श्रीगुरूदत्त योगः - भस्त्रिका
श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.
अथ भस्त्रिका ॥
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे ।
पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥
सम्यक्पद्मासनं बदध्वा समग्रीवोदरं सुधी: ।
मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयत् ॥
यथा लगति ह्रत्कण्ठे कपालावधि सस्वनम् ।
वेगेन पूरयेच्चापि ह्रत्पद्मावधि मारुतम् ॥
पुनर्विरेचयेत्तद्वत्पूरयेच्च पुन: पुन: ।
यथैव स्वशरीरस्थं चालयेत्पवनं धिया ।
यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥
यथोदरं भवेत्पूर्णमनिलेन तथा लघु ।
धारयेन्नासिकां मध्यातर्जनीभ्यां विना द्दढम् ॥
विधिवत्कुम्भकं कृत्वा रेचयेदिडयाऽनिलम् ।
वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥
कुण्डलीबोधकं क्षिप्रं पवनं सुखदं हितम् ।
ब्रम्हानाडीमुखेसंस्थकफाद्यर्गलनाशनम् ॥
सम्यग्गात्रसमदभूतग्रन्थित्रयविभेदकम् ।
विशेषेणैव कर्तव्यं भस्त्रारव्यं कुम्भकं त्विदम् ॥
टीप पुढें चालूं --
अथ भ्रामरी ।
वेगादघोषं पूरकं भृङनादं भृङ्गीनादं रेचकं मन्दमन्दम् ।
योगीन्द्राणामेवमभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥
अथ मूर्च्छा ।
पूरकान्ते गाढतरं बदध्वा जालंधरं शनै: ।
रेचयेन्मूर्च्छनाख्येयं मनोमूर्च्छा सुखप्रदा ॥
अथ प्लाविनी ।
अत: प्रवर्तितोदारमारुतापूरितोदर: ।
पयस्यागाधेऽपि सुखात्प्लवते पद्मपत्रवत् ॥
प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकै: ।
सहित: केवलश्चेति कुम्भको द्विविधो मत: ॥
यावत्केवलसिद्धि: स्यात्सहितं तावदभ्यसेत् ।
रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ॥
प्राणायामोऽयमित्युक्त: स वै केवलकम्भक: ।
कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥
न तस्य दुर्लभं किचिंत्त्रिषु लोकेषु विद्यते ।
शक्त: केवलकुम्भेन यथेष्टं वायुधारणात् ॥
राजयोगपदं चापि लभते नात्र संशय: ।
कुम्भकात्कुण्डलीबोध: कुण्डलीओधतोभवेत् ॥
अनर्गला सुषुम्णा च हठसिद्धिश्च जायते ।
हठं विना राजयोगो राजयोगं विना हठ: ।
न सिद्धयति ततो युग्ममा निष्पत्ते: समभ्यसेत् ॥
कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् ।
एवमभ्यासयोगेन राजयोगपदं ब्रजेत् ॥
वपु: कृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्मले ।
अरोमता बिन्दुजयोऽग्निदीपनं नाडीविशुद्धिर्हठसिद्धिलक्षण ॥
N/A
References : N/A
Last Updated : December 23, 2014
TOP