प्रतिवस्तूपमा अलंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ-
‘ खलास्तु कुशला: स्वीयहितप्रत्यूहकर्मणि । निपुणा: फणिन: प्राणानपहर्तुं निरागसाम्‍ ॥ ’
इत्यत्रासंष्ठुलवाक्यार्थेऽतिप्रसड्र: , कुशलनिपुणपदाभ्यामेकस्यैव धर्मस्यो-पादानात्‍ । न चात्रौपम्यं न गम्यमिति वक्तुं शक्यम्‍ । निपुणकुशलपदाभ्यां प्रतिपादितेन शब्दसामान्यात्मना धर्मेण खलफणिनोरौपम्यस्य प्रत्ययात्‍ ।
नापि धर्मिणोरौपम्ये‍ऽपि विशिष्टवाक्यार्थयोस्तन्न तथेति वाच्यम्‍, अव-यवद्वारा तयोरपि तस्य तथात्वात्‍ । स्वभावसिद्धत्वेनानुपात्तधर्मेणौपम्यस्य गम्यत्वाच्चेति चेत्‍ , मैवम्‍ । साधारणधर्मस्य वस्तुप्रतिवस्तुभावोक्त्या तदितरपदार्थानां बिम्बप्रतिबिम्बभावो घटनाया आनुरूप्यं च विवक्षितम्‍ । प्रकृते च खलफणिनो:प्राणिहितयोश्च सत्यपि बिम्बप्रतिबिम्बभावे हरण-प्रत्यूहकरणयोर्नाश-प्रागभावपर्यवसितयोराननुरूप्यान्न बिम्बप्रतिबिम्ब-
भाव इति न दोष: । यद्वा अस्त्वत्र प्रतिवस्तूपमा । परं त्वसंष्ठुलतारूपस्य वाक्यार्थसामान्यदोषस्य सत्त्वादचमत्कारिणी, दुष्टोपमादिवत्‍ । वाक्यार्थो हि गाढतरव्युत्पत्तिनिपुणीकृतान्त: करणैर्नानाविधपदार्थरचनापरिवृत्ति-समर्थैरेव कविभी रचित: कामपि कमनीयतामाधत्ते, नेतर: ।
तथा हि-
‘ उपासनामेत्य पितु: स्म रज्यते दिने दिने सावसरेषु बन्दिनाम्‍ । पठत्सु ते उ प्रतिभूपतीनलं विनिद्ररोमाजनि श्रृण्वती नलम्‍ ॥’
अस्मिन्नैषधीयपद्ये ( १। ३४ ) द्वयो: क्तिययोरुद्देश्यविधेयभावेन गुणप्रधानभावमकुर्वता, बन्दिन: षष्ठयन्ततया सप्तम्यन्ततया च द्वि: परा-मृशता कविना वाक्यार्थ: क्रमेलकवदसंष्ठुलतां प्रापित: । यदि च स एव वाक्यार्थ: प्रकारान्तरेण निर्मीयते ‘ उपासनार्थं पितुरागतापि सा निविष्टचित्ता वचनेषु बन्दिनाम्‍ । प्रशंसतां द्वारि महीपतीनलं विनिद्ररोमाजनि श्रृण्वती नलम्‍ ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP