पंचमम् ब्राम्हणम् - भाष्यं २

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- तत्र यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेत्यस्व कोऽर्थ उच्यत इति हिशब्देनैव व्याचष्टे प्रसिद्धार्थावद्योतकेन । प्रसिद्धो हयस्व मन्त्रस्यार्थ इत्यर्थ: । यदजनयदिति चानुवादस्वरूपेण मन्त्रेण प्रसिद्धार्थतैव प्रकाशित । अतो ब्राम्हाणमविशङकयैवाऽऽह । मेधया हि तपसाऽजनयत्पितेति ॥

भाष्यं :--- ननु कथं प्रसिद्धताऽस्यार्थस्येत्युच्यते जायादिकर्मान्तानां लोकफलसाधनानां पितृत्वं तावत्प्रत्यक्षमेवाभिहितं च जाया मे स्यादित्यादिना । तत्र च दैवं वित्तं विद्या कर्म पुत्रश्च फलभुतानां लोकानां साधनं स्रष्ट्रत्वं प्रतीत्यमिहितम् । वक्ष्यमाणं च प्रसिद्धमेव । तस्माद्युक्तं वक्तुं मेधयेत्यादि ॥

भाष्यं :--- एषणा हि फलविषया प्रसिद्धैव च लोके । एषणा च जायादीत्युक्तमेतावान्वै काम इत्मनेन । ब्रम्हाविद्याविषये च सर्वैकत्वात्कामानुपपत्ते: ॥

भाष्यं :--- एतेनाशास्त्रीयप्रज्ञातपोभ्यां स्वाभाविकाभ्यां जगत्स्रष्ट्टत्वमुक्तमेव भवति । स्थावरान्तस्य चानिष्टफलस्य कर्मविज्ञाननिमित्तत्वात । विवक्षितस्तु शास्त्रीय एव साध्यसाधनभावो ब्रम्हाविद्याविधित्सया तद्वैराग्यस्य विवक्षित्वात । सर्वो हययं व्यक्ताव्यक्तलक्षण: संसारोऽशुद्धोऽनित्य: साध्यसाधनरूपो दु:खोऽविद्याविषय इत्येतस्माद्विरक्तस्य ब्रम्हाविद्याऽऽरब्धव्येति ॥

भाष्यं :--- तत्रान्नानां विभागेन विनियोग उच्यते । एकमस्य साधारणमिति मन्त्रपदं तस्य व्याख्यानमिदमेवास्य तत्साधारणमन्नमित्युक्तम । अस्य भोक्तृसमुदायस्य किं तद्यदिदमद्यते भुज्यते सर्वै: प्राणिभिरहन्यहनि तत्साधारणं सर्वभोक्त्रर्थमकल्पयत्पिता सृष्टवाऽन्नम॥

भाष्यं :---  स य एतत्साधारणं सर्वप्राणभृत्स्थितिकरं भुज्यमानमन्नमुपास्ते तत्परो भवतीत्यर्थ: । उपासनं हि हि नाम तात्पर्यं द्दष्टं लोके गुरुमुपास्ते राजानमुपास्त इत्यादौ । तस्माच्छरीरस्थित्यर्थान्नोपभोगप्रधानो नाद्दष्टार्थकर्मप्रधान इत्यर्थ: । स एवंभूतो न पाप्मनोऽधर्माव्द्यावर्तते न विमुच्यत इत्येतत । तथा च मन्त्रवर्ण: “मोघमन्नं विन्दते” इत्यादि: । स्मृतिरपि “नाऽऽत्मार्थं पाचयेदन्नम” “अप्रदायैभ्यो यो भुङक्ते स्तेन एव स:” “अन्नादे भ्रूणहा मार्ष्टि” इत्यादि: ॥

भाष्यं :---  कस्मात्पुन: पाप्मनो न व्यावर्तते । मिश्रं हयेतत्सर्वेषां हि स्वं तदप्रविभक्तं यत्प्राणिभिर्भुज्यते । सर्वभोज्यत्वादेव यो मुखे प्रक्षिप्यमाणोऽपि ग्रास: परस्य पीडाकरो द्दश्यते ममेदं स्यादिति हि सर्वेषां तत्राऽऽसा प्रतिबद्धा । तस्मान्न परमपीडयित्वा ग्रसितुमपि शक्यते । “दुष्कृतं हि मनुष्याणां” इत्यादिस्मरणाच्च ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP