसत्वम् ॥५०॥
विलोकितास्या मुखमुन्नमय्य
किं वेधसेयं सुषमासमाप्तौ ।
धृत्युद्भवा यच्चिबुके चकास्ति
निम्ने मनागङ्गुलियन्त्रणेव ॥५१॥
प्रियामुखीभूय सुखी सुधांशुः
जयत्ययं राहुभयव्ययेन ।
इमां दधाराधरबिम्बलीलां
तस्यैव बालं करचक्रवालम् ॥५२॥
अस्या मुखस्यास्तु न पूर्णमास्यं
पूर्णस्य जित्वा महिमा हिमांशुम् ।
भ्रूलक्ष्म खण्डं दधदर्धमिन्दुः
भालस्तृतीयः खलु यस्य भागः ॥५३॥
व्यधत्त धाता मुखपद्ममस्याः
सम्राजमम्भोजकुलेऽखिलेऽपि ।
सरोजराजौ सृजतोऽदसीयां
नेत्राभिधेयावत एव सेवाम् ॥५४॥
दिवारजन्यो रविसोमभीते
चन्द्राम्बुजे निक्षिपतः स्वलक्ष्मीम् ।
आस्य यदास्या न तदा तयोः श्री-
एकश्रियेदं तु कदा न कान्तम् ॥५५॥
अस्या मुखश्रीप्रतिबिम्बमेव
जलाच्च तातान्मुकुराच्च मित्रात् ।
अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ
विभूषणं याचितकं कदाचित् ॥५६॥
अर्काय पत्ये खलु तिष्ठमाना
भृङ्गैर्मितामक्षिभिरम्बुकेलौ ।
भैमीमुखस्य श्रियमम्बुजिन्यो
याचन्ति विस्तारितपद्महस्ताः ॥५७॥
अस्या मुखेनैव विजित्य नित्य-
स्पर्धी मिलत्कुङ्कुमरोषभासा ।
प्रसह्य चन्द्रः खलु नह्यमानः
स्यादेव तिष्ठत्परिवेषपाशः ॥५८॥
विधोर्विधिर्बिम्बशतानि लोपं
लोपं कुहूरात्रिषु मासि मासि ।
अभङ्गुरश्रीकममुं किमस्या
मुखेन्दुमस्थापयदेकशेषम् ॥५९॥
कपोलपत्रान्मकरात्सकेतुः
भ्रूम्यां जिगीषुर्धनुषा जगन्ति ।
इहावलम्ब्यास्ति रतिं मनोभू
रज्यद्वयस्यो मधुनाधरेण ॥६०॥
वियोगबाष्पाञ्चितनेत्रपद्म-
च्छद्मार्पितोत्सर्गपयः प्रसूनौ ।
कर्णो किमस्या रतितत्पतिभ्यां
निवेद्यपूपौ विधिशिल्पमीदृक् ॥६१॥
इहाविशद्येन पथातिवक्रः
शास्त्रौघनिष्यन्दसुधाप्रवाहः ।
सोऽस्याः श्रवः पत्रयुगे प्रणालि-
रेखेव धावत्यभिकर्णकूपम् ॥६२॥
अस्या यदष्टादश संविभज्य
विद्याः श्रुती दध्रतुरर्धमर्धम् ।
कर्णान्तरुत्कीर्णगभीररेखः
किं तस्य संख्यैव नवा नवाङ्कः ॥६३॥
मन्येऽमुना कर्णलतामयेन
पाशद्वयेन च्छिदुरेतरेण ।
एकाकिपाशं वरुणं विजिग्येऽ–
नङ्गीकृतायासतती रतीशः ॥६४॥
आत्मैव तातस्य चतुर्भुजस्य
जातश्चतुर्दोरुचितः स्मरोऽपि ।
तच्चापयोः कर्णलते भ्रुवोर्ज्ये
वंशत्यगंशौ चिपिटे किमस्याः ॥६५॥
ग्रीवाद्भुतैवावटुशोभितापि
प्रसाधिता माणवकेन सेयम् ।
आलिङ्ग्यतामप्यबलम्बमाना
सुरूपताभागखिलोर्ध्वकाया ॥६६॥
कवित्वगानप्रियवादसत्यान्
यस्या विधाता व्यधिताधिकण्ठम् ।
रेखात्रयन्यासमिषादमीषां
वासाय सोऽयं विबभाज सीमाः ॥६७॥
बाहू प्रियाया जयतां मृणालं
द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् ।
उच्चैस्तु तच्चित्रममुष्य भग्नः
योलोक्यते निर्व्यथनं यदन्तः ॥६८॥
अजीयतावर्तशुभंयुनाभ्यां
दोर्भ्यां मृणालं किमु कोमलाभ्याम् ।
निःसूत्रमास्ते घनपङ्कमृत्सु
मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥६९॥
रज्यन्नखस्याङ्गुलिपञ्चकस्य
मिषादसौ हैङ्गुलपद्मतूणे ।
हैमैकपुङ्खास्ति विशुद्धपर्वा
प्रियाकरे पञ्चशरी स्मरस्य ॥७०॥
अस्याः करस्पर्धनगर्धनर्द्धिः
बालत्वमापत् खलु पल्लवो यः ।
भूयोऽपि नामाधरसाम्यगर्वं
कुर्वन्कथं वास्तु न स प्रवालः ॥७१॥
अस्यैव सर्गाय भवत्करस्य
सरोजसृष्टिर्मम हस्तलेखः ।
इत्याह धाता हरिणेक्षणायां
किं हस्तलेखीकृतया तयाऽस्याम् ॥७२॥
किं नर्मदाया मम सेयमस्या
दृश्याभितो बाहुलतामृणाली ।
कुचौ किमुत्तस्थतुरन्तरीये
स्मरोष्मशुष्यत्तरबाल्यवारः ॥७३॥
तालं प्रभु स्यादनुकर्तुमेता
वुत्थानसुस्थौ पतितं न तावत् ।
परं च नाश्रित्य तरुं महान्तं
कुचौ कृशाङ्ग्याः स्वत एव तुङ्गौ ॥७४॥
एतत्कुचस्पर्धितया घटस्य
ख्यातस्य शास्त्रेषु निदर्शनत्वम् ।
तस्माच्च शिल्पान्मणिकादिकारी
प्रसिद्धनामाजनि कुम्भकारः ॥७५॥
गुच्छालयस्वच्छतमोदबिन्दु
वृन्दाभमुक्ताफलफेनिलाङ्के ।
माणिक्यहास्य विदर्भसुभ्रू
पयोधरे रोहति रोहितश्रीः ॥७६॥
निःशङ्कसंकोचितपङ्कजोयम्
अस्यामुदीतो मुखमिन्दुबिम्बः ।
चित्रं तथापि स्तनकोकयुग्मं
न स्तोकमप्यञ्चति विप्रयोगम् ॥७७॥
आभ्यां कुचाभ्यामिभकुम्भयोः श्री-
रादीयतेऽसावनयोर्न ताभ्याम् ।
भयेन गोपायितमौक्तिकौ तौ
प्रव्यक्तमुक्तभरणाविमौ यत् ॥७८॥
कराग्रजाग्रच्छतकोटिरर्थी
ययोरिमौ तौ तुलयेत्कुचौ चेत् ।
सर्वं तदा श्रीफलमुन्मदिष्णु
जातं वटीमप्यधुना न लब्धुम् ॥७९॥
स्तनावटे चन्दनपङ्किलेऽस्या
जातस्य यावद्युवमानसानाम् ।
हारावलीरत्नमयूखधारा-
काराः स्फुरन्ति स्खलनस्य रेखाः ॥८०॥
क्षीणेन मध्येऽपि सतोदरेण
यत्प्राप्यते नाक्रमणं वलिभ्यः ।
सर्वाङ्गशुद्धौ तदनङ्गराज्य
विजृम्भितं भीमभुवीह चित्रम् ॥८१॥
मध्यं तनूकृत्य यदीदमीयं
वेधा न दध्यात्कमनीयमंशम् ।
केन स्तनौ संप्रति यौवनेऽस्याः
सृजेदनन्यप्रतिमाङ्गयष्टेः ॥८२॥
गौरीव पत्या सुभगा कदाचित्
कर्तेयमप्यर्धतनूसमस्याम् ।
इतीव मध्ये विदधे विधाता
रोमावलीमेचकसूत्रमस्याः ॥८३॥
रोमावलीरज्जुमुरोजकुम्भौ
गम्भीरमासाद्य च नाभिकूपम् ।
सद्रष्टितृष्णा विरमेद्यदि स्यान्
नैषां बतैषा सिचयेन गुप्तिः ॥८४॥
उन्मूलितालानविलाभनाभिः
छिन्नस्खलच्छृङ्खलरोमराजिः ।
मत्तस्य सेयं मदनद्विपस्य
प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥८५॥
रोमावलिभ्रूकुसुमैः स्वमौर्वी-
चापेषुभिर्मध्यललाटमूर्ध्नि ।
व्यस्तैरपि स्थास्नुभिरेतदीयै-
र्जैत्रः स चित्रं रतिजानिवीरः ॥८६॥
पुष्पाणि बाणाः कुचमण्डनानि
भ्रुवौ धनुर्भालमलंकरिष्णु ।
रोमावली मध्यविभूषणं ज्या
तथापि जेता रतिजानिरेतैः ॥८७॥
अस्याः खलु ग्रन्थिनिबद्धकेश-
मल्लीकदम्बप्रतिबिम्बवेषात् ।
स्मरप्रशस्ती रजताक्षरेयं
पृष्ठस्थलीहाटकपट्टिकायाम् ॥८८॥
चक्रेण विश्वं युधि मत्स्यकेतुः
पितुर्जितं वीक्ष्य सुदर्शनेन ।
जगज्जिगीषत्यमुना नितम्बम्
अयेन किं दुर्लभदर्शनेन ॥८९॥
रोमवलीदण्डनितम्बचक्रे
गुणं च लावण्यजलं च बाला ।
तारुण्यमूर्तेः कुचकुम्भकर्तुः
बिभर्ति शङ्केः सहकारिचक्रम् ॥९०॥
अङ्गेन केनापि विजेतुमस्या
गवेष्यते किं चलपत्रपत्रम् ।
न चेद्विशेषादितरच्छदेभ्यः
तस्यास्तु काम्पस्तु कुतो भयेन ॥९१॥
भ्रूश्चित्रलेखा च तिलोत्तमास्या
नासा च रम्भा च यदूरुसृष्टिः ।
दृष्टा ततः पूरयतीयमेकान्
एकाप्सरः प्रेक्षणकौतुकानि ॥९२॥
रम्भापि किं चिह्नयति प्रकाण्डं
न चात्मनः स्वेन न चैतदूरु ।
स्वस्यैव येनोपरि सा ददाना
पत्राणि जागर्त्यनयोर्भ्रमेण ॥९३॥
विधाय मूर्धानमदश्चरं चेन्-
मुञ्चेत्तपोभिः स्मरसामभावम् ।
जाड्यं च नाञ्चेत्कदली बलीयस्-
तदा यदि स्यादिदमूरुचारुः ॥९४॥
ऊरुप्रकाण्डद्वितयेन तन्व्याः
करः पराजीयत वारणीयः ।
युक्तं ह्रिया कुण्डलनच्छलेन
गोपायति स्वं मुखपुष्करं सः ॥९५॥
अस्यां मुनीनामपि मोहमूहे
भृगुर्महान्यत्कुचशैलशीली ।
नानारदाह्लादि मुखं श्रितोरुः
व्यासो महाभारतसर्गयोग्यः ॥९६॥
क्रमाद्गता पीवरताधिजङ्घं
वृक्षाधिरूढं विदुषी किमस्याः ।
अपि भ्रमीभङ्गिभिरावृताङ्गं
वासो लतावेष्टितकप्रवीणम् ॥९७॥
अरुन्धतीकामपुरंघ्रिलक्ष्मी-
जन्भद्विषद्दारनवाम्बिकानाम् ।
चतुर्दशीयं तदिहोचितैव
गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥९८॥
अस्याः पदौ चारुतया महान्ता-
वपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
जाता प्रवालस्य महीरुहाणां
जानीमहे पल्लवशब्दलब्धिः ॥९९॥
जगद्वधूमूर्धसु रूपदर्पाद्
यदेतयादायि पदारविन्दम् ।
तत्सान्द्रसिन्दूरपरागरागैः
ध्रुवं प्रवालप्रबलारुणं तत् ॥१००॥
रुषारुणा सर्वगुणैर्जयन्त्या
भैम्याः पदं श्रीः स्म विधेर्वृणीते ।
ध्रुवं स तामच्छलयद्यतः सा
भृशारुणैतत्पदभाग्विभाति ॥१०१॥
यानेन तन्व्या जितदन्तिनाथौ
पादाब्जराजौ परिशुद्धपार्ष्णी ।
जाने न शुश्रूषयितुं स्वमिच्छू
नतेन मूर्ध्ना कतरस्य राज्ञः ॥१०२॥
कर्णाक्षिदन्तच्छदबाहुपाणि-
पादादिनः स्वाखिलतुल्यजेतुः ।
उद्वेगभागद्वयताभिमाना-
दिहैव वेधा व्यधित द्वितीयम् ॥१०३॥
तुषारनिःशेषितमब्जसर्गं
विधातुकामस्य पुनर्विधातुः ।
पञ्चस्विहास्याङ्घ्रिकरेष्वभिख्या-
भिक्षाधुना माधुकरीसदृक्षा ॥१०४॥
एष्यन्ति यावद्गणनाद्दिगन्तान्
नृपाः स्मरार्ताः शरणे प्रवेष्टुम् ।
इमे पदाब्जे विधिनापि सृष्टाः
तावत्य एवाङ्गुलयोऽत्र लेखाः ॥१०५॥
प्रियानखीभूतवतो मुदेदं
व्यधाद्विधिः साधुदशत्वमिन्दोः ।
एतत्पदच्छद्मसरागपद्म-
सौभाग्यभाग्यं कथमन्यथा स्यात् ॥१०६॥
यशः पदाङ्गुष्ठनखौ मुखं च
बिभर्ति पूर्णेन्दुचतुष्टयं या ।
कला चतुःषष्टिरुपैतु वासं
तस्यां कथं सुभ्रुवि नाम नास्याम् ॥१०७॥
सृष्टातिविश्वा विधिनैव तावत्
तस्यापि नीतोपरि यौवनेन ।
वैदग्ध्यमध्याप्य मनोभुवेयम्
अवापिता वाक्पथपारमेव ॥१०८॥
इति स चिकुरादारभ्यैनां नखावधि वर्णयन्
हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः ।
हृदयभरणोद्वेलनन्दः सखीवृतभीमजा-
नयनविषयीभावे भावं दधार धराधिपः ॥१०९॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
गौडर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महा-
काव्ये चारुणि वैरसेनिचरिते सर्गोऽगमत्सप्तमः ॥११० ॥
N/A
References : N/A
Last Updated : January 19, 2013
TOP