प्रतिवस्तूपमा अलंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इति, सदा ललनाड्रसंनिवेश इव कीदृशीं कमनीयतामावहेदिति सह्लदयैराकलनीयम्‍ ।
एवम्‍-
‘ तवामृतस्यन्दिनि पादपड्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरक्म हि बीक्षते ॥ ’
इति कुवलयानन्दोदाह्लते आलुवन्दारुस्तोत्रपद्ये वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वकवीक्षणप्रतिषेधस्य च ‘ सविशेषणे हि-’ इति
न्यायेनेच्छाप्रतिषेधधर्मपर्यवसायितया यद्यपि धर्मैक्यं सुसंपादम्‍ । अस्तु वा दृष्टान्तालंकार: । तथापि पादपड्कजे निवेशितात्मेत्याधारसप्तम्या: स्थितेऽरविन्दे इति सतिसप्तमी वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावयोरन्यतरे-णापि प्रकारेण नानुरूपा, इत्यसंष्टुलता स्थितैव । ‘ स्थितोऽरन्विदे मकर-न्दनिर्भरे ’ इति चेत्क्रियते तदा तु रमणीयम्‍ ।
तस्मादेवंजातीयकेष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैस्त-द्धटकविभक्त्यनुरूपाभिर्विभक्तिभिस्तदन्वयानुरूपेण चान्वयेन भाव्यमिति सह्लदयह्लदय्म प्रष्टव्यम्‍ ।
‘ वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीप: । विधुरपि भजतेतरां कलड्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्रा: ॥ ’
अत्र वहनाधानभजनभरणानां वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं मालारूपा ।

इति रसगंगाधरे प्रतिवस्तूपमाप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP