शक्रसंशयवर्णनम्
नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.
बृहदश्व उवाच ।
एवं महेश्वरेणोक्त: स्वान्तपूर्व वचस्तदा ॥१२१४॥
गुणोत्तमो मनुष्यत्वं स्वीचक्रे भाविताशय: ।
गोनन्द उवाच ।
कथं जर्त: शिलादस्य नन्दी पुत्रत्वमागत: ॥१२१५॥
अत्याश्चर्यमिदं नाम यदनेनैव वर्त्मना ॥१२१६॥
गाणपत्यमवाप्तोऽसौ विस्तरेण वदस्व मे ।
बृहदश्व उवाच ।
अयोनिज: शिलादेन विप्रेण सुमहात्मना ॥१२१७॥
यथाप्तोऽसौ गण: पुत्र: स्तन्मे निगदत: श्रृणु ।
अयोनिज: शिलादेन शिलां चूर्णयता तदा ॥१२१८॥
संप्राप्तस्तु शिलामध्यात्पुत्रो नन्दी शशिप्रभ: ।
तं प्राप्य तनयं विप्र: शिलदे हर्षमागत: ॥१२१९॥
ददौ दानं यथाशक्ति विप्रगाथकनर्तकान् ।
संतर्पयामास तदा शरारिणे ममौ मुदा ॥१२२०॥
संस्करांश्चापि निखिलाज् विदधेऽसौ यथाविधि ।
आमन्त्र्य ब्राह्मणश्रेष्ठान् संमानितान् यथायथम् ॥१२२१॥
क्रियमाणेषु पुत्रस्य संस्कारेषु तदा व्दिज:।
अल्पायुषं स श्रुश्राव ब्राह्मणेभ्यस्तदा सुतम् ॥१२२२॥
श्रुत्वाऽवोचत् स धमीत्मा शिलाद: पुत्रवत्सल : ।
व्रत मे सदुपायं तं येनासौ जीवितो भवेत् ॥१२२३॥
इति संप्रार्थिता: तेन ब्राह्मणास्तं पुरस्थितम् ।
प्राज्जलिं प्रावदन् सर्वे श्रृणु वाक्यं तपोनिधे ॥१२२४॥
सर्वस्य साधनै: सिध्दिर्मुनिभि: सर्वदर्शिभि: ।
विनायुरिति संचित्य सुखी भव गतज्वर: ॥१२२५॥
प्रारब्धं यादृशं यस्य सूचितं तस्य पूर्तये ।
जीवनं जीवितं पूर्तौ तस्य किं नर्म साधनम् ॥१२२६॥
न मन्त्रं नौषधं तध्दि लोकेऽस्मिन् किल दृश्यते ।
श्रूयते वापि येनाऽस्य नष्टमायु: पुनर्भवेत् ॥१२२७॥
इति विप्रमुखोद्रीतां निशम्य गिरमुध्दताम् ।
शिलादोऽतीव खिन्नोऽसौ रुरोद मृशदु:खित: ॥१२२८॥
तं रुदन्तं तदा नन्दी वारयामास धर्मवित् ।
मामा रोदिहि ताताऽद्य तवाऽहं प्रियकाम्यया ॥१२२९॥
अराध्य शंकरं देवं दीर्घमाप्त्यामि जीवितम् ।
एवमुक्त्वा स पितरं प्राप्तानुरास्तत: स्वयम् ॥१२३०॥
शुभं हिमवत: शृंगं हरमुकटमित्यध: ।
यदस्ति लोके विख्यातं गंगाप्रभव मुत्तमम् ॥१२३१॥
जगाम सहसा तत्र तपसि कृत निश्चय: ।
यस्य श्रृगस्य पूर्वार्द्धे सरोऽस्ति विमलोदकम् ॥१२३२॥
कालोदकमिति ख्यातं सर्वकिल्विषनाशनम् ।
तस्मिन्नन्दी शिलां गुवीं गृहीत्वा मूर्ध्न्यतंद्रित: ॥१२३३॥
आराधयामास हरं रुदजाप रतो जले ।
तस्य वर्षशंत रुद्रं जपत: सलिले गतम् ॥१२३४॥
ततो वर्षशते पूर्णे देवी देवमभाषत ।
पुत्रोऽसौ भगवन् नन्दी कालोदे तप्यते तप: ।
वरदानेन तं देवं योजयस्वाशु मा चिरम् ॥१२३५॥
एव मुक्ता स्तदा देव्या वारणस्यां नराधिप ।
देव्या सह ततो देवो मार्गेण क्षितिगामिना ॥१२३६॥
आययौ वृषभारुढोऽलक्षितं परमादृत: ।
स प्रयागमतिक्रम्य तथायोध्यां महापुरीम् ॥१२३७॥
पुणयं च नैमिषारणयं गंगाव्दारमत: परम् ।
स्थानेश्वरात्कुरुक्षेत्रं ततो विष्णुपदं शुभम् ॥१२३८॥
शतद्रुं च विपाशां च पुण्यतोयामिरावतीम् ।
देविका चन्द्रभागां च तथा विष्णुपदं सर: ॥१२३९॥
विशोकां विजयेशं च वितस्तां सिन्धुसंगमम् ।
एतान् सर्वानतिक्रम्य प्रययौ भरतं गिरिम् ॥१२४०॥
तस्य मूल मथासाद्य दैव्यै वचनमब्रवीत् ।
इहैव तिष्ठ तावत्त्वं महं यास्याम्यत: परम् ॥१२४१॥
वृषेण सहिता: देवि पर्वतेऽस्मिन् हि य: पथा ।
करोत्यारोहणं तस्य महत्पुणयफलं स्मृतम् ॥१२४२॥
पथा त्वं न समर्थाऽसि सुकुमाराऽसि देवि यत् ॥१२४३॥
आरोढुं तेन यास्येऽहमेक एवाद्य सत्वर: ।
तस्माद्देशात्प्रत्तस्तु गन्तुं देववर: पथा ॥१२४४॥
पथीश्वराख्यस्त्रत्रेष्टो देवस्यायतनोऽभवत् ।
आरुरोह यदा शैलं पथा देवो महेश्वर: ॥१२४५॥
तदा वृध्दिमगाच्छैलो महतीं भूरिदक्षिण: ।
वर्धमानं तु तं ज्ञात्वा श्रान्त्वा क्रुध्दो महेश्वर: ॥१२४६॥
रुपं कृत्वा महध्दोरं तदा मूर्धन्यताडयत् ।
तदा प्रभृति शैलोऽसौ मुण्डपृष्ठ: प्रकीर्तित: ॥१२४७॥
मुण्डपृष्ठं शरीरेण स्पृष्टा सर्वेण मानव: ।
अशुभं कीर्तयित्वा च तस्मात्पापात्प्रमुच्यते ॥१२४८॥
देवेन ताडित: शैलो रुपं मानुषमास्थित: ।
प्राज्जलिर्देवदेवेशं उवाच विनयान्वित: ॥१२४९॥
भगवन्नपराधं मे क्षमस्व वृषभध्वज ।
महात्मानो न गृहन्ति प्रायश: कृपणान् जडान् ॥१२५०॥
सोऽहं कृपणभूतोऽस्मि जडश्च सुतरां विभो ।
अनुगृहीष्व मां देव प्रसीद करुणानिधे ॥१२५१॥
इत्यार्तवचसा तेन देवदेव: प्रभाषित: ।
प्रसन्नीभूय देवेश: शैलमाह कृपान्वित: ॥१२५२॥
मम पादप्रहारेण निर्गतं यज्जलं तव ।
कृपाणीतीर्थमित्येतद्भवि स्थास्यति पर्वत ॥१२५३॥
मुणडापृष्ठं गिरि कृत्वा सौम्यं रुपमथास्थित: ।
अप्सरोभिर्युतो यत्र तीर्थमप्सरसां हि तत् ॥१२५४॥
ततो ब्रह्मसरो नाम दृष्टा तीर्थ मनोहरम् ।
हंसरुपधर: शैलं पाटयामास सत्वर: ॥१२५५॥
हंसरुपेण यच्छैले कृतं रन्ध्रं महात्मना ।
हंसव्दार मिति प्रोक्तं सर्वकिल्विषनाशनम् ॥१२५६॥
दृष्टा तीर्थौ महादेवस्तथा वाष्यिकपिणिडकौ ।
कपिलां तीर्थमासाद्य स ददर्श पितामहम् ॥१२५७॥
देवैर्वृतं महाभागं यजन्तं ऋषिभि: सदा ।
हंसरुपधरं दृष्टा ब्रह्मा देवं महेश्वरम् ॥१२५८॥
जानुभ्यां अवनिं गत्वा ववन्दे परमेश्वरं ।
दृष्टा च प्रणतं देवं ब्रह्माणं जगत: पतिम् ॥१२५९॥
प्रणम्य शक्रस्तुष्टाव यथा तच्छृणु भूपते ।
शक्र उवाच ।
नमस्ते देव्देवेश जगत्कारण कारण ॥१२६०॥
त्रैकोक्यनाथ सर्वज्ञ सर्वेश्वर नमोस्तुते ।
त्वत्तोऽन्यं पश्यामि जगतोऽस्याहि कारणम् ॥१२६१॥
त्वया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ।
स्रष्टा त्वमस्य सर्वस्य संहर्ता पालकस्तथा ॥१२६२॥
यदुन्मीलयसि नेत्रे त्रैलोक्यस्योद्भवस्तदा ।
भवतीह जगन्नाथ यदा स्वपिसि वै तदा ॥१२६३॥
तदेतदखिलं देव त्रैलोक्यं संप्रणश्यति ।
भूमिर्धृता धारयते त्वयेदं स चराचरम् ॥१२६४॥
शव्दयोनिस्तथाकांश जगध्दारयते प्रभो ।
वीर्येण ते महाभाग त्वं च प्रोक्तस्तथाऽपर: ॥१२६५॥
त्वं बुध्दिस्त्वं तथैवात्मा सर्वस्यास्य प्रकीर्तित: ।
अव्यक्र: पुरुषश्चैव रज: सत्वं तमस्तथा ॥१३६६॥
इन्द्रियाणीन्द्रियार्थाश्च भूततन्मात्र संगक: ।
ज्ञाता ज्ञेयं तथा क्षेत्रं क्षेत्रज्ञ: परमेश्वर: ॥१२६७॥
ध्याता ध्येयं तथा ध्यानं यज्ञाश्च विविधास्तथा ।
सर्व मेतत्त्वमेवैकस्तत्व: किमपरं प्रमो ॥१२६८॥
यन्नतोऽसि महाभाग तत्र मे संशयो महान् ।
इति श्री नीलमते शक्रसंशयवर्णनम् ॥
N/A
References : N/A
Last Updated : January 09, 2018
TOP