पंचमम् ब्राम्हणम् - भाष्यं ५
सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.
भाष्यं :--- इत्येवं ब्राम्हाणवादा आहुर्न तथा विद्यान्न तथा द्रष्टव्यम् । यदहरेव जुहोति तदह: पुनर्मुत्युमपजयति न संवत्सराभ्यासमपेक्षते । एवं विद्वान्सन् यदुक्तं पयसि हीदं सर्व प्रतिष्ठितं पयआहुतिविपरिणामात्मकत्वात्सर्वस्येति । तदेकेनैवाहन जगदात्मत्वं प्रतिपद्यते । तदुच्यतेऽपजयति पुनर्मृत्युं पुनर्मरणं सकृत्मृत्वा विद्वाञ्छरीरेण वियुज्य सर्वात्मा भवति न पुनर्मरणाय परिच्छिन्नं शरीर गृहणतीत्यर्थ: ॥
भाष्यं :--- क: पुनर्हेतु: सर्वात्माप्त्या मृत्युमपजयतीति । उच्यते । सर्वं समस्तं हि यस्माद्देवेभ्य: सर्वेभ्योऽन्नाद्यमन्नमेव तदाद्यं च सायंप्रातराहुतिप्रक्षेपेण प्रयच्छति । तद्युक्तं सर्वमाहुतिमयमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैर्देवैरेकात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति ॥
भाष्यं :--- अथैतदप्युक्तं ब्राम्हाणेन । ब्रम्हा वै स्वयंभु तपोऽतप्य्त तदैक्षत न वै तपस्यानन्त्यमस्ति इन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चाऽऽत्मनीति तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चाऽऽत्मनि सर्वेषां भूतानां श्रैष्ठयं स्वाराज्यमाधिपत्यं पर्येदिति ॥
श्रुति :--- कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षिति: स हीदमन्नं पुन: पुनर्जनयते । यो वैतामक्षितिं वेदेति पुरुषो वा अक्षिति स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्वैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशसा ॥२॥
अर्थ :--- पण तीम सर्वदा भक्षण केलीं जाणारीं अन्नें क्षीण कां होत नाहींत ? या अर्थाच्या ‘कस्मात्तानि०’ इत्यादि मंत्राचें व्याख्यान असें - भोक्ता पुरुषच अक्षितिअक्षयाचें कारण आहे. तोच हें अन्न पुन: पुन: उत्पन्न्करितो. ‘यो वैतामक्षितिं वेद’ याचें व्याख्यान - पुरुषच अक्षिति आहे, तोच हें अन्न ज्ञानानें व कर्मानें उत्पन्न करितो व त्यानें जर हें अन्न न केलें तर तें क्षय पावेल, असा रीतीनें जो जाणतो ‘सोऽन्नमत्ति प्रतीकेन’ - तो प्रतीकानें अन्न खातो. मुख हेंच प्रतीक आहे. मुखानें तो अन्न खातो. असा याचा भावार्थ. तो देवात्मभावास प्राप्त होतो व अमृतावर उपजीविका करितो, ही प्रशंसा आहे. ॥२॥
अर्थ :--- कस्मत्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति । यदा पित्राऽन्नानि सृष्टवा सप्त पृथक्पृथग्भोक्तृभ्य: प्रत्तानि तदाप्रभृत्येव तैर्भोक्तृभिरद्यमानानि । तन्निमित्तत्वात्तेषां स्थिते: । सर्वदा नैरन्तर्येण । कृतक्षयोपपत्तेश्च युक्तस्तेषां क्षय: । न च तानि क्षीयमाणानि जगतोऽविभ्रष्टरूपेणैवावस्थानदर्शनात । भवितव्यं चाक्षयकारणेन ॥
भाष्यं :--- तस्मात्कस्मात्पुनस्तानि न क्षीयन्त इति प्रश्र: । तस्येदं प्रतिवचनं पुरुषो वा अक्षितिर्यथाऽसौ पूर्वमन्नानां स्रष्टाऽऽसीत्पिता मेधया जायादिसंबन्धेन च पाङक्तकर्मणा भोक्ता च तथा येभ्यो दत्तान्यन्नानि तेऽपि तेषामन्नानां भोक्तारोऽपि सन्त: पितर एव मेधया तपसा च यतो जनयन्ति तान्यन्नानि । तदेतदभिधीयते पुरुषो वै योऽन्नानां भोक्ता सोऽक्षितिरक्षयहेतु: ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP