संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ३७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


तार्क्ष्य उवाच ।
उदकुम्भप्रदानं मे कथयस्व यथातथम् ।
विधिना केन कर्तव्या कृतिरेषा जनार्दन ॥१॥

किंलक्षणाः केन पूर्णाः कस्य देया जनार्दन ।
कस्मिन् काले प्रदातव्या प्रेततृप्तिप्रसाधकाः ॥२॥

श्रीकृष्ण उवाच ।
सत्यं पुनः प्रवक्ष्यामि उदकुम्भप्रदानकम् ।
प्रेतोद्देशेन दातव्या अन्नपानीयसंयुताः ।
विशेषेण महापक्षिन् प्रेतमुक्तिप्रदायकाः ॥३॥

द्वादशाहे च पण्मासे त्रैपक्षे वापि वत्सरे ।
उदकुम्भाः प्रदातव्या मार्गे तस्य सुखाय वै ॥४॥

अहन्यहनि दातव्या उदकुम्भास्तिलैर्युताः ।
सुलिप्ते भूमिभागे तु पक्कान्नजलपूरिताः ॥५॥

प्रेतस्य तत्र दातव्यं भाजनञ्च यदृच्छया ।
सुप्रीतस्तेन दत्तेन प्रेतो याम्यैः स गच्छति ॥६॥

द्वादशाहे विशेषेण उदकम्भान् प्रदापयेत् ।
विधिना तत्र सङ्कल्पय घटान् द्वादशसंख्यकान् ॥७॥

एकाषि बर्धनी तत्र पक्वान्नफलपूरिता ।
विष्णुमुद्दिश्य दातव्या संकल्प्य ब्राह्मणे शुभे ॥८॥

एको वै धर्मराजाय तेन तुष्टेन मुक्तिभाक् ।
चित्रगुप्ताय चैकं तु गतस्तत्र सुखी भवेत् ॥९॥

षोडशाद्याः प्रदातव्या माषान्नजलपूरिताः ॥१०॥

उक्त्रान्तिश्राद्धमारभ्य श्राद्धषोडषोडशकस्य तु ।
षोडशब्राह्मणानान्तु एकैकं विनिवदयेत् ॥११॥

एकादशाहात्प्रभृति देयो नित्यं दृढाह्वयः ।
पक्वान्नजलपूर्णो हि यावत्संवत्सरं दिनम् ॥१२॥

जलपात्राणि वृद्धानि दत्तानिघटकानि च ।
एका वै वर्धनी तत्र तस्यां पात्रन्तु वंशजम् ॥१३॥

वस्त्रेणाच्छादयेत्तान्तु पूजयित्वा सुगन्धिभिः ।
ब्राह्मणेभ्यो विशेषेण जलपूर्णानि दापयेत् ॥१४॥

अहन्यहनि सङ्कल्प्य विधिपूर्वं खगेश्वर ।
ब्राह्मणाय कुलीनाय वेदवृत्तयुताय च ॥१५॥

विद्यावृत्तवते देयं मूर्खे तन्न कदाचन ।
समर्थो वेदवृत्ताढ्यस्तारणे तरणेऽपि च ॥१६॥

इति श्रीगारुडे महापुराणे द्वितीयांशे प्रेतकल्पे धर्मकाण्डे सोदकुम्भश्राद्धनिरूपणं नाम सप्तत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP