प्रेतकाण्डः - अध्यायः २३
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
गरुड उवाच ।
किङ्किं कुर्वन्ति वै प्रेताः पिशाचत्वेव्यवस्थिताः ।
वदन्ति वा कदाचित्किं तद्वदस्व सुरेश्वर ॥१॥
श्रीभगवानुवाच ।
तेषां स्वरूपं वक्ष्यामि चिह्नं स्वप्नं यथातथम् ।
क्षुत्पिपासार्दितास्ते वै प्रविशेयुः स्ववेश्मनि ॥२॥
प्रतिष्ठा वायुदेहेषु शयानांस्तु स्ववंशजान् ।
तत्र यच्छन्ति लिङ्गानि दर्शयन्ति खगेश्वर ॥३॥
स्वपुत्रस्वकलत्राणि स्वबन्धुन्तत्र गच्छति ।
हयो गजो वृषो मर्त्योदृश्यते विकृताननः ॥४॥
शयानं विपरीतं तु आत्मानं च विपर्ययम् ।
उत्थितः पश्यति यस्तु तद्विन्द्यात्प्रेतनिर्मितम् ॥५॥
स्वप्ने नरौ हि निगडैर्बध्यते बहुधा यदि ।
अन्नं च याचते स्वप्ने कुवेषः पूर्वजो मृतः ॥६॥
स्वप्ने यो भुज्यमानस्य गृहीत्वान्नं पलायते ।
आत्मनस्तु परो वापि तृषार्तस्तु जलं पिबेत् ॥७॥
वृषभारोहणं स्वप्ने वृषभैः सह गच्छति ।
उत्पत्य गगनं याति तीर्थे याति क्षुधातुरः ॥८॥
स्ववाचा वदते यस्तु गोवृषद्विजावाजिषु ।
लिङ्गे गजे तथा देवे भूते प्रेते निशाचरे ॥९॥
स्वप्नमध्ये तु पक्षीन्द्र प्रेतलिङ्गान्यनेकधा ।
स्वकलत्रं स्वबन्धुं वा स्वसुतं स्वपतिं विभुम् ।
विद्यमानं मृतं पश्येत्प्रेतदोषेण निश्चितम् ॥१०॥
याचते यः परं स्वप्ने क्षुत्तृड्भ्यां च परिप्लुतः ।
तीर्थे गत्वा दहेत्पिण्डान्प्रेतदौषैर्न संशयः ॥११॥
निर्गच्छेद्वा गृहाद्वापि स्वप्ने पुत्रस्तथा पशुः ।
पिता भ्राता कलत्रं च प्रेतदोषैस्तु पश्यति ॥१२॥
चिह्नान्येतानि पक्षीन्द्र प्रायश्चित्तं निवेदयेत् ।
कृत्वा स्नानं गृहे तीर्थे श्रीवृक्षे तर्पणं जलैः ॥१३॥
कृष्णधान्यानि पूजां च प्रदद्याद्वेदपारगे ।
होमं कुर्याद्यथाशक्ति सम्पूर्णं वाचयेत्सुधीः ॥१४॥
एतद्धि श्रद्धया यस्तु प्रेतलिङ्गनिदर्शनम् ।
पठते शृणुते वापि प्रेतचिह्नं विनश्यति ॥१५॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रेतकृतितदुक्तितच्चिह्नतद्विमुक्त्युपायनिरूपणं नाम त्रयोविंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP