परमेश्वरसंहिता - चतुर्थोऽध्यायः

परमेश्वरसंहिता


संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत्।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥१॥
पूजादिसर्वकार्याणामधिकारी(रः) च जायते।
भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च ॥२॥
यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयश्चापमृत्यूनां स्याद्येन विहितेन च ॥३॥
व्यापारो मानसो ह्येष न्यासाख्यो यद्यपि स्मृतः।
न बध्नाति स्थितिं सम्यक् तथाऽपि क्रियया विना ॥४॥
कराधीना पुनस्सा तु प्राङ्न्यासस्तु तयोः स्थितः।
अथ हस्तद्वये न्यस्य दीप्तिमद्‌द्वादशाक्षरम् ॥५॥
मणिबन्धान्नखाग्रान्तं त्वादित्यातपवत्ततः।
सृष्टिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥६॥
दक्षहस्ततलारम्भो वामान्तः सृष्टिसंज्ञितः।
दक्षाङ्गुष्ठादिको वामतलान्तः स्थितिसंज्ञितः ॥७॥
वामहस्ततलारम्भो दक्षान्त इतरः स्मृतः।
सृष्टौ दक्षतले तारं तदङ्गुष्ठादिके क्रमात् ॥८॥
अङ्गुलीनां तु दशके यावद्वामकनिष्ठिका।
विन्यस्य दशवर्णांस्तु न्यसेद्वामतलेऽन्तिमम् ॥९॥
स्थित्याख्ये दक्षिणाङ्गुष्ठादारभ्याङ्गुलिपञ्चके।
तत्तलान्तं तु ताराद्यं वर्णषट्‌कं तु विन्यसेत् ॥१०॥
वामाङ्गुष्ठात्तत्तलान्तं विन्यसेत् षट्‌कमुत्तरम्।
संहाराख्येऽक्षरं न्यस्य वामहस्ततलेऽन्तिमम् ॥११॥
अप्ययाख्यक्रमेणैव दक्षहस्ततलावधि।
ततो वर्णगणं शेषं न्यसेत् प्रणवपश्चिमम् ॥१२॥
तर्जन्या तत्तदङ्गुष्ठे तत्तदङ्गुष्ठकेन च।
तर्जन्यादिषु शाखासु तत्तन्मध्यमया तले ॥१३॥
न्यासं कुर्याद्यथायोगं ततोऽङ्गन्यासमाचरेत्।
आरभ्य दक्षिणाङ्गुष्ठाच्छाखासु दशसु द्विज! ॥१४॥
क्रमाद्वामकनिष्ठान्तं दक्षिणादि तलद्वये।
हृदादिद्वादशाङ्गानि भास्वद्रूपाणि विन्यसेत् ॥१५॥
दक्षिणे मध्यतः पझं प्रस्फुरत्किरणोज्ज्वलम्।
गदां वामतले न्यस्येज्ज्वलन्तीं स्वेन तेजसा ॥१६॥
दक्षे महाप्रभं चक्रं शङ्खं वामतले न्यसेत्।
किरीटं दक्षिणे हस्ते श्रीवत्सं वाममध्मतः ॥१७॥
कौस्तुभं दक्षिणतले वनमालां तथाऽपरे।
श्रियं दक्षिणहस्ते तु पुष्टिं वामतले न्यसेत् ॥१८॥
अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः।
गारुडं विन्यसेन्मन्त्रं दशस्वङ्‌गुलिषु क्रमात् ॥१९॥
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत्।
या विभोः परमा शक्तिर्हृत्पझकुहरान्तगा ॥२०॥
वायव्यं रूपमास्थाय दशधा संव्यवस्थिता।
इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गता ॥२१॥
नाडीदशकमाश्रित्य ता एवाङ्‌गुलयो मताः।
अत एव द्विजश्रेष्ठ! शक्त्याख्ये प्रभुविग्रहे ॥२२॥
पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत्।
विग्रहे मन्त्रसंघातं यथा तदवधारय ॥२३॥
आमूर्ध्नश्चरणान्तं च द्वादशार्णं न्यसेत्तनौ।
व्यापकत्वेन विन्यस्य पादाद्‌भूयः शिरोऽन्तिमम् ॥२४॥
सृष्टिसंस्थितिसंहारन्यासं कुर्यात्ततः परम्।
मूर्धादिपादपर्यन्तः सृष्टिन्यासः प्रकीर्तितः ॥२५॥
पादादिश्च शिरोऽन्तस्तु संहृतिन्यास उच्यते।
यथाऽभिलषितं कुर्यात् सर्वथा कर्तुरिच्छया ॥२६॥
मूर्ध्नि वक्त्रेंऽसयुग्मे च क्रमात् सव्येतरे हृदि।
पृष्ठे नाभौ तथा कट्यां जानुनोरथ पादयोः ॥२७॥
क्रमेण प्रणवाद्यं तु यान्तं द्वादशवर्णकम्।
विन्यसेदेष सृष्ट्याख्यो न्यासः प्रोक्तो यथार्थतः ॥२८॥
प्रणवाद्यान्न्यसेद्वर्णान् स्थानेषु हृदयादिषु।
अह्गोपाङ्गोक्तमार्गेण स्थितिन्यासः प्रकीर्तितः ॥२९॥
पादयोर्जानुनोः कट्यां नाभौ पृष्ठे हृदन्तरे।
सव्येतरेसयुग्मे च वक्त्रे मूल्धनि च न्यसेत् ॥३०॥
यादिवर्णांस्तु तारान्तानेष संहारसंज्ञकः।
ततो हृदादिस्थानेषु अङ्गोपाह्गानि विन्यसेत् ॥३१॥
न्यसेत्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत्।
ऐश्वर्यं शिरसोद्देशे यस्मादुपरि तिष्ठति ॥३२॥
प्राकृतं तात्विकं वाऽपि सर्वत्र मुनिसत्तम्!।
हृदग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् ॥३३॥
बलं चाखिलगात्राणां त्वग्गतं वायुना सह।
मूर्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् ॥३४॥
अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत।
तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते ॥३५॥
यथोक्तविधिना सोऽयं विधिरूर्ध्वं प्रवक्ष्यते।
ततः पझगदाचक्रशङ्खान् प्राग्वत्तु विन्यसेत् ॥३६॥
किरीटं मूर्ध्नि विन्यस्य(स्येत्) वह्न्यर्कायुतदीधितिम्।
श्रीवत्सं वक्षसोऽवामे पूर्णेन्दुसदृशद्युतिम् ॥३७॥
कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम्।
नानाब्जवनपुष्पोत्थां वनमालां च कण्ठतः ॥३८॥
आचांसाद्धक्षिणे भागे न्यस्या श्रीरुत्तरे तथा।
पुष्टिं गुल्फावसाने च गरुडं चोरुमूलतः ॥३९॥
भास्वद्रूपाणि चाङ्गानि चिदेकविभवानि च।
किरीटादीनि चान्यानि सर्वाण्याभरणानि च ॥४०॥
यथा प्रसिद्धरूपाणि स्वस्वकान्तिधराणि च।
मन्त्रन्यासं तु कृत्वैवं यथोद्दिष्टकमेण तु ॥४१॥
आमूलमन्त्रात् सर्वासां मुद्राणां बन्धमाचरेत्।
स्वं स्वं(चो) उदीरयन्मन्त्रं परमेश्वरवत्ततः ॥४२॥
संचिन्त्य रूपमात्मीयं साभिमानं महामते!।
मूलमन्त्राभिजप्तं च कुसुमं च शिखावधौ।
स्वविग्रहे तु शिरसा दद्याद्गन्धाम्बुभावितम् ॥४३॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे मन्त्रन्यासविधिर्नाम चतुर्थोऽध्यायः॥

N/A

References : N/A
Last Updated : January 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP