कपटेश्वर माहात्म्यम्
नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.
गोनन्द उवाच ।
कपटेश्वर इत्युक्तं देवदेवस्य शूलिन: ।
पुण्यमायतनं तस्य समुत्पत्ति वदस्य मे ॥१३२९॥
संशयो मे महान् ब्रह्मन् कपटेश्वर: कीर्तनात् ।
किमर्थ भगवान् शंभु: प्रोच्यते कपटेश्वर: ॥१३३०॥
बृहदश्व उवाच ।
पुणये दृशव्दतीतरै कुरुक्षेत्रे नराधिप ।
ऋषिकोटि: समुत्तस्थौ तप: परममास्थिता ॥१३३१॥
द्रष्टुं देवेश्वरं रुद्रं महेशानमुमापतिम् ।
धूर्जटिं परमाहादमूर्ति त्रिपुरसूदनम् ॥१३३२॥
अतीव खिन्नान् तान् दृष्टा सद्भक्त्या परमेश्वर: ।
तानाह भगवान् स्वप्रे कश्मीरान् द्रुतमाशुगा:॥१३३३॥
ब्रजध्वं यत्र नागस्य भुवनं विमलं महत् ।
कपटे तत्र दास्यामि दर्शनं भवतामहभ ॥१३३४॥
एतत्स्वप्रं निशम्याथ कल्ये उक्त्वा परस्परम् ।
कश्मीरान् सहिता जग्मु: शंभुं देवं दिदक्षव: ॥१३३५॥
ते प्राप्य तस्य नागस्य भुवने जल मणचपि ।
न पश्यन्ति स्म च यदा तदा ते सर्वतोमुखम् ॥१३३६॥
काष्ठानि चालयामासु रतिहर्षसमन्विता: ।
इति प्रीत्या च ते तत्र काष्ठानि परितो यदा ॥१३३७॥
चालयामासुरमलं वारि तत्रोक्षितं तदा ।
इति काष्ठानि संचाल्य करैस्ते ऋषि सत्तमा: ॥१३३८॥
स्रातुमत्राययु: सर्वे स्वशरीरेण रुद्रताम् ।
षाशिष्ठो ब्राह्मनस्त्वेको नाम्रा गौरपराशर: ॥१३३९॥
न सस्रौ न च तत् काष्ठं स्पृशतिस्मा कुतूहलात् ।
तत्रस्थ: शोषयामास निराहार: कलेवरम् ॥१३४०॥
तमुवाच हर: स्वप्रे किमर्थे क्रिश्यसे व्दिज ।
स्रात्वा संस्पृश्य काष्ठानि शीघ्रंत्वं ब्रज रुद्रताम् ॥१३४१॥
इत्युक्रोऽसौ तदा स्वप्रे शम्भुना परमेष्ठिना ।
तमुवाच व्दिजो रुद्रं सुप्रीत: प्राजलि; स्थित: ॥१३४२॥
सत्यं रुद्रत्वमासाद्य दृश्यसे त्वं जगद्गुरो ।
किन्तवदृष्ठे हि देवेशे नास्ति मे मनसो धृति: ॥१३४३॥
कपटे भवने दास्ये त्वयोक्तं दर्शनं प्रभो ।
तदप्राप्य न यास्यामि न च मोक्ष्यामि शंकर ॥१३४४॥
तमुवाच ततो भूय: प्रहसन्निव शंकर ।
दत्तं तु काष्ठरुपेण मया तेषां तु दर्शनम् ॥१३४५॥
ते मां दृष्टैव संप्राप्ता: रुद्रत्वं तत्तथा व्दिज ।
तवाधिकेन तपसा वरं दद्मि तवेप्सितम् ॥१३४६॥
मोर पराशर उवाच ।
वरश्चेद्दीयते देव मम कामाडनाशन ॥१३४७॥
ऋषिभिस्त्वं यथा दृष्ट: काष्टरुपी महेश्वर: ।
तथा त्वं देहि सर्वस्य जनस्येह निदर्शनम् ॥१३४८॥
सर्वकालं जगन्नाथ लोका: क्रिशयन्ति पप्मना ।
यथा त्वद्दर्शनादत्र पापशुध्दौ महाधिय: ॥१३४९॥
विशुध्दपापा: यास्यन्ति सद्गतिं परमेश्वर ।
परमेश्वर उवाच ।
द्रक्ष्यन्ति ये जना: नाम काष्ठं रुपं समास्थितम् ॥१३५०॥
कदाचिव्दिजशार्दूल सर्वकालं तु न व्दिज ।
ते धूताशेष पाप्मानो रुद्रलोकं ब्रजन्ति च ॥१३५१॥
जलरुपोऽसम्म्यहं विप्र नन्दय सौ काष्ठरुपभाक् ।
व्दयो: समागमे पूर्ण दर्शनं मम सुव्रत ॥१३५२॥
श्रयं च सततं नन्दी काष्ठरुपी गणोत्तम ।
दर्शनं दास्यति नृणां तदनुग्रहकाम्यया ॥१३५३॥
मां च दृष्टा न यास्यन्ति स्वशरीरेण रुद्रताम् ।
काष्ठरुपेण युक्तं मां दृष्टा सद्गतिभागिन: ॥१३५४॥
कपटेन च दास्यामि नराणां दर्शन यदा ।
तदा संज्ञामवापस्यामि कपटेश्वर इत्यत: ॥१३५५॥
तोयस्य बहुलीभाव: देशेऽस्मिन् ब्राह्मणोत्तम ।
दर्शनस्य मदीयस्य पुर्वरुपं भविष्यति ॥१३५६॥
इत्येतत्कथितं तुभ्यं कपटेश्वरसंगतम् ।
वद राजन् किमन्यते श्रोतुमुत्का प्रवर्तते ॥१३५७॥
इति श्री नीलमते कपटेश्वर माहात्म्यम् ॥
N/A
References : N/A
Last Updated : January 09, 2018
TOP