अपहृति अलंकारः - लक्षण ८

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ मुखं चन्द्र इति रूपके मुखत्वसामानाधिकरण्येन चन्द्रतादूष्य-स्यारोप्यमाणतया न मुखनिषेधापेक्षेति चेत्‍, प्रकृतेऽपि तर्हि तादृश-

साधारणपुरुषत्वसामानाधिकरण्येन पुण्डरीकाक्षतादात्म्यारोपरूपमसौ राजा पुण्डरीकाक्ष इत्याकारकरूपकमेव भवितुमीष्टे, नापह्लुति: । यदपि चक्तसुपर्णदूरीकरणेन नायं पुण्डरीकाक्ष इति निषेध:, पुष्पचाप-ध्वजगत-मकरयोर्लेखनेन च मन्मथोऽयमित्युपमानारोपश्च व्यड्रयो भवितुमर्हति, तथापि नासावपह्लुति: । ‘ प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्‍ ’ इति त्वक्तृतलक्षणस्याप्यत्रासत्त्वात्‍ । अत्र हि निषेध्यस्य भगवत: पुण्डरीकाक्ष-

स्यावर्ण्यत्वेनाप्रकृतया प्रकृतनिषेधाभावात्‍ । नहि पूर्वारोपिततामात्रेण प्रकृतत्वं वक्तुं शक्यम्‍ । प्रकृतपदस्यारोपविषयपरताया ‘ निषिद्धय विषय’-मित्यादिना क्त्वाप्रत्ययफळं ब्रुवता भवतैव तत्र स्फुटीकरणात्‍ । काव्य-प्रकाशकृतापि ‘ प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्लुति: ’ इति सूत्रं व्याचक्षाणेन ‘ उपमेयमसत्यं कृत्वा’ इत्यादिना प्रकृतपदस्योपमेयपरतयैव

व्याख्यानाञ्च । प्राचीनमतसिद्धेयमपह्लुतिर्व्यड्रयत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम्‍, ‘ प्रकृतस्य निषेधेन ’ इत्यादिलक्षणं कुर्वता भवतैव तस्या बहि:करणात्‍ ।

एवमप्युक्तपद्ये कोऽलंकारो व्यड्रय इति चेत्‍ । विच्छित्तिवैलक्षण्ये-ऽतिरिक्त:, अन्यथा त्वपह्लुतिरेवास्तु । लक्षणं तु तदा प्रसक्तयक्तिंचिद्वस्तु-निषेधसामानाधिकरण्येन क्तियमाणवस्त्वन्तरारोपत्वमेव । तस्मात्सर्व-मेवेदमह्लदयंगमं सह्लदयानाम्‍ ।

इति रसगड्राधरे अपह्रतिप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP