पंचमम् ब्राम्हणम् - भाष्यं २१

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


अर्थ :--- याच अर्थीं हा मंत्र आहे - ज्या वायूपासून सूर्य उदय पावतो व ज्यांत तो अस्त पावतो, प्राणापासून तो उदय पावतो व प्राणांत अस्त पावतो. त्याला देव धर्म करिते झाले. तोच आतां आहे व तोच उद्यां असेल. देवजें व्रत त्यावेळीं धारण करिते झाले तेंच ते आज करीत आहेत. यास्तव एकच व्रत करावें. प्राणनव्यापार करावा व अपाननव्यापार करावा. श्रमरूपी पापी मृत्यु मला प्राप्त होईल. या भीतीनें तें व्रत करावें. जर या व्रताला प्रारंभ केला तर तेम समाप्त करण्याची इच्छा अवस्य करावी. या व्रताच्य योगानें पुरुष या देवतेच्या सायुज्यास व सलोकतेस प्राप्त होतो. ॥२३॥

भाष्यं :--- अथैतस्यैवार्थस्य प्रकाशक एष श्लोको मन्त्रो भवति । यतश्च यस्माद्वायोरुदेत्युद्नच्छति सूर्योऽध्यात्मं च चक्षुरात्मना प्राणादस्तं च यत्र वायौ प्राणे च गच्छत्यपरसंधायसमये स्वापसमये च पुरुषस्य तं देवास्तं च यत्र वायौ प्राणे च गच्छत्यपरसंध्यासमये स्वापसमये च पुरुषस्य तं देवास्तं धर्मं देवाश्चक्रिरे धृतवन्तो वागादयोऽग्न्यादयश्च प्राणव्रतं वायुव्रतं च पुरा विचार्य स एवाद्येदानीं श्वोऽपि भविष्यतपि कालेऽनुवर्ततेऽनुवर्तिष्यते च दैवैरित्यभिप्राय: ॥

भाष्यं :--- तत्रेमं मन्त्रं संक्षेपतो व्याचष्टे ब्राम्हाणम् । प्राणाद्वा एष सूर्य उदेति प्राणेऽस्तमेति । तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इत्यस्य कोऽर्थ इत्युच्यते । यद्वा एते व्रतममुहर्यमुष्मिन्काले वागादयोऽग्न्यादयस्च प्राणव्रतं वायुव्रतं चाध्रियत्न तदेवाद्यापि कुर्वन्त्यनुवर्तन्तेऽनुवर्तिष्यन्ते च व्रतं तैरभग्नमेव । यत्तु वागादिव्रतमग्न्यादिव्रतं च तद्भग्नमेवव । तेषामस्तमनकाले स्वापकाले च वायौ प्राणे च निम्लुक्तिदर्शनात ॥

भाष्य़ं :--- अथैतदन्यत्रोक्तम “यदा वै पुरुष: स्वपिति प्राणं तर्हि वागप्येति प्राणं मन; प्राणं चक्षु प्राणं श्रोत्रं यद अप्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्ममथाधिदैवतं यदा वा अग्निरनुगच्छति वायुं तहर्यनूद्वाति तस्मादेनमुदवासीदित्याहुर्वायुं हयनूद्वाति यदादित्योऽस्तमेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिश: प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते” इति ॥

भाष्यं :--- यस्मादेतदेव व्रतं वागादिष्वग्न्यादिषु चानुगतं यदेतद्वायोश्च प्राणस्य च परिस्पन्दात्मकत्वं सर्वैरैनुवर्त्यमानं व्रंत तस्मादन्योऽप्येकमेव व्रतं चरेत । किं तत्प्राण्यात्प्राणनव्यापारं कुर्यादपान्यादपाननव्यापारं च । न हि प्राणापानव्यापारस्य प्राणनापाननलक्षणस्योपर्मोऽस्ति । तस्मात्तदेवैकं व्रतं चरेद्धित्वेन्द्रियान्तरव्यापारं नेन्मा माम षाप्मा मृत्यु: श्रमरूप्याप्नुवदाप्नुयात । नेच्छब्द: परिभये । यद्यहमस्मादव्रतात्प्रच्युत: स्यां ग्रस्त एवाहं मृत्युनेत्येवं त्रस्तो धारयेत्प्राणव्रतमित्यभिप्राय: ॥

भाष्यं :--- यदि कदाचिदु चरेत्प्रारभेत प्राणव्रतं समापिपयिषेत्समापयितुमिच्छेद्यदि हयस्माद्वतादुपरमेत्प्राण: परिभूत: स्याद्देवाश्च । तस्मात्समापयेदेव । तेन उ तेनानेन व्रतेन प्राणात्मप्रतिपत्त्या सर्वभूतेषु वागादयोऽग्न्यादयश्च मदा त्मका एवाहं प्राण आत्मा सर्वपरिस्पन्दकृदेवं तेनानेन व्रतधारणेनैतस्या एव प्राणदेवताया: सायुज्यं सयुग्भावमेकात्मत्वं सलोकतां समानलोकतां वैकस्थानत्वं विज्ञानमान्द्यापेक्षमेतज्जयति प्राप्रोतीति ॥२३॥


॥ इति बृहदारण्यकभाष्ये प्रथमाध्याये पञ्चमं ब्राम्हणम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP