परमेश्वरसंहिता - एकविंशोध्यायः

परमेश्वरसंहिता


शाण्डिल्यः ---
मुने! हिरण्यगर्भादौ विशेषो वक्ष्यतेऽधुना।
हेमगर्भविधानं तु प्रथमं कथ्यते मया ॥१॥
सनकः ---
यद्यदत्रोच्यते कर्म तुलाभारेऽपि नोदितम्।
साधारणं भवेत्तत्तत् सर्वेषामपि क्रमणाम् ॥२॥
तुलाभारादिकानां तु विभवाद्यानुगुण्यतः।
प्राग्वन्मण्टपनिर्माणं पीठादिपरिकल्पनम् ॥३॥
प्रतिष्ठोदितमार्गेण कुर्याद्वा मण्टपादिकम्।
यद्वाष्टसप्तषट्‌पञ्चचतुस्त्रिकरविस्तृतम् ॥४॥
त्रिंशदङगुलमानं तु गोलकैकैकहानितः।
उन्नतं मध्यपीठं स्यात् तत्तत्क्षेत्रानुसारतः ॥५॥
चतुर्हस्तं समारभ्य षट्‌षट्‌गोलकहानितः।
विस्तृतं पार्श्वयोः पीठद्वितयं परिकल्पयेत् ॥६॥
विंशत्यंगुलमानाच्च द्विद्विकांगुलहानितः।
तदुन्नतिर्यथा साऽन्त्ये सार्धहस्ते दशांगुला ॥७॥
द्वयोक्तमानादर्धं वा भवेत् सर्वत्र चोन्नतिः।
पीठानामन्तराळं तु कल्पयेत् करसंमितम् ॥८॥
करार्धं वर्धयेद्वापि भवेद्यावच्चतुष्करम्।
अन्तराळं भवेत्तावद्यथा वा नातिसङ्कटम् ॥९॥
यथोदितेषु मानेषु यथाभिमतमानतः।
कुर्यात् कुण्डगणं चापि लक्षणेनोपलक्षितम् ॥१०॥
आस्थानमण्टपाद्ये तु यथैतत् कल्पयेत्तदा।
मध्यपीठोदितं कर्म तत्रदे(द्दे)वासने भवेत् ॥११॥
तदुदक् दक्षयोः पीठद्वयमुक्तप्रमाणतः।
प्राक्दिक्कुण्डस्य वै प्राच्यां पीठं कुर्यात् स्मं शुभम् ॥१२॥
सप्तषट्पञ्चहस्तं वा चतुस्त्रिद्विकरं तु वा।
एकहस्तोच्छ्रितं वाऽपि तदर्धोच्छ्रितमेव वा ॥१३॥
तस्योपरिष्टात् कर्तव्यं हेमगर्भनिवेशनम्।
तुलाभारोदितं कर्म पीठोपर्यथवा चरेत् ॥१४॥
यद्वा कुंभादियजनं अधिवासनकर्म च।
मण्टपे कल्पयित्वा, तत्प्रपायां वा समाचरेत् ॥१५॥
हेमगर्भनिवेशं तु प्रपायां वा समाचरेत्।
कुंभयागादिकं रूपं कर्तुरिच्छानुरूपतः ॥१६॥
तुलाभारादिकेऽन्यस्मिन् दिनेप्येवं समाचरेत्।
ततः कुर्याच्च सौवर्णमेकांगुलघनं दृढम् ॥१७॥
अधः पात्रं चोर्ध्वपात्रं यथासङ्गतयोस्तयोः।
सुखासनं स्यान्नृपतेर्विस्तृतं कल्पयेत्तथा ॥१८॥
अधः पात्रं सुवर्णआनां सहस्रेण पलेन वा।
यद्वा निष्कसहस्रेण, तदर्धेनोर्ध्वपात्रकम् ॥१९॥
एवं पात्रद्वयं कुर्यात् सर्वालङ्कारसंयुतम्।
विभवे सर्वपात्राणि कुर्याद्धेममयानि च ॥२०॥
अधिवासदिनोक्तं तु तुलाभारवदाचरेत्।
पात्रद्वयस्योदक् पीठे ह्यधिवासं समाचरेत् ॥२१॥
ततः कर्मदिनोक्तं तु प्राग्वत् कृत्वा क्रमेण तु।
इन्द्रदिक्कल्पिते पीठे भारैर्द्वादशभिर्मुने! ॥२२॥
शालीनां विष्टरं कृत्वा तबूर्ध्वे तण्डुलान् न्यसेत्।
तदर्धमानांस्तस्योर्ध्वे तदर्धांस्तु तिलान् न्यसेत् ॥२३॥
शालिभिः समभारान् वा तण्डुलांश्च तिलान् न्यसेत्।
अधिवासेप्येवमेव भवेद्वित्तानुसारतः ॥२४॥
एवमेव भवेद्वापि तुलाभारादिकर्मणि।
मार्गं वा व्याघ्रजं चर्म शाल्यादेरन्तरान्तरा ॥२५॥
विन्यसेन्नववस्त्रं वा विभवे त्रितयं तु वा।
अन्यच्च मङ्गळं कुर्याद्वस्त्रवेष्टनपूर्वकम् ॥२६॥
अधः पात्रं तदूर्ध्वे तु न्यसेत् प्रागधिवासितम्।
मुहूर्ते शोभने प्राप्ते गृहीत्वा भूपतिं गुरुः ॥२७॥
सुस्नातं भूषितं प्राग्वद्वस्त्रमाल्यादिभूषणैः।
महार्घैर्विविधैश्चापि खड्‌गखेटकवर्जितम् ॥२८॥
प्राग्वत्तत्वोपसंहारं कृत्वा जीवावशेषितम्।
सङ्खतूर्यनिनादाद्यैः सहचात्र निवेशयेत् ॥२९॥
अधस्थे प्राङ्‌मुखं यद्वा विन्यसेत् प्रत्यगाननम्।
वर्मणा विन्यसेदूर्ध्वे ह्यूर्ध्वपात्रमधोमुखम् ॥३०॥
तदण्डान्तः समासीने तस्मिंस्तस्याग्रतो गुरुः।
उपविश्यासने प्राग्वत् तत्वोत्पत्तिं समाचरेत् ॥३१॥
अण्डाज्जातं तु तं स्मृत्वा ततस्तस्मात्तु भूपतिम्।
स्नानपीठे समावेश्य मङ्गळद्रव्यवासितैः ॥३२॥
नवभिः पञ्चभिर्वापि कुंभैरुदकपूरितैः।
वस्त्रादिवेष्टितैः कुर्यादभूपतेरभिषेचनम् ॥३३॥
कल्पयेत् प्रोक्षणं वाऽपि ऋत्विग्भिः सह देशिकः।
कृत्वा ततस्तं खाचान्तं भूषणादिविभूषितम् ॥३४॥
प्रणामं कारयेद्‌भूयो भूयो भगवतो विभोः।
जातकर्मादिसंस्कारं जातार्थं जुहुयात् क्रमात् ॥३५॥
तिलैराज्यैश्च बहुभिः सर्वसंपूरणाय च।
सर्वदोषविनाशाय ततः पूर्णां च पातयेत् ॥३६॥
भूषणानि च ते पात्रे नृपो दद्याद्धरेर्विभोः।
दानात् फलं च पूर्वोक्तं विभोरायतने सदा ॥३७॥
स्वयंव्यक्तादिके कुर्यात्तुलाभारादि कर्म च।
तदाऽपि भूपस्य फलं भवेद्दानोदितं क्रमात् ॥३८॥
अनुकल्पे तदर्धं तु दद्याद्भगवतो विभोः।
अर्धं दद्याद्बाह्नणेम्यो तुलाभारे तथैव च ॥३९॥
तुलाभाराह्वयं कर्म हेमगर्भाभिधं च यत्।
एतद्‌द्वयं तु मुख्यं स्यात् सर्वेषामपि कर्मणाम् ॥४०॥
क्रमेण वक्ष्यमाणानां तिलपर्वतपूर्वकम्।
अन्यत्तु सकलं कर्म तुलाभारवदाचरेत् ॥४१॥
हेमनिष्कसहस्रं वै दद्याद्वै गुरुदक्षिणाम्।
तदर्धं शतनिष्कं वा तदर्धं वा यथावसु ॥४२॥
दशनिष्कं तदर्धं वा तदर्धं वाऽथ दक्षिणाम्।
आचार्याय प्रदद्याद्वै न कदाचिददक्षिणम् ॥४३॥
तुलाभारादिकं कर्म सर्वेषामपि ऋत्विजाम्।
दक्षिणा तु तदर्धा स्यात् तदर्धा परिचारिणाम् ॥४४॥
अन्येषां तु यथाशक्ति, ततोऽन्यस्मिंस्तु वासरे।
कुंभमण्डलकुण्डस्थविभोः कुर्याद्विसर्जनम् ॥४५॥
विशेषार्चनसंयुक्तं ततोऽन्यस्मिन्दिने तु वा।
एवं सर्वत्र वै कुर्याद्विसर्जनविधिं द्विज! ॥४६॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे प्रायश्चित्तहिरण्यगर्भविधिर्नाम एकविंशोध्यायः।

N/A

References : N/A
Last Updated : January 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP