अपहृति अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इत्यत्र मुखमरविन्दं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधि-करण्येन विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न संग्रह: । न चात्र विषयनिषेधस्यापदार्थत्वं शड्कयम्‍, वाशब्दार्थत्वात्‍ । यत्तु कुवलया-नन्दाख्ये संदर्भे अप्पयदीक्षितैरपह्लुतिप्रभेदकथनप्रस्तावे पर्यस्तापह्लुत्याख्यं भेदं निरूपयद्भिरभिहितम्‍-

‘ अन्यत्र तस्यारोपार्थ: पर्यंस्तापह्लुतिस्तु स: । नायं सुधांशु: किं तर्हि सुधांशु: प्रेयसीमुखम्‍ ॥’ इति ।

अत्र चिन्त्यते-नायमपह्लुतेर्भेदो वक्तुं युक्त:, अपह्लुतिसामान्यलक्षणा-नाक्तान्तत्वात्‍ । तथा हि-‘ प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्लुति: ’ उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते सापह्लुति: ’ इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत्स्फुट एव । एवं ‘ विषयापह्लवे वस्त्व-न्तरप्रतीतावपह्लुति: ’ इत्यलंकारसर्वस्वोक्तं लक्षणमपि नात्र प्रवर्तते ।

‘ प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्‍ । साम्यादपह्लुतिर्वाक्यभेदाभेदवती द्विधा ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP