प्रतिवस्तूपमा अलंकारः - लक्षण ३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यथा वा-
‘ गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥ ’
अत्र शाब्देन दृष्टान्तेन तद्नत: सामान्यावच्छिन्नव्यतिरेकसहचार आक्षिप्यते । तेन च सामान्यावच्छिन्नान्वयनियमसिद्धिद्वारा प्रकृतो विशेषा-वच्छिन्नान्वयनिम: सिध्यतीति प्रायश: सर्वत्र वैधर्म्ये सथिति: । एवम-न्वयेन प्रतिवस्तूपमायामपि नियमविशेषस्य प्रकृतवाक्यार्थत्वेऽन्वयदृष्टान्तेन सामान्यान्वयनियमसिद्धिद्वारा तत्सिद्धि: । नियमविशेषरहितकेवलार्थमात्रस्य प्रकृतत्वे त्वप्रकृतवाक्यार्थनिरूपितमौपम्यमात्र गम्यम्, न तु नियम: , अप्रयोजकत्वात् । यथा ‘ भैरग्रे भासते चन्द्रो भुवि भाति भवान्बुधै: ’ इत्यादौ ।
ननु कथमस्मिन्नलंकारे सर्वत्रौपम्यं गम्यमित्युच्यते । यावता प्रागु-पदर्शितायां वैधर्म्यप्रतिवस्तूपमायां वाक्यार्थयोरौपम्यस्य बाधात् । नहि पचति नपचतीति वाक्यार्थयो: पाकक्तियामात्रसाम्यादौपम्यं गम्यते ।
निषेधप्रतियोगित्वेनोत्तरवाक्यार्थे तस्या अप्ररोहादिति चेत् न । अप्रकृतवाक्यार्थाक्षिप्तस्य स्ववैपरीत्यस्यैवौपम्याश्रयत्वात् । न च वाक्यार्थ-योरौपम्यमिति यदुक्तं तत्कथं संगच्छतामिति, वाक्यवेद्यस्यैव प्रकृते वाक्यार्थत्वेनेष्टत्वात् । तथा हि-
‘ तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिक: को मरन्दानामन्तरेण मधुव्रतम् ॥ ’
अत्र विरलो जानातीति विधिमुखोऽपि प्रकृतवाक्यार्थ: ‘ पुरुषविशेषं विना न सर्वे जानन्ति ’ इत्यर्थविशेषमादायैव पर्यवसितो भवतीति निषेध-रूपवाक्यार्थस्य तादृशेनैव द्वितीयवाक्यार्थेन सह गम्यते सादृश्यं स्फुटमेव । यत्र तु ‘ वंशभव: ’ इत्यादौ प्रागुदाह्लते प्रकृतवाक्यार्थो विधिरूप: सड्रविशेष-हेतुकत्वस्य पूजनादौ विधेयत्वादवसीयते, तत्रापि हेतुताघटकव्यतिरेकस्य गुणतया रतीयमानस्यौपम्यं निर्बाधमिति न दोष: । इयं च वाक्यार्थयो:
सामान्यविशेषभावाऽनापन्नयोर्भवति, तत्रैवौपम्यस्य गम्यत्वात् । सामान्य-विशेषयोस्त्वौपम्याप्रतीते: समर्थ्यसमर्थकयोरर्थान्तरन्यासो वक्ष्यते ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP