अपहृति अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


‘ वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा । अनया कथमन्यथावलीढा न हि जीवन्ति जना मनागमन्त्रा: ॥’

अत्रैकवाक्यत्वं निषेधताद्रूप्ययोरार्थत्वं अनुवाद्यत्वं च, निवेशनस्य विधेयत्वात्‍ । एवमन्यदप्यूह्यम्‍ । अत्र च लक्षणे आरोप्यमाणमित्यस्या-हार्यनिश्चयविषयीक्रियमाणमित्यर्थ: । तेन

‘ संड्‍ग्रामाड्रणसंमुखाहतकियद्विश्वंभराधीश्वर-व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा । अड्रारप्रखरै: करै: कवलयन्सद्यो जगन्मण्डलं मार्तण्डो‍ऽयमुदेति केन पशुना लोके शशाड्कीकृत: ।’

अत्र विरहिजनवाक्ये नायं शशाड्क: , अपि तु सच्छिद्रो मार्तण्ड इति तु च्छायामात्रमपह्लुते:, न त्वपह्लुत्यलंकार: । तज्ज्ञानस्य दोषविशेषजन्य-त्वेनानाहार्यत्वात्‍, किं तु भ्रान्त्यलंकार एव ।

‘ अलिर्मृगो वा नेत्रं वा यत्र किमचिद्विभासते । अरविन्दं मृगाड्को वा मुखं वेदं मृगीद्दश: ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP