पंचमम् ब्राम्हणम् - भाष्यं २०
सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.
श्रुति :--- अयं वै न: श्रेष्ठो य: संचर श्चासंचर श्व न व्यथतेऽथो न रिष्यति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवस्तस्मादेत एतेनाऽऽख्यायन्ते प्राण इति तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद य उ हैवंविदा स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥२१॥
अर्थ :--- हाच आमच्यांतील श्रेष्ठ आहे. कारण तो संचार व प्रतिसंचार करीत असतांनाहि व्यथा पवत नाहीं व नाशा पावत नाही. यास्तव आतां आपण याच्याच रुपास प्राप्त होऊं, असा संकल्प करून तीं सर्व या प्राणाचें रूप झालीं. म्हणून तीं इंद्रियें याच्या नांवानें म्ह० ‘प्राण’ अशीं बोललीं जातात. जो अशा रीतीनें सर्व करणांचें प्राणात्मत्व जाणतो त्या विद्वानाच्या नांवानें, तो ज्या कुलांत झालेला असतो तें कुल सांगितले जातें; आणि जो अशा श्विद्वानाशीं स्पर्धा करितो तो शोषास प्राप्त होतो; आणि शोष पावून शेवटीं मरतो. हें अधयत्म प्राणात्मदर्शन आहे. ॥२१.॥
अर्थ :--- हाच आमच्यांतील श्रेष्ठ आहे. कारण तो संचार व प्रतिसंचार करीत असतांनाहि व्यथा पावत नाहीं व नाश पावत नाहीं. यास्तव आतां आपण याच्याच रूपास प्राप्त होऊं, असा संकल्प करून तीं सर्व या प्राणाचें रूप झालीं. म्हणून तीं इंद्रियें याच्या नांवानें, तो ज्या कुलांत झालेला असतो तें कुल सांगितलें जातें; आणि जो अशा विद्वानाशीं स्पर्धा करितो तो शोषास प्राप्त होतो; आणि शोष पावून शेवटीं मरतो. हें अध्यात्म प्राणात्मदर्शन आहे. ॥२१॥
भाष्यं :--- अथातोऽनन्तरं व्रतमीमांसोपासनकर्मविचारणेत्यर्थ: । एषां प्राणानां कस्य कर्म ब्रतत्वेन धारयितव्यमिति मीमांसा प्रवर्तते । तत्र प्रजापतिई ह्शब्द: किलार्थे प्रजापति: किल प्रजा: सृष्टवा कर्माणि करणानि वागादीनि कर्मार्थानि हि तानीति कर्माणीत्युच्यन्ते ससृजे सृष्टवान्वागादीनि करणानीत्यर्थ: ॥
भाष्यं :--- तानि पुन: सृष्टान्यन्योन्येनेतरेतरमस्पर्धन्त स्पर्धां संगर्षं चक्रु: । कथम् । वदिष्याम्येव स्वव्यापाराद्वदनादनपरतैवाहं स्यामिति वाग्व्रतं दध्रे धृतवती । यद्यन्योऽपि मत्समोऽस्ति स्वव्यापारादनुपरन्तुं शक्त: सोऽपि दर्शयत्वात्मओ वीर्यमिति । तथा द्रक्ष्याम्यहमिति चक्षु: श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि करणानि यथाकर्म यद्यद्यस्य कर्म यथाकर्म ॥
भाष्यं :--- तानि करणानि मृत्युर्मारक: श्रम: श्रमरूपी भूत्वोपयेमे संजग्राह । कथम् । तानि करणानि स्वव्यापारे प्रवृत्तान्याप्नोच्छ्रमरूपेणाऽऽत्मानं दर्शितवानाप्त्वा च तान्यवारून्द्धावरोधं कृतवान्मृत्यु: स्वकर्मभ्य: प्रच्यावितवानित्यर्थ: । तस्मादद्यत्वेऽपि वदने स्वकर्मणि प्रवृत्ता वाक्श्राम्यत्येव श्रमरूपिणा मृत्युना संयुक्ता स्वकर्मत: प्रच्यवते । तथा श्राम्यति चक्षु: । श्राम्यति श्रोत्रम् ॥
भाष्यं :--- अथेममेव मुख्यं प्राणं नाऽऽप्नोन्न प्राप्त वान्मृत्यु: श्रमरूपी योऽयं मध्यम: प्राणस्तम । तेनाद्यत्वेऽप्यश्रान्त एव स्वकर्मणि प्रवर्तते । तानीतराणि करणानि तं ज्ञातुं दध्रिरे धृतवन्ति मन: ॥
भाष्यं :--- अयं वै नोऽस्माकं मध्ये श्रेष्ठ: प्रशस्यतमोऽभ्यधिको यस्माद्य संचरंश्चसंचरंश्च न व्यथतेऽथो न रिष्यति हन्तेदानीमस्यैव प्राणस्य सर्वे वयं रूपमसाम प्राणमात्मत्वेन प्रतिपद्येमहि ॥
भाष्यं :--- एवं विनिश्चित्य त एतस्यैव सर्वे रूपमभवन्प्राणमेवाऽऽत्मत्वेन प्रतिपन्ना: प्राणव्रतमेव दध्रिरेऽस्मदव्रतानि न मृत्योर्वारणाय पर्याप्तानीति । यस्मात्प्राणेन रूपेण रूपवन्तीतराणि करणानि चलनात्मना स्वेन च प्रकाशात्मना । न हि प्राणादन्यत्र चलनात्मकत्वोपपत्ति: । चलनव्यापारपूर्वकाण्येव हि सर्वदा स्वव्यापारेषु लक्ष्यन्ते । तस्मादेते वागादय एतेन प्राणाभिधानेनाऽऽख्यायन्तेऽभिधीयन्ते प्राणा इत्येवम ॥
भाष्यं :--- य एवं प्राणात्मतां सर्वकरणानं वेत्ति प्राणशब्दाभिधेयत्वं च तेन ह वाव तेनैव विदुषा तत्कुलमाचक्षते लौकिका: । यस्मिन्कुले स विद्वाञ्जातो भवति तत्कुलं विद्वन्नाम्नैव प्रथितं भवत्यमुष्येदं कुलमिति । यथा तापत्य इति । य एवं यथोक्तं वेद वागादीनां प्राणरूपतां प्राणाख्यत्वं च तस्यैतत्फलम् ॥
भाष्यं :--- किंच य: कश्चिदु हैवंविदा प्राणात्मदर्शिना स्पर्धते तत्प्रतिपक्षी सन्सोऽस्मिन्नेव शरीरेऽनुशुष्यति शोषमुपगच्छति । अनुशुष्य हैव शोषं गत्वैवान्ततोऽन्ते म्रियते न सहसाऽनुपद्रुतो म्रियत इत्येवमुक्तमध्यात्मं प्राणात्मदर्शनमित्युक्तोपसंहारोऽधिदैवतप्रदर्शनार्थ: ॥२१॥
श्रुति :--- अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमाएवमन्या देवता यथादैवत स यथैषां प्राणानां मध्यम: प्राण एवमेतासां देवतानां वायुर्म्लोचन्ति हयन्या देवता न वायु: सैषाऽनस्तमिता देवता यद्वायु: ॥२२॥
अर्थ :--- त्यानंतर अधिदैवत - देवताविषय दर्शन सांगितलें जातें. मी ज्वलनच पावेन, असें व्रत अग्नि धरता झाला. मी तप्तच होईन, असें आदित्य, मी प्रकाशमानच होईन, असें चंद्रमा व याचप्रमाणें विद्युतादि इतर देवताहि यथादैवत प्रत्येक देवता आपापल्या व्यापारानुसार - व्रत धरत्या झाल्या. ज्याप्रमाणें वागादिकरणांतील तो मध्यम प्राण त्याप्रमाणें या देवतांतील वायु अभग्नव्रत आहे. कारण अन्य देवता अस्त पावतात, पण वायु अस्त पावत नाहीं. जो हा वायु ती अस्त न पावणारी देवता आहे. ॥२२॥
भाष्यं :--- अथानन्तरमधिदैवतं देवताविषयं दर्शनमुच्यते । कस्य देवताविशेषस्य व्रतधारणं श्रेय ति मीमांस्यते । अध्यात्मवत्सर्वम । ज्वलिष्याम्येवाहमित्यग्निर्दघ्रे । तप्स्याम्यहमित्यादित्य: । भास्याम्यहमिति चन्द्रमा: । एवमन्या देवता यथादैवतम् ॥
भाष्यं :--- सोऽध्यात्मं वागादीनामेषां प्राणानां मध्ये मध्यम: प्राणो मृत्युनाऽनाप्त: स्वकर्मणो न प्रच्यावित: स्वेन प्राणवतेनाभग्नव्रतो यथैवमेतासामग्न्यादीनां देवतानां वायुरपि । म्लोचन्त्यस्तं यन्ति स्वकर्मभ्य उपरमन्ते यथाध्यात्मं वागाद्योऽन्या देवता अग्न्याद्या न वायुरस्तं याति यथा मध्यम: प्राणोऽत: सैषाऽनस्तमिता देवता यद्वायुर्योऽयं वायु: । एवमध्यात्ममदिदैवं च मीमांसित्वा निर्धारितं प्राणवाय्वात्मनोर्व्रतमभग्नमिति ॥२२॥
श्रुति :--- अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तंदेवाश्चक्रिरे धर्म स एवाद्य स उ श्व इति यद्वा एतेऽमुहर्यध्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नुवदिति यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै साय्ज्य सलोकतां जयति ॥२३॥
॥ इति प्रथमाध्याये पञ्चमं ब्राम्हणम् ॥५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP