भूतेश्वर वर्णन नाम नन्दिचरितं
नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.
बृहदश्व उवाच ।
एवमुक्तस्तु शक्रेण ब्रह्मा वचनमब्रवीत् ॥१२६९॥
मा मा शक्र वदे देवमभिज्ञातोऽसि पुत्रक ।
एष सर्वेश्वर: शक्र एष कारणकारणम् ॥१२७०॥
त्वया धृता: धारयन्ति त्वयैदं सचराचरम् ।
वष्टा त्वमसि सर्वस्य सहर्ता पालकस्तथा ।
यदुन्मोलयसे नेत्रे त्रैलोक्यस्योद्भवस्तदा ।
भवतीह जगन्नाथ यदा सुप्यसि वै तदा ।
तदेतदखिलं देव त्रैलोक्यं संप्रणश्यति ।
भूमिर्धृता धारयते त्वयेदं सचराचरम् ।
त्वया धृता: धारयन्ति तथैवापोऽखिलं जगत् ॥
एष चाचिन्त्यमहिमा एष ब्रह्म सनातनम् ।
सएष सर्वकर्ता च सर्वज्ञश्च महेश्वर: ॥१२७१॥
यदिच्छया जगदिदं वर्वर्ति सचराचरम् ।
यस्य शक्रिलता सेयं सूर्यचन्द्रास्मन: प्रभो: ॥१२७२॥
पुष्पिताऽखिल मेवेदं जगद्भासयते भवात् ।
त्वमहं चापि यस्यैव शासने समवस्थितौ ॥१२७३॥
मनाक् प्रच्यवने शक्र रुजातौ भवता कचित् ।
विभूतिमानसौ शुक्र सर्व मस्य वशे स्थितम् ॥१२७४॥
महेश्वरोऽसौ यस्यान्तं न विदु र्देवदानवा: ।
यस्यैषा मे कला शुक्र विभूति: स्वर्गलक्षणा ॥१२७५॥
स एव भगवान् शंभु: सर्वलोकमहेश्वर: ।
अस्यैवयं तनु: शक्र कलामात्रं विभो मतम् ॥१२७६॥
नाहं अस्य तु तद्रूपं निरुपयितुमज्जसा ।
शक्रोऽस्म्यनेन सत्वेन प्रसीदतु ममाप्यसौ ॥१२७७॥
यथाऽहं तस्य श्रीर्विष्णु: परस्य परमात्मन: ।
परं तत्वं न जानामि स तथास्य जगत्पति: ॥१२७८॥
स एष त्रिजगन्नथो धूर्जटिश्चन्द्र्शेखर :।
भूतिभूषितसर्वाड: शूलभृत्सर्पभूषण: ॥१२७९॥
एषाऽसौ परमा मूति: शार्वी परमपावनी ।
तपसा महता युक्ता यन्नतोऽस्मि शतक्रतो ॥१२८०॥
तं च सर्वै: सुरै: साकं प्रणम्यैनं प्रसादय ।
एवमुक्तस्तत: शक्र: सर्वै: सुरगणैर्वृत: ॥१२८१॥
तुष्टाव देवदेवेशं त्रिपुरान्तकरं हरम् ।
प्रसादाद्ब्राह्मणस्तस्य याथातथ्येन शंकरम् ॥१२८२॥
शक्र उवाच ।
नमस्ते देवदेवेश मायावृतजगत्त्रय ।
यजमानो मही खंच तोयाग्रीन्व्दर्कवायव : ॥१२८३॥
तनवस्ते विनिर्दिष्टा याभिर्व्याप्तं जगत्रयम् ।
ब्राह्मीं तनुं समास्थाय राजसीं त्वं जगद्गुरो ॥१२८४॥
लोकान् सृजसि भूतात्मन्य़् तव कार्ये न विद्यते ।
पौरुषीं तनुमास्थाय सात्विकीं त्वं महेश्वर ॥१२८५।
पालयस्यखिलं देव त्रैलोक्य साक्षिवत्स्थित: ।
कालाख्यां तामसीं कृत्वा जगत्सहरसि तथा ॥१२८६॥
वृपरुपधरो धर्मो वाहनत्वमुपागत: ।
तथास्तेऽत्र जगन्नाथ प्रसीद परमेश्वर ॥१२८७॥
वामार्थ दयितास्थानं कथं जातं तव प्रभो ।
समाधिनिरतो नित्यं ब्रह्मचार्यध: भवान् ॥१२८८॥
नम: शशांकलेखांकजटाभार महेश्वर ।
गंगातरडंनिर्धूत जटाभार नमोऽस्तुते ॥१२८९॥
त्रिपुरारे नमस्तेस्तु नमस्त्वन्धकघातिने ।
कुशाग्रभिन्नदेत्यांशरुधिरार्द्र नमोस्तु ते ॥१२९०॥
कपालमालिने तुभ्यं पार्वतीदयिताय च ।
उग्रायुधाय भीमाय भीमायुधधराय च ॥१२९१॥
उर्ध्वलिगाय शीघ्राय कथाय कथनाय च ।
मडंल्याय वरेण्याय महाहासाय मीडुषे ॥१२९२॥
भीमाख्याय भुसणडाय व्यालयज्ञोपवीतिने ।
क्षमस्व मम देवेश यन्मयासि न पूजित: ॥१२९३॥
तवैव मायया पूर्व मोहितेन जगत्प्रभो ।
प्रसन्नोऽसि ध्रुवं शम्भो येन ज्ञातोऽस्मि वै मया ॥१२९४॥
सुप्रसन्नोऽसि देवेश प्रणतोऽस्मि महेश्वर ।
बृहदश्व उवाच ।
एवं स्तुतस्तु शक्रेण ब्रह्मणा ऋषिभि: सुरै: ॥१२९५॥
हंसरुपं तदा त्यक्त्वा स्वेन रुपेण शंकर: ।
जगाम ब्रह्मणो यज्ञ देवानां दर्शनं तदा ॥१२९६॥
आनाययामास तदा देवदेवो वृषं मुदा ।
इत्थं त देवदेवेश: समाप्ते ब्रह्मण: क्रतौ ॥१२९७॥
सर्वदेवगणै: सार्ध ययौ कालोदकं सर: ।
ददर्श नन्दिनं तत्र शीततृट् क्षुत् समाकुलम् ॥१२९८॥
अतीव किन्नगात्रं च कृषितीन्द्रियमानसम् ।
मृत्युना नयमानेंन बन्धुनेव नराधिप ॥१२९९॥
दृष्टोवाच महादेवो नन्दिनं जगतां वरम् ।
वरं वरय भद्रं ते उत्तिष्ठोत्तिष्ठ पुत्रक ॥१३००॥
मा भैषीर्नहिते मृत्यु: कल्पकल्पान्तरेष्वपि ।
इति वाचं समाकणर्य महादेवस्य सत्फलाम् ॥१३०१॥
उन्मील्य नेत्रे सहसा ददर्शाग्रे महेश्वरम् ।
देव हरं देव्या पार्वत्या सहितं स्थितम् ॥१३०२॥
देवगणै: सार्ध तत्याज मरणाद्भयम् ।
शिलां त्यक्त्या समुत्थाय तोयमध्यात्ससंभ्रमम् ॥१३०३॥
पूजयामास देवेशं वाग्भिरद्भि: प्रसूनकै: ।
स चापि पूजित: शम्भु: प्रहसन् वाक्यमब्रवीत् ॥१३०४॥
शंकर उवाच ।
रुद्रजाप्येन ते तात महता तपसा तथा ।
परितुष्टोऽस्मि भद्रं ते मत्समीपे निवत्स्यसि ॥१३०५॥
अनेनैव शरीरेण नास्ति ते मृत्युतो भयम् ।
स्मरस्व पूर्वकं जन्म प्रतीहारो भवान् मम ॥१३०६॥
शिलादेन व्दिजेन्द्रेण प्राप्तस्त्वं तपसा तदा ।
सत्पुत्रेण तथा पुत्र शिलादस्तारितस्त्वया ॥१३०७॥
गणेश्वरत्वमासाद्य मया सह निवत्स्यसि ।
अस्माद्योजनमात्रेण पूर्वभागी व्दिजोत्तम ॥१३०८॥
त्वया सह निवत्स्यामि भूत्वा भूतेश्वराख्यया ।
तव नन्दिन् प्रतिष्ठानं वसिष्ठो भगवान् ऋषि: ॥१३०९॥
कर्ता देशे शुभे तस्मिन् मम चाच्युत भूतले ।
सन्निधानं करिष्यामि तत्र नित्यं महं व्दिज ॥१३१०॥
पूर्वोत्पन्नं च यज्ज्येष्ठे शाख्यं लिंगं मम व्दिज ।
तत्रापि सन्निधानं मे नित्यं विज्ञातुमर्हसि ॥१३११॥
ऋषिकोटिसहस्राणि मम भक्त्या व्दिजोत्तम ।
तत्र संज्ञापयन्ति स्म ज्येष्ठेशं त सदैव तु ॥१३१२॥
ब्रह्मन् दिव्येन तोथेन शुभेनोत्तरमानसम् ।
तेषां तप: प्रभावेण भक्त्या च मम पाश्वद ॥१३१३॥
सोदरस्य च नागस्य स्रानं कृत्वा विधानत: ।
गत्वा च शीघ्रं सव्दिप्र तथैवओत्तरमानसम ॥१३१४॥
तत्रापि विधिवत्स्रानं विधाय दृढ निश्चयात् ।
सुखं प्राप्तो महाभागा तत्र रंस्यसि पुत्रक ॥१३१५॥
तस्माद्देशात्तथा याति दक्षिणेण महानदी ।
हिरण्याभाम्मसा पूर्णा नाम्ना कनकवाहिनी ॥१३१६॥
वसाम्यहं च ज्येष्ठेशे भूतै: सह तथोमया ।
वस त्वमपि सध्दिप्र मन्निष्ठो मत्परायण: ॥१३१७॥
आकाम्येण अवसन्नित्यं नियमाचारतत्पर: ।
विशुध्दप्रकृतिर्भूत्वा सर्वभूताभयंकर: ॥१३१८॥
मत्समीपमथाभ्येहि देहेनानेन पुत्रक ।
एवमुक्त्वा तु देवेशो नन्दिनं प्रणतं स्थितम् ॥१३१९॥
मृत्युं विसर्जयामास सान्त्वयित्वा सुरारिहा ।
नन्दिनं च समादाय दृष्टा चोत्तरमानसं ॥१३२०॥
तस्यैव सरसोऽभ्यासे श्रृगं त्रैलोक्यविश्रुतम् ।
अत्युच्छ्रितं समाभाति दृष्टं पुण्यप्रवर्धकम् ॥१३२१॥
हरमुकटमिति ख्यातं आरुरोह मुदान्वित: ।
यत्र सन्निहितो नित्यं देवदेवो महेश्वर: ॥१३२२॥
भयदाता च दैत्यानां सुराणभयप्रद: ।
ज्येष्ठेश्वरसमीपे तु वसिष्ठोऽपि महायश: ॥१३२३॥
सर्वैर्देवगणै: सार्ध दध्रे भूतेश्वरं हरम् ।
तस्यैव पश्चिमां मूर्ति स चकाराथ नन्दिनम् ॥१३२४॥
एवं कृते ययुर्देवा यथागतमरिन्दम ।
सस्नुस्तीर्थानि च तथा ऋषयश्च तपोधना: ॥१३२५॥
एवं हि भृगु शापेन हरस्यानुग्रहेण च ।
तत्र संनिहतो नन्दी तत्प्रीत्या च महेश्वर: ॥१३२६॥
नन्दीश्वरस्य या मूर्ति र्दुराचारैर्न दृश्यते ।
भूतेश्वर तथा दृष्टा मुच्यते सर्वकिल्विषै: ॥१३२७।
स्राता तु सोदरे पुणये दृष्टा भूतेश्वरं हरम् ।
ज्येष्ठेश्वरं नन्दिनं च गाणपत्यमवाप्नुयात् ॥१३२८॥
इति श्री नीलमते भरतगिरि मुणड पृष्ठ-कृपाणी तीर्थ ब्रह्मस्रो
-हंमव्दार-वाष्प-बिन्दु-कालोदक-वसिष्ठाश्रम-ज्येष्ठेश्वर
-सोदरोत्तमानस-भूतेश्वर वर्णन नाम नन्दिचरितं समाप्तम् ॥
N/A
References : N/A
Last Updated : January 09, 2018
TOP