प्रेतकाण्डः - अ्ध्यायः २५
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
श्रीविष्णुरुवाच ।
अतः परं प्रवक्ष्यामि पुरुषस्त्री विनिर्णयम् ।
जीवन्वापि मृतो वापि पञ्चवर्षाधिकोऽपि वा ॥१॥
पूर्णे तु पञ्चमे वर्षे पुमांश्चैव प्रतिष्ठितः ।
सर्वैन्द्रियाणि जानाति रूपारूपविपर्ययौ ॥२॥
पूर्वकर्मविपाकेन प्राणिनां वधबन्धनम् ।
विप्रादीनन्त्यजान्सर्वान्पापं मारयति ध्रुवम् ॥३॥
गर्भे नष्टे क्रिया नास्ति दुग्धं देयं मृते शिशौ ।
परं च पायसं क्षीरं दद्याद्वलविपत्तितः ॥४॥
एकादशाहं द्वादशाहं वृषं वृषविधिं विना ।
महादानविहीनं च कुमारे कृत्यमादिशेत् ॥५॥
कुमाराणां चैव बालानां भोजनं वस्त्रवेष्टनम् ।
बाले वा तरुणे वृद्धे घटो भवति वै मृते ॥६॥
भूमौ विनिः क्षिपेद्बालं द्विमासोनं द्विवार्षिकम् ।
ततः परं खगश्रेष्ठ देहदाहो विधोयते ॥७॥
शिशुरा दन्तजननाद्बालः स्याद्यावदाशिखम् ।
कथ्यते सर्वशास्त्रेषु कुमारो मौञ्जिबन्धनात् ॥८॥
शूद्रादीनां कथं कुर्यात्संशयो मौञ्जिवर्जनात् ।
गर्भाच्च नवमं हित्वा शिशुरामासषोडशम् ॥९॥
बालश्चाथ परञ्ज्ञेय आमाससप्तविंशति ।
आ पञ्च वर्षात्कौमारः पौगण्डो नवहांयनः ॥१०॥
किशोरः षोडशाब्दः स्यात्ततो यौवनमादिशेत् ।
मृतोऽपि पञ्चमे वर्षे अवृतः सवृतोऽपि वा ॥११॥
पूर्वोक्तमेव कर्तव्यमीहते दशपिण्डकम् ।
स्वल्पकर्मप्रसङ्गाच्च स्वल्पाद्विषयबन्धनात् ॥१२॥
स्वल्षाद्वपुषि वस्त्राच्च क्रियां स्वल्पामपीच्छति ।
यावदुपचयो जन्तुर्यावद्विषयवेष्टितः ॥१३॥
यद्यद्यस्योपजीव्यं स्यात्तत्तद्देयमिहेच्छति ।
ब्रह्मबीजोद्भवाः पुत्रा देवर्षोणां च वल्लभाः ॥१४॥
यमेन यमदूतैश्च शास्यन्ते निश्चितं खग ।
बालो वृद्धो युबा वापि घटमिच्छन्ति देहिनः ॥१५॥
सुखं दुः खं सदा वेत्ति देही वै सर्वगस्त्विह ।
परित्यज्य तदात्मानं जीर्णां त्वचमिवोरगः ॥१६॥
अङ्गुष्ठमात्रः पुरुषो वायुभृतः क्षुधान्वितः ।
तस्माद्देयानि दानानि मृते बाले सुनिश्चितम् ॥१७॥
जन्मतः पञ्च वर्षाणि भुङ्क्ते दत्तमसंस्कृतम् ।
पञ्चवर्षाधिके बाले विपत्तिर्यदि जायते ॥१८॥
वृषोत्सर्गादिकं कर्म सपिण्डीकरणं विना ।
द्वादशे हनि सम्प्राप्ते कुर्याच्छ्राद्धानि षोडश ॥१९॥
पायसेन गुडेनापि पिण्डान्दद्याद्यथाक्रमम् ।
उदकुम्भप्रदानं च पद (उप) दानानि यानि च ॥२०॥
भोजनानि द्विजे दद्यान्महादानादि शक्तितः ।
दीपदानादि यत्किञ्चित्पञ्चवर्षाधिके सदा ॥२१॥
कर्तव्यं च खगश्रेष्ठ व्रतात्प्राक्प्रेततृप्तये ।
यदा नक्रियते सर्वं मुद्गलत्वं स गच्छति ॥२२॥
व्रतात्प्राङ्गेव देयं तु ततः पितृगणस्य च ।
स्वाहाकारेण वै कुर्यादेकोद्दिष्टानि षोडश ॥२३॥
ऋजुदर्भैस्तिलैः शुक्लैः प्राचीनावीति निश्चितम् ।
अपसव्यं च कर्तव्यं कृते यान्ति परां गतिम् ॥२४॥
पुनश्चिरायुषो भूत्वा जायन्ते स्वकुले ध्रुवम् ।
सर्वसौख्यप्रदः पुत्रः पित्रोः प्रीतिविवर्धनः ॥२५॥
आकाशमेकं हि यथा चन्द्रादित्यौ यथैकतः ।
घटादिषु पृथक्सर्वं पश्य रूपं च तत्समम् ॥२६॥
आत्मा तथैव सर्वेषु पुत्त्रेषु विचरेत्सदा ।
या यस्य प्रकृतिः पूर्वं शुक्रशोणितसङ्गमे ॥२७॥
सा (स) तेन भावयोगेन पुत्त्रास्तत्कर्मकारिणः ।
पितृरूपं समादाय कस्यचिज्जायते सुतः ॥२८॥
पितृतः कोऽपि रूपाढ्यो गुणज्ञो दानतत्परः ।
सदृशः कोऽपि लोकेऽस्मिन्न भूतो न भविष्यति ॥२९॥
अन्धादन्धो न भवति मूकान्मूको न जायते ।
बधिराद्बधिरो नैव विद्यावान्विदुषो न हि ।
अनुरूपा न दृश्यन्ते मदीयं वचनं शृणु ॥३०॥
गरुड उवाच ।
औरसक्षेत्रजाद्याश्च पुत्त्रा दशविधाः स्मृताः ।
संगृहीतः सुतो यस्तु दासीपुत्त्रश्च तेन किम् ॥३१॥
काङ्कां गतिमवाप्नोति जायो मृत्युवशं गतः ।
भवेन्न दुहिता यस्य न दौहित्रो न वा सुतः ॥३२॥
श्राद्धं तस्य कथं कार्यं विधिना केन तद्भवेत् ।
श्रीभगवानुवाच ।
मुखं दृष्ट्वा तु पुत्रस्य मुच्यते पैतृकादृणात् ॥३३॥
पौत्त्रस्य दर्शनाज्जन्तुर्मुच्यते चः ऋणत्रयात् ।
लोकानन्त्यं दिवः प्राप्तिः पुत्त्रपौत्त्र प्रपौत्त्रकैः ॥३४॥
अन्यक्षेत्रोद्भवाद्या ये भुक्तिमात्रप्रदाः सुताः ।
कुर्वीत पार्वणं श्राद्धमारैसो विधिवत्सुतः ॥३५॥
कुर्वन्त्यन्ये सुताः श्राद्धमे कोद्दिष्टं न पार्वणम् ।
ब्राह्मोढाजस्तून्नयति संगृहीतस्त्वधो नयेत् ।
श्राद्धं सांवत्सरं कुर्वञ्जायते नरकाय वै ॥३६॥
सर्वदानानि देयानि ह्यन्न दानादृते खग ।
संगृहीतः सुतः कुर्यादेकोद्दिष्टं न पार्वणम् ॥३७॥
प्रत्यब्दं पितृमातृभ्यां श्राद्धं दत्त्वा न लिप्यते ।
एकोद्दिष्टं परित्यज्य पार्वणं कुरुते यदि ॥३८॥
आत्मानं च पितॄंश्चैव स नयेद्यममन्दिरम् ।
संगृहीतस्तु यः केचिद्दासीपुत्त्रादयश्च ये ॥३९॥
तीर्थे कुर्युः पितृश्राद्धं दानं (मासं) दद्युर्द्विजन्मने ।
संगृहीतसुतो भूत्वा पाकं वा यः प्रयच्छति ॥४०॥
वृथा श्राद्धं विजानीयाच्छूद्रान्नेन यथा द्विजः ।
न प्रीणयति तच्छ्राद्धं पितामहमुखान्पितॄन् ।
एवं ज्ञात्वा स्वगश्रेष्ठ हीनजातीन्सुतांस्त्यजेत् ॥४१॥
(ब्राह्मण्यां ब्राह्मणाज्जातश्चाण्डालादधमः स्मृतः ) ।
यस्तु प्रव्रजिताज्जातो ब्राह्मण्यां शूद्रतश्च यः ॥४२॥
द्वावेतौ विद्धि चाण्डालौ सगोत्राद्यस्तु जायते ।
स्वर्यातिविहितान्पुत्रः समुत्पाद्य खगेश्वर ॥४३॥
तैः सुवृत्तैः सुखं प्राप्यं कुवृत्तैर्नरकं व्रजेत् ।
हीनजातिसमुद्भूतैः सुवृत्तैः सुखमेधते ॥४४॥
कलिकलुषविमुक्तः पूजितः सिद्धसङ्घैरमरचमरमालावीज्यमानोऽप्सरोभिः ।
पितृशतमपि बन्धून्पुत्त्रपौत्त्रप्रपौत्त्रानपि नरकनिमग्नानुद्धरेदेक एव ॥४५॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धमकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसवादे मृतबालान्त्येष्टिभिन्नाभिन्नसुतकृतान्त्येष्ट्योर्वर्णनं नाम पञ्चविंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP