अपहृति अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


निरवयवेयं यथा-

‘ श्यामं सितं च सुदृशो न दृशो: स्वरूपं किं तु स्फुटं गरलमेतदथामृतं च । नो चेत्कथं निपतनादनयोस्तदैव मोहं मुदं च नितरां दधते युवान: ॥’

अत्र प्रतिज्ञातार्थवैपरीत्ये बाधकोपन्यासाद्धेत्वपह्लुति: । अस्यां च नञा-

दिभि: साक्षात्, परमतीसद्धत्वाद्युपन्यासैश्च किंचिव्द्यवधानेन विषयस्य निषेधे बोध्यमाने प्रायशो वाक्यस्य भेद: । मिषच्छलच्छद्मकपटव्याज-वपुरात्मादिशब्दैस्तु तस्मिंस्तस्यैक्यम्‍ । क्कचिदपह्लवपूर्वकत्वं क्कचिच्चारोपपूर्व-कत्वं क्कचिद्विषयितादूप्य-विषयनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं क्कचिदुभयो: शाब्दत्वमथोभयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेति । एवम-नेके प्रकारा: संभवन्ति । परं तु न ते वैचित्र्यविशेषमावहन्तीत्यगण-नीया: । एवमपि दिड्द्मात्रमुपदर्श्यते-तत्र प्रागुक्तायां सावयवापह्लुतौ प्रथमावयवेऽपह्लवपूर्वकत्वमुभयो: शाब्दत्वं विधेयत्वं वाक्यभेदश्च । द्वितीया-

वयवे तु वक्तृगतमूढतोक्त्या तद्नतभ्रान्तिप्रतिप्रतिपत्तिव्यवहिता निषेधप्रति-पतिरिति निषेध आर्थ: । तादूप्यं शाब्दम्‍ । विधेयत्ववाक्यभेदापह्लव-पूर्वकत्वानि पूर्ववत्‍ । चतुर्थावयवे पुनरारोपपूर्वकोऽपह्लव: । उभयो: शाब्दत्वविधेयत्वे वाक्यभेदश्च प्रथमवदेव ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP