प्रेतकाण्डः - अध्यायः २९
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
श्रीकृष्ण उवाच ।
साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै ।
शृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥१॥
कम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम् ।
यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥२॥
गुह्याद्गुह्यतरं वत्स नाख्यातं कस्यचित्क्वचित् ।
भक्तस्त्वं हि महाभाग सर्वं ते कथयाम्यहम् ॥३॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
येन केनाप्युपायेन कार्यं जन्म सुतस्य च ॥४॥
तारयेन्नरकात्पुत्रो यदि मोक्षो न विद्यते ।
दाहः पुत्रेण कर्तव्यो देयः पौत्रेण पावकः ॥५॥
तिलैर्दर्भैश्च भूम्यां वै कुटी धातुमती भवेत् ।
पञ्चरत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥६॥
लिप्यात्तु गोमयैर्भूमिं तिलान्दर्भांश्च निः क्षिपेत् ।
तस्यामेवातुरो मुक्तः सर्वं दहति पातकम् ॥७॥
दर्भमूलीनयेत्स्वर्गं संस्थितं नात्र संशयः ।
दर्भांस्तत्र हि ये भूम्यां तिलयुक्तान संशयः ॥८॥
सर्वत्र वसुधा पूता यत्र लेपो न विद्यते ।
यत्र लेपः स्थितस्तत्र पुनर्लेपेन शुध्यति ॥९॥
यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः ।
अलिप्ते आतुरं मुक्तं विशन्त्येते न संशयः ॥१०॥
नित्यहोमं तथा श्राद्धं विप्राणां पादशोधनम् ।
मण्डलेन विना भूम्यां कुर्वन्त्येतच्च निष्फलम् ॥११॥
आतुरो मुच्यते नैव मण्डलेन विना भुवि ।
ब्रह्मा रुद्रश्च विष्णुश्च श्रीर्हुताशन एव च ।
मण्डले चोपतिष्ठन्तस्तस्मात्कुर्वीत मण्डलम् ॥१२॥
अन्यथा म्रियते यस्तु बालो वृद्धो युवापि वा ।
योन्यन्तरं स वै गच्छेत्क्रीडते वायुना सह ॥१३॥
मिश्रितं लोहताम्रं तु तथैव जन्म जायते ।
तस्मैवं वायुभूतस्य न श्राद्धं नोदक क्रिया ॥१४॥
मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्य पवित्रकाः ।
असुरा दानवा दैत्यास्तृप्यन्ति तिलदानतः ॥१५॥
तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्रसन्निभाः ।
ते मे दहन्तु पाषानि शरीरेण कृतानि च ॥१६॥
एक एव तिलद्रोणो हेमद्रोणतिलैः समः ।
तर्पणे दानहोमे च दत्तो भवति चाक्षयः ॥१७॥
दर्भा मल्लोमसम्भूतास्तिलाः स्वेदसमुद्भवाः ।
तृप्ताः स्युर्देवता दानैः श्राद्धेन पितरस्तथा ।
प्रयोगविधिना ब्रह्मा विश्वञ्चाप्युपजीवनात् ॥१८॥
सव्ययज्ञोपवीतेन ब्रह्माद्यास्तृप्तिमान्पुयुः ।
अपसव्येन तृप्यन्ति पितरो दिविदेवताः ॥१९॥
अपसव्यादितो ब्रह्मा दर्भमध्ये तु केशवः ।
दर्भाग्रे शङ्करं विद्यात्त्रयो देवाः कुशे स्थिताः ॥२०॥
विप्रा मन्त्राः कुशा वह्निस्तुलसी च खगेश्वर ।
नैते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः ॥२१॥
कुशाः पिण्डेषु निर्माल्याः ब्राह्मणाः प्रेतभोजने ।
मन्त्राः शूद्रेषु पतिताश्चितायाश्च हुताशनः ॥२२॥
तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ।
पञ्च प्रवहणान्येव भवाब्धौ मज्जतां सताम् ॥२३॥
विष्णुरेकादशी गीता तुलसीविप्रधेनवः ।
अपारे दुर्गसंकारे षट्पदी मुक्तिदायिनी ॥२४॥
तिलाः पवित्रास्त्रिविधा दर्भाश्च तुलसीदालम् ।
निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम् ॥२५॥
हस्ताभ्यामुद्धृतैर्दर्भैस्तोयेन प्रोक्षयेद्भुवम् ।
मृत्युकाले क्षिपेद्दर्भानातुरस्य करद्वये ॥२६॥
दर्भेषु क्षिप्यते योऽसौ दभस्तु परिवेष्टितः ।
विष्णुलोकं स वै याति मन्त्रहीनोऽपि मानवः ॥२७॥
दर्भमूलीगतो भूमौ दर्भपाणिस्तु यो मृतः ।
प्रायश्चित्तविशुद्धोऽसौ संसारेपारसागरे ॥२८॥
गोमयेनोपलिप्ते तु दर्भस्यास्तरणे स्थितः ।
तत्र दत्तेन दानेन सर्वं पापं व्यपोहति ॥२९॥
लवणं तद्रसं दिव्यं सर्वकामप्रदं नृणाम् ।
यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना ॥३०॥
पितॄणां च प्रियं भव्यं तस्मात्स्वर्गप्रदं भवेत् ।
विष्णुदेहसमुद्भूतो यतोऽयं लवणो रसः ॥३१॥
विशेषाल्लवणं दानं तेन शंसन्ति योगिनः ।
ब्राह्मण क्षत्त्रियविशां स्त्रीणां शूद्रजनस्य च ॥३२॥
आतुराणां यदा प्राणाः प्रयान्ति वसुधातले ।
लवणं तु तदा देयं द्बारस्योद्धाटनं दिवः ॥३३॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे धर्मकाण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिककर्मणि पुत्रदर्भतिलतुलसीगोभूलेपताम्रपात्रदाना दीनामावश्यकत्वनिरूपणं नामैकोनत्रिशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP