सनकः ---
प्रशंसितं पुरा ब्रह्नन्! सुदर्शननृसिंहयोः।
एकरूपं महायन्त्रस्थापनं स्थिरलक्षणम् ॥१॥
विस्तरेण समाचक्ष्व मयि सानुग्रहो यदि।
शाण्डिल्यः :---
पुरा नारायणेनोक्तं पुण्ये बदरिकाश्रमे ॥२॥
ब्रह्नणः शीर्षविच्छेदमहापातकशान्तये।
पृच्छतः शङ्करस्याथ सर्वपापापनोदनम् ॥३॥
सोऽपि तं विस्तराच्छ्रुत्वा कैलासशिखरोपरि।
प्रतिष्ठाप्य विधानेन यन्त्रे विष्टरसंस्थिते ॥४॥
कल्पान्तानलसूर्याभमुभयाननमव्ययम्।
सर्वलोकमयं सर्वदेवतामयमद्भुतम् ॥५॥
सर्वाधारमनाधारं सर्वशक्तिक्रियात्मकम्।
दुष्टदोषगणं सर्वं निर्दहन्तं स्वतेजसा ॥६॥
समाराध्याऽचिरेणैव पूतभावोऽभवद्भवः।
तथान्ये पुरूहूताद्या विद्यामेनामवाप्य च ॥७॥
शङ्करात् पूर्णसंज्ञानात् स्वदिग्भागानपालयन्।
प्रजापालनशीलानां भूपानामेतदर्चनम् ॥८॥
नैरन्तर्येण कर्तव्यमन्यथा जायतेऽधृतिः।
जायते कथमेतेषामुपपातकिनामपि ॥९॥
अकुर्वतां जगत्स्थित्यै मर्यादाया विलोकनम्।
कुर्वतां स्वस्वदुष्प्रापं भूपतीनां तु किं पुनः ॥१०॥
तथान्येषां द्विजातीनां सर्वपापप्रणाशनम्।
प्रतिष्ठाप्यार्चनीयं तत् सर्वकामसमृद्धिदम् ॥११॥
तद्विधानं विशेषेण श्रृणु गुह्यतमं परम्।
दिव्याद्यायतने चित्रे प्राङ्कणादौ तु कुत्रचित् ॥१२॥
ग्रामादौ तु नदीतीरे विपिने पर्वतोपरि।
प्रासादं मण्डपं वाऽथ सचित्रं सर्वतोमुखम् ॥१३॥
प्राक्पश्चिमाननं वाऽथ सगवाक्षकवाटकम्।
एकादितलसंयुक्तं चक्रलाञ्छनलाञ्छितम् ॥१४॥
मुखभद्रसमोपेतमारोहणसमन्वितम्।
सप्राकारं समापाद्य प्रासादाभ्यन्तरे तते ॥१५॥
भद्रविष्टरमद्यस्थभूपुरे वज्रलाञ्छिते।
शेषादिभिर्दिक्षु मध्ये षट्कोणपुरभूषिते ॥१६॥
सवायुबीजवायव्यमण्डलेन विराजितम्।
दशारचक्रमध्यस्थदळाष्टककजान्तरे ॥१७॥
स्थापयेत्तं महायन्त्रं लक्षणेनोपलक्षितम्।
आद्वादशाङ्गुलान्मानादेकैकाङ्गुलवर्धितात् ॥१८॥
आद्वादशाङ्गुलान्तानि मानानि स्युस्त्रयोदश।
तेष्वेकं निश्चयीकृत्य कर्तुरिच्छावशेन तु ॥१९॥
पादाद्युष्णीषर्यन्तं द्विषोढा वाष्टधा भवेत्।
बेरार्धमानमादाय स्वबागार्थं समन्ततः ॥२०॥
सूत्रेण कर्णिकावृत्तं मध्यस्थेन, ततो बहिः।
एकैकांशानि पझानि षट् भवन्ति यथाक्रमम् ॥२१॥
चतुष्पत्रं भवेदाद्यमष्टपत्रमनन्तरम्।
द्विरष्टकेसरं विद्यात् तृतीयं षोडशच्छदम् ॥२२॥
द्वात्रिंशत्केसरं तुर्यं द्वात्रिंशद्दळभूषितम्।
अष्टाष्टकेसरोपेतं तथासङ्ख्यदळं बहिः ॥२३॥
तत् केसरविनिर्मुक्तं अष्टपत्रं तथा बहिः।
भूपुरादीनि सार्धेन संपुटान्तानि बाह्यतः ॥२४॥
द्वाभ्यां द्वाब्यां तथाशाब्यां बहिरावरणद्वयम्।
पूर्वस्मिन् केशवाद्यांश्च विष्ण्वाद्यांश्च ततो बहिः ॥२५॥
जगत्स्थितौ समुद्युक्तानृषीकेशजनार्दनात्।
बहिश्चक्रगदादीनामंशं तेषामधोर्ध्वतः ॥२६॥
भागद्वयं ततस्त्यक्त्वा वाराहनरसिंहयोः।
समन्ताद्भूपुरस्याऽथ भोगार्थं (भागार्थं) यन्त्रकल्पने ॥२७॥
महायन्त्रस्य विस्तारे विभक्ते पञ्चधाऽथवा।
सप्तधा, मध्यबाह्यस्थैर्नालांस्त्र्यंशैः प्रकल्पयेत् ॥२८॥
किञ्चिद्विष्टरपीठोच्चान् नाळानामधिकायतिः।
वराहवदनाकारा, पार्श्वयोर्मूलविस्तृते ॥२९॥
दक्षिणाद्यनुपातेन त्वामूलादग्रपश्चिमम्।
प्रमाणमेवं बुद्ध्वाऽत्र लोहदारुशिलादिकम् ॥३०॥
समाहरेद्यथाशास्त्रं प्रमाणेन यथाविधि।
संपाद्या फलकाकारा भागैकेन घना दृढा ॥३१॥
स्यात् षडंशघना शैली चतुरंघशनाऽथवा।
आकर्णिकावनेर्बाह्यचतुरश्रपुराकृतिः (वधिः) ॥३२॥
प्रमाणादुत्तमादस्मान्मध्यमाधमवाञ्छया।
त्र्यंशेनार्धेन वा कुर्यान्मुख्यकल्पमुदीरितम् ॥३३॥
बेरोष्ठं द्विगुणीकृत्य तत्प्रमाणेन कल्पयेत्।
फलकामद्यतस्त्यक्त्वा लम्बमानं यथापुरा ॥३४॥
शेषं द्विरष्टधा भङ्ख्त्वा कर्णिकार्धेन तद्बहिः।
प्राग्वदावृतिपझानि, भूपुरादीन्यथ त्रिभिः ॥३५॥
ततस्त्रिभिस्त्रिभिः कार्यं मूर्तीनामावृतिद्वयम्।
अर्धेन चतुरश्रं तु, मूर्तीनामावृतिद्वयम् ॥३६॥
एकैकं त्र्यंशसम्भूतं प्रमाणेन यथा भृशम्।
कल्पयेत् केशवाद्यांश्च विष्ण्वाद्यांश्च द्विरष्टधा ॥३७॥
कुर्याद्वैकावृतौ बुद्ध्या संमन्त्र्य ध्यानयोगतः।
मध्यतः कर्णिकायां तु परिधौ चन्द्रमण्डलम् ॥३८॥
तन्मध्ये तारकं कुर्यात् तन्मध्येन सुदर्शनम्।
भुजैः षोडशभिर्युक्तमष्टाभिर्वाऽनलप्रभम् ॥३९॥
पिङ्गलोचनकेशाढ्चं रक्ताम्बरधरं विभुम्।
दंष्ट्राकराळवदनविवरोद्भूतपावकम् ॥४०॥
कुटिलभ्रुकुटीभङ्गभंगुराळकषट्पदम्।
ललाटलोचनोद्गीर्णज्वालाज्वलितदिङ्मुखम् ॥४१॥
ऊर्ध्वज्वालागणालीढकिरीटतटशोभितम्।
श्रीवत्सकौस्तुभोरस्कं ग्रैवेयकविराजितम् ॥४२॥
पादावलम्बिनीं दिव्यां दधानमुपवीतवत्।
प्रत्यालीढेन तिष्ठन्तं चक्राक्रमणरूपिणा ॥४३॥
पादयोर्दक्षिणांगुष्ठप्रान्तरेखात् तथेतरात्।
पार्ष्णेः स्वमध्यतो मानं देहलब्धांगुलेन च ॥४४॥
चत्वारिंशत् साष्टकं स्यात् प्रत्यालीढं चिरान्वितम्।
मुख्यदक्षिणहस्तादिमुख्यवामकरावधि ॥४५॥
द्विरष्टबाहुभिर्धत्ते प्रादक्षिण्यक्रमेण तु।
शक्तिं खङ्गं, तथा चाग्नि, मङ्कुशं, दण्डकुन्तके ॥४६॥
परशुं च, सहस्रारं दरं च सशरं धनुः।
पाशं, हलं, ततो वज्रं, गदां च मुसलं, तथा ॥४७॥
त्रिशूलमेतान्यस्त्राणि प्रत्येकं वीर्यवन्ति च।
दुष्प्रधर्षं भयघ्नानि वहन्तमरिसूदनम् ॥४८॥
अन्यथाष्टभुजो धत्ते मुख्यदक्षकरादिकैः।
पझां, कुशौ, च मुसलं, चक्र, मत्युग्रतेजसम् ॥४९॥
शङ्खं च, सशरं चापं, पाशं, कौमोदकीं क्रमात्।
कृत्वैवमर्धचित्रं तु नवतालेन शिल्पिना ॥५०॥
पादयोरन्तरे तस्य तिष्ठतः कर्णिकावनौ।
शान्तिपुष्टिवशीकारविद्वेषाकर्षमारणान् ॥५१॥
उच्छाटनं वा यः कर्तुमिच्छेत् साधकसत्तमः।
तस्य साध्यं लिखेन्मन्त्री शक्त्या संपुटितं विभोः ॥५२॥
इन्दुबिम्बस्य पर्यन्ते षट्कोणं क्रमशो लिखेत्।
प्रागादिकोणषट्के तु प्रवर्तकनिवर्तके ॥५३॥
मन्त्राक्षराणि सादीनि सबिन्दूनि च वै पुरा।
उपक्रम्य च वर्मास्त्रे लिखेदन्तर्मुखानमून् ॥५४॥
बहिः कोणान्तराळेषु प्रोक्तोऽयं दक्षिणादितः।
आचक्रादीन्यथाङ्गानि ज्वालाचक्रान्तिमानि च ॥५५॥
चतुर्दळाग्रे प्रागादौ वर्मास्त्रे च सबिन्दुके।
तदन्तराळेष्वन्तस्था बिन्दुना चान्तराननाः ॥५६॥
केसरेष्वष्टपत्रस्य स्वरानन्यांश्च बिन्दुभिः।
दळेष्वष्टाक्षरार्णआंनि तथा भूतानि, तद्बहिः ॥५७॥
द्विरष्टपत्रकिञ्जल्कनिचये प्राक्प्रयोगतः।
कादिसान्तानि वर्णानि सबिन्दूनि यथापुरा ॥५८॥
तद्दळेषु द्विषट्कार्णः, वर्मास्त्रे शिरसा सह।
षोडशाक्षर इत्युक्तो, द्वात्रिंशत्केसरादिके ॥५९॥
आनुष्टुभं महामन्त्रं नृवराहनृसिंहयोः।
बहिरष्टाष्टपत्रेषु पाताळनृहरेर्मनुम् ॥६०॥
प्राग्वलदक्षरशो न्यस्य, ततोऽष्टदळपङ्कजे।
नारसिंहं तथाष्टार्णं, तद्बाह्यस्थे तु भूपुरे ॥६१॥
सप्तद्वीपसमुद्राढ्ये वज्रैः कोणेषु लाञ्छिते।
प्रागाद्यासु महादिक्षु पार्थिवं बीजमुत्तमम् ॥६२॥
तन्नाममन्त्रसंयुक्तं, अन्तस्थाः कोणभूमिषु।
ततः सपार्थिवं बीजं कोणाभ्यन्तरबाह्ययोः ॥६३॥
तद्बहिः प्रातिलोम्येन स्वरषोडशकं न्यसेत्।
सकारादीनि कान्तानि तथाभूतानि तद्बहिः ॥६४॥
परितोन्त्ययुगेनैव साध्यनामविदर्भणम्।
कृत्वा प्रति प्रयोगेण बहिर्भूपुरसंपुटात् ॥६५॥
पाशांकुशाब्यामावेष्ट्य द्वाब्यां वा बहुभिस्तु वा।
पुरोदितक्रमेणैव स्वस्थाने केशवादयः ॥६६॥
बाह्यावरण भूमिष्ठाः प्रागाद्यासु च विष्णवः।
तत्कोणेषु हृषीकेशः, तच्छिद्रेषु जनार्दनाः ॥६७॥
कल्पनीयाश्च, तन्मन्त्राः प्रणवाद्या यथाक्रमम्।
सजीवाः संज्ञयोपेता नमस्कारसमन्विताः ॥६८॥
अमुकं रक्ष रक्षेति तदन्ते साध्यभूषिताः।
प्रागादिदिक्षु तद्बाह्ये त्वन्तस्थाश्चाष्टभिः सह ॥६९॥
यशौ रषौ लसौ चाथ वहावपि सबिन्दुकौ।
विलिखेत् पुनरप्येतानैशान्याऽनल पश्चिमम् ॥७०॥
पाशाङ्कुशाब्यामावेष्ट्य द्वाभ्यां वा बहुभिस्तथा।
अधस्तान्नृवराहं च सर्वोर्ध्वे नृहरेर्मनुम् ॥७१॥
क्रमशः केशवादीनां ध्यानं चाकर्णयामलम्।
केशवः स्वर्णवर्णोऽब्जशह्खचक्रगादाधरः ॥७२॥
नारायणो नीरदाभः शङ्खचक्रगदाब्जधृक्।
माधवोऽव्जगदाशङ्खचक्री नीलाब्जसन्निभः ॥७३॥
गोविन्दो धवलश्चक्रगदाशह्खपयोजधृक्।
विष्णुर्गदाम्बुजदरचक्री बन्धूकसप्रभः ॥७४॥
रक्तस्चक्रदराम्भोजशङ्ख(गदा)धृङ्नधुसूदनः।
त्रिविक्रमश्चक्रगदापझशङ्खी जपारुणः ॥७५॥
शह्खचक्रगदापझधरः स्याद्वामनोऽरुणः।
पझचक्रगदाशङ्खी श्रीधरश्चन्द्रसप्रभः ॥७६॥
विद्युत्प्रभो हृषीकेशो गदाचक्रदराब्जधृक्।
गदाब्जचक्रविद्याभृत्पझनाभोऽरुणप्रभः ॥७७॥
दामोदरः पझशङ्खगदाचक्रधरोऽरुणः।
मुख्यदक्षकराम्भोजात् मुख्यवामकरावधि ॥७८॥
पझादिकं धारयन्त आयुधानां चतुष्टयम्।
किरीटकौस्तुभधरा वनमालाविभूषिताः ॥७९॥
पीताम्बरधराः सर्वे प्रसन्नवदनेक्षणाः।
करुणापूर्णहृदया जगदुद्धरणोद्यताः ॥८०॥
यन्त्रतेजोऽसहिष्णूनां नराणां तापशन्तये।
आसारैरमृतेर्नित्यं सेच्यन्तः समन्ततः ॥८१॥
विष्णुः प्राच्यादिदिग्भागे हृषीकेशा विदिक्स्थिताः।
जनार्दनाश्छिद्रगताश्चाष्टपादे(?) चतुर्भुजाः ॥८२॥
पृष्टदक्षिणवामाभ्यां चक्रशह्खधरास्तथा।
मुख्यवामकरेणैव वरदा वाऽभयप्रदाः ॥८३॥
विष्णवो दक्षिणैर्मुख्यैर्ज्वलत्पावकभीषणाः।
चक्रकौमोदकीशार्ह्गान् धारयन्तः सखड्गकान् ॥८४॥
वह्न्यादिकोणदेशस्था हृषीकेशाः सुवर्णभाः।
शङ्खं हलं च मुसलं वहन्तः शूलपश्चिमम् ॥८५॥
प्रागाग्नेयादिकच्छिद्रदेशस्थाश्च जनार्दनाः।
ज्वलन्मरतकाभाश्च वीक्षमाणाश्च दिक्स्थितान् ॥८६॥
दण्डं कुन्तं च शक्तिं च पाशं चाङ्कुशमेव च।
वज्रं परशुसंज्ञं च तथा शतमुखानलम् ॥८७॥
दधानाः सुसमैः स्थानैरुत्थिताः स्वस्तिकादिना।
सुखासीनास्तु वा सर्वे केवला वा सशक्तिकाः ॥८८॥
संकल्प्याः तदधः सर्वयज्ञाङ्गः सूकराननः।
कृष्णपिङ्गळवर्णआभः पुण्डरीकनिभेक्षणः ॥८९॥
पश्चिमाब्यां च पाणिभ्यां पूर्ववच्चक्रशङ्खभृत्।
मुख्येन दक्षिणेनैव भीतानामभयप्रदः ॥९०॥
भूम्याः स्वाङ्के निषण्णाया वामेनास्लेषतत्परः।
परस्तान्नहरिर्देवस्तुहिनाचलसन्निभः ॥९१॥
करैरष्टभिरत्युग्रः पृष्ठतो दक्षिणादितः।
शङ्खचक्राम्बुजगदाः खड्गं च सशरं धनुः ॥९२॥
धत्ते षड्भिस्तु मुख्याभ्यां हिरण्यकशिपुं रुषा।
विदारयंश्च स्वाङ्कस्थं नखरैः क्रकचोपमैः ॥९३॥
उद्धृत्य साम्बुजं पाणि केवलं वाऽभयप्रदः।
हिरण्यरुधिरस्रोतः पङ्कितोरस्थलः शुभः ॥९४॥
सर्वानेतान् सजीवेन शक्तिबीजेन वेष्टयेत्।
बहिः प्राच्यादिदिग्देशे साकारानस्त्रविग्रहान् ॥९५॥
चक्रकौमोदकीशार्ह्गनन्दकान् विलिखेदिमान्।
केशवाद्यास्तथास्त्रान्ताश्चतुस्त्रिंशत्तु मूर्तयः ॥९६॥
स्वतन्त्रं कल्पयेन्मन्त्री यद्वा चावरणक्षितौ।
कृत्वैवं प्राह्मुखं यन्त्रमपराङ्गं प्रकल्पयेत् ॥९७॥
कर्णिकावलयं कुर्यात् प्राक्प्रमाणेन मध्यतः।
तदन्तरे कोणषट्कं प्रकाशाह्लादसंपुटम् ॥९८॥
त्रिधा विभज्य तद्बाह्यं क्षेत्रार्धं च तदन्तरे।
त्रिरष्टयेदुम्बराह्ये (?) कमलं द्वादशच्छदम् ॥९९॥
चतुर्विंशद्दलं चक्रं नाभिनेमित्रयान्वितम्।
प्रथिभिश्चावृतं बाह्ये नेमिस्थैस्तस्य बाह्यतः ॥१००॥
शक्तिभिश्च जयाद्याबिरष्टाभिः परिवारितम्।
पूर्वं द्वादशपत्राब्जकर्णिकामध्यकल्पिते ॥१०१॥
त्रिकोणसंपुटाकारे प्रकाशाह्लादलक्षणे।
षट्कोणे लक्षयेद्देवं कल्पान्तहुतभुक्प्रभम् ॥१०२॥
नृपञचवस्त्रं ज्ञानादिगुमपूर्णमहार्णवम्।
त्रिलोचनं चतुर्बांहुं चतुश्चक्रधरं परम् ॥१०३॥
योगपट्टपिनद्धाङ्गं जान्वारूढभुजद्वयम्।
श्रीवत्सकौस्तुभोरस्कं भूषितं मकुटादिभिः ॥१०४॥
हारशेखरकेयूरकटकैर्नूपुरान्तिमैः।
भक्तानां स्वानुरक्तानां सिद्धान्तनिरतात्मनाम् ॥१०५॥
अशोकविटपिच्छायान्याजेनार्तिविनाशनम्।
साधुसंरक्षणोद्युक्तचेष्टितं हृषृमानसम् ॥१०६॥
अधस्ताच्चरणाम्भोजात् साध्यं बीजपुटीकृतम्।
विलिख्य, कोणषट्केषु प्रागाद्येषु त्रिकं त्रिकम् ॥१०७॥
सुदर्शननृसिंहस्य मन्त्रार्णानि यथाक्रमम्।
तदङ्गानि च तद्बाह्ये कोणाभ्यन्तरभूमिषु ॥१०८॥
लिखेदावृत्तियोगेन क्षार्णं प्रथिजणेषु च।
प्रागादि चक्रबाह्ये तु जया चन्द्रप्रभाविनी ॥१०९॥
नवदूर्वाङ्कुरश्यामा मोहिनी, विजया ततः।
राजोपलप्रभा कान्ता ह्लादिनी पाटलप्रभा ॥११०॥
अजिता कनकप्रख्या, माया नीलोत्पलप्रभा।
रक्ताऽ पराजिता सिद्धिर्धूम्रवर्णा स्वकं पतिम् ॥१११॥
वीक्षमाणाश्च सततं, नीलोत्पलविलोचनाः।
नवयौवनलावण्यविभवेनोपबृंहिताः ॥११२॥
करण्डमकुटोपेताः सर्वाभरणभूषिताः।
विचित्रक्षौमवसनाः सर्वर्तुकुसुमान्विताः ॥११३॥
द्विभुजा दक्षहस्तस्थपुष्पमालाभ्यलंकृताः।
वामे चन्द्रांशुसह्काश चामरव्यजनोद्यताः ॥११४॥
भूपच्चरौ नृसिंहस्य भीमोग्रौ भीषणद्युती।
दंष्ट्राकराळवदनौ ज्वलत्पावकलोचनौ ॥११५॥
नीलनीरदसंकाशौ द्विभुजौ दण्डचक्रिणौ।
उदग्रकायावत्युग्रौ वीक्षयन्तौ परस्परम् ॥११६॥
रक्ताम्बरधरौ रक्तकुसुमस्रग्विमण्डितौ।
संपाद्यैवं महायन्त्रं सुदर्शननृसिंहयोः ॥११७॥
स्थापयेद्विधिवन्मन्त्री मध्ये प्रासादमण्टपे।
क्ष्मापरिग्रहमारभ्य संपन्ने सर्वकर्मणि ॥११८॥
विन्यस्ते विष्टरे यन्त्रे प्रतिष्ठाप्य विधानतः।
त्रैकाल्यमर्चनं कार्यं तल्लक्षणमथोच्यते ॥११९॥
तद्दैर्घ्यं यन्त्रविस्तारादधिकं द्वादशाह्गुलम्।
विभक्ते यन्त्रविस्तारे सप्तधा वाऽथ पञ्चधा ॥१२०॥
एकैकमन्तयोस्त्यक्त्वा भागैर्मध्यगतैरतः।
पञ्चभिर्वा त्रिभिः कार्या विष्टरस्य तु विस्तृतिः ॥१२१॥
एकैकं मध्यतः स्थाप्य पार्श्वयोः सषडङ्गुलम्।
यन्त्रपार्श्वस्थनाळाभ्यां सुषिरद्बयमाचरेत् ॥१२२॥
शिष्टानि मार्जयेन्मन्त्री चतुरश्रप्रसिद्धये।
त्रिचतुःपञ्चधा वाऽथ यन्त्रोच्छ्राये विभाजिते ॥१२३॥
तत्तदेकांशमानेन कार्यःस्याद्विष्टरोच्छ्रयः।
पीठवत्तदलंकृत्य पञ्चाह्गैः परितो बहिः ॥१२४॥
तदूर्ध्वे विष्टरं यन्त्रं कल्पयेत्तद्विधिं श्रृणु।
पीडमध्यगतं भागं मध्यस्थेन तु तन्तुना ॥१२५॥
कर्णिकार्थं परिभ्राम्य शेषे षोढा विबाजिते।
द्विरष्टकेसरोपेतमष्टपत्राब्जमस्तके ॥१२६॥
भागेन तद्बहिस्तद्वद दशारं चक्रमुज्ज्वलम्।
वायुमण्डलमध्येन षट्कोणं तु बहिस्त्रिभिः ॥१२७॥
वज्राङ्कितं कोणभूषु भागार्धेन तु भूपुरम्।
यन्त्रमद्यमनाळस्य निवेशार्थं तु मध्यतः ॥१२८॥
वेधयेत् तत्प्रमाणेन साध्यनाम समन्ततः।
विलिख्य तद्बहिर्वेष्ट्य केसराणां द्विरष्टके ॥१२९॥
षोडशार्णं नृसिंहस्य तद्द्विषट्काक्षरावधौ।
हुंफट्स्वाहा समोपेतो नृहरेः षोडशाक्षरः ॥१३०॥
प्रागाद्यष्टदलेष्वस्य मन्त्रमानुष्टुभं परम्।
चतुष्टयक्रमेणैव प्रत्येकस्मिन् दळे न्यसेत् ॥१३१॥
बहिर्दशारचक्रस्य प्रागराद्येषु मन्त्रपम्।
सौदर्शननृसिंहस्य हनशब्दसमन्बितम् ॥१३२॥
विलिखेद्द्वन्द्वयोगेन, बाह्ये वायव्यमण्डले।
विलिखेद्वर्तुळाकारे वायव्यं बीजमुत्तमम् ॥१३३॥
वर्म चास्त्रसमेतं च विलिखेदन्तरान्तरा।
बाह्यस्थे कोणषट्के तु लिखेदाग्नेयमक्षरम् ॥१३४॥
कल्पयेत् प्रतिकोणं तु वह्निज्वालासमन्वितम्।
कोणेषु भूपुरस्यान्तः पार्थिवं बीजमुल्लिखेत् ॥१३५॥
अङ्कारोऽथ विदिग्भागे परितो भद्रपीठवत्।
कण्ठदेशं समाश्रित्य द्वौ द्वौ प्राच्यां दिशि क्रमात् ॥१३६॥
अन्योन्यमभिवीक्षन्तौ कल्पयेदुत्तमोत्तमे।
यन्त्रसन्धारणोद्युक्तौ व्यात्तास्यावुग्रलोचनौ ॥१३७॥
अनन्तगुळिकौ प्राच्यां, याम्यायां शङ्खवासुकी।
सतक्षको महापझः प्रतीच्यां उत्तरे तथा ॥१३८॥
कार्कोटकस्तथापझो, विशेषस्तत्र कथ्यते।
विभज्य कर्णिकाभूमेर्भूपुरान्तं विधान्तरे ॥१३९॥
नृसिंहयन्त्रं कुर्वीत, बाह्यतो यन्त्रविष्टरम्।
दिक्षु नारायणास्त्राणि तत्र कूर्चमयानि च ॥१४०॥
सितादिधातुजैर्वर्णैः कुङ्कुमाद्यैर्विमिश्रितैः।
विलिखेन्मुख्यमूर्त्यादि यथाशोभं मुखद्वये ॥१४१॥
सुदर्शननृसिंहाभ्यां वर्णशोभा समीरिता।
कर्णिका कनकप्रक्या, केसराण्यरुणानि तु ॥१४२॥
पाण्डुरक्तानि पत्राणि, भूपुराणि समन्ततः।
कनकाभानि कार्याणि, मूर्तीनां प्रागुदीरितम् ॥१४३॥
चक्रनाबिद्वयं कुर्याद्धेमपूर्वारुणप्रभम्।
शरदाकाशसंकाशान्यराणि, अरुणमन्तरम् ॥१४४॥
हेमकुन्दसितं कुर्यात् क्रमान्नेमित्रयं शुभम्।
पीतेन वा वळर्क्षेण लिखेन्मन्त्राक्षराणि वै ॥१४५॥
पझकेसरपत्रेषु भूपुरेषु समन्ततः।
षट्कोणान्तरबाह्येषु चक्रनाभ्यरनेमिषु ॥१४६॥
पृथक् कृतानि वर्णानि मान्त्राण्यन्तर्मुखानि च।
तारद्वयान्तरस्थानि बिन्दुयुक्तानि चान्ततः ॥१४७॥
लेख्यान्येतानि सर्वत्र, मुख्यप्रणवसंपुटम्।
प्राकारसमुपेतानि नमस्कारान्वितानि च ॥१४८॥
कुर्यान्नारायणास्त्राणि कूर्चानि हरिताणि च।
बद्धानि पझपाशेन ततो हयमुखानि च ॥१४९॥
भूर्जपत्रे विलिख्येत कुंकुमागरुजै रसैः।
हरिचन्दनकर्पूरगव्यपञ्चकसाधुभिः ॥१५०॥
सुवर्णसूच्या विधिवत् समाप्य गुळिकाकृतिम्।
सुवर्णपट्टेनावृत्य प्रतिष्ठाप्य विधानतः ॥१५१॥
रक्ष्याणामायुरारोग्यधनधान्यादिवृद्धये।
पुत्रपौत्रादिसन्तानविजयेष्टादिसिद्धये ॥१५२॥
धारयेच्छिरसा मन्त्री साधुसंरक्षणे रतः।
यन्त्रमेतत् समाख्यातं सुदर्शननृसिंहयोः ॥१५३॥
स्थापनं सर्वमूर्तीनां यथावत् प्रागुदीरितम्।
तथैवैतत् प्रतिष्ठाप्य त्रिकालं वैककालिकम् ॥१५४॥
पूज्यते यदि राजा च राष्ट्रं च सुखमेधते।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे सुदर्शननृसिंहमहाचन्त्रस्वरूपकथनं नाम त्रयोविंशोध्यायः।