प्रतिवस्तूपमा अलंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यत्तु कुवल्यानन्दकृता वैधर्म्यमुदाह्लतम्-
‘ विद्वानेव हि जानाति विद्वज्जनपरिश्रमम् । नहि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम् ॥ ’
‘ यदि सन्ति गुणा: पुंसां विकसन्त्येव ते स्वयम् । नहि कस्तूरिकामोद: शपथेन विभाव्यते ॥ ’ इति ।
तत्र ‘ विद्वानेव हि जानाति ’ इति पद्यं भवतु नाम यथाकथंचिद्वैधर्म्यस्यो-दाहरणम् , ‘ यदि सन्ति ’ इति तु न युक्तम् । वैधर्म्योदाहरणं हि प्रस्तुत-
धर्मिविशेषोपारूढार्थदाढर्याय स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्य-न्तरारूढस्याप्रकृतार्थस्य कथनम् । प्रकृते च ‘ यदि सन्ति तदा स्वयमेव प्रकाशन्त ’ इत्यर्थस्य प्रस्तुतस्य व्यतिरेकस्तु असन्त उपायान्तरेणापि न प्रकाशन्त इति । नह्यत्र द्वितीयार्धेन तत्सजातीयोऽर्थो निबध्यते । निबध्यते च स्वयं प्रकाशन्ते, न परेणेत्यस्य प्रस्तुतस्यैव सजातीय: । शपथेन न विभाव्यते, किं तु स्वयमेवेति प्रकृतार्थानुरूपतयैव पर्यवसानात् । नहि वैधर्य्मे प्रकृतानु-रूप्यं जातुचिद्धटते, व्याघातात् । तस्मात् साधर्म्येणैवेदमुदाहरणं संगतम् , न वैधर्म्येण । न चोपायान्तरनिवृत्त्यघटितप्रस्तुतवाक्यार्थेन कथं नाम तद्धटित उत्तरवाक्यार्थ: साधर्म्यमर्हतीति वाच्यम् । स्वयमित्यत्राकृष्टेन एवकारेणैवोपायान्तरनिवृत्ते: प्रस्तुतवाक्यार्थे निवेशितत्वात् । अत्यन्तायोग-व्यवच्छेदस्योत्तरवाक्यार्थाननुगृहीतत्वेन क्रियासमभिव्याहारायोगात् ।
‘ सन्त: स्वत: प्रकाशन्ते गुणा न परतो नृणाम् । आमोदो नहि कस्तूर्या: शपथेनानुभाव्यते ॥’
अत्र स्वतोऽनुभूयत इत्यत्र पर्यवसितेनोत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य यथा साधर्म्यमेव, न वैधर्म्यम् , तथा ‘ यदि सन्ति-’ इति पद्येऽपीति नञ् मात्राश्रयणादेव वैधर्म्यं जगदे, न तु निपुणतरं निरीक्षितमायुष्मता । यदि तु ‘ यदि सन्ति-’ इति पद्यस्य ‘ नहि कस्तूरिका-’ इत्याद्युत्तरार्धं
दूरीकृत्य ‘ वाचा वाचस्पतेर्व्योम्रि विलसन्ति न वल्लय: ’ इति क्तियते, तदा वैधर्म्यं प्रकृतविपरीतार्थघटनाद्युक्तम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP