परमेश्वरसंहिता - सप्तदशोऽधयायः

परमेश्वरसंहिता


शाण्डिल्यः ---
अथोत्सवविधानं तु वक्ष्यामि श्रृणु सत्तम!।
उत्सवारंभदिवसात् पूर्वस्मिन् पञ्चमेऽहनि ॥१॥
अंकुरारोपणं कुर्यात् पूर्वोक्तविधिना ततः।
पूर्ववद्यागसदनं कल्पयित्बा विभूषयेत् ॥२॥
आचार्यान् देशिकेन्द्रस्तु चतुरो वरयेद्‌गुरुः।
अथवाष्ट द्वादश वाविनीतान् संयतान् शुचीन् ॥३॥
तत्तत्कर्मप्रयोगेषु कुशलान् शास्त्रकोविदान्।
सोष्णीषैरुत्तरीयैश्च गन्धद्रव्यैश्च संयुतान् ॥४॥
यजमानेन ते सर्वे शोभनीयाः प्रयत्नतः।
केचिद्‌गुरुनियुक्तास्तु कुम्भमण्डलपूजनम् ॥५॥
कुर्यु, रन्ये बलिं दद्युरन्ये बिम्बगतं विभुम्।
पूजयेयुर्यथायोगं स्वयं वापि समाचरेत् ॥६॥
वरयेत् साधकान् वापि कञ्चकाद्यैस्तु भूषितान्।
विनयादिगुणोपेतान् कुशलान् नयकोविदान् ॥७॥
उत्सवारम्भदिवसात् पूर्वेद्युश्च निशामुखे।
कृताह्निको देशिकेन्द्रः प्रासादं संप्रविश्य च ॥८॥
मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च।
तत्पादगौ करौ कृत्वा दैवं विज्ञापयेदिदम् ॥९॥
"भगवन्! पुण्डरीकाक्ष! करिप्ये कौतकक्रियाम्।
महोत्सवार्थं देवेश! तदर्थं त्वं प्रसीद म्" ॥१०॥
इति विज्ञाप्य देवेशमावाह्योत्सवकौतुके।
अर्घ्यगन्धादिनाभ्यर्च्य वासोभिर्विविधैः शु?भैः ॥११॥
भूषणैर्दिव्यगन्धैश्चाप्यलंकृत्य विशेषतः।
सौवर्णं यानमारोप्य शङ्खभेर्यादिसंयुतम् ॥१२॥
छत्राद्यैश्च समायुक्तं प्रादक्षिण्यक्रमेण तु।
आस्थानमण्टपं नीत्वा सौवर्णे भद्रविष्टरे ॥१३॥
तत्र मुक्तावितानाद्यैरुपरिष्टाद्विभूषिते।
सर्वसाधनसंयुक्ते समारोप्य विधानतः ॥१४॥
पूजयित्वा जगन्नाथं प्रभूतान्नं निवेद्य च।
कृत्वा संतर्पणान्तं च प्रासादं संप्रवेशयेत् ॥१५॥
ततस्तु हेमजं पात्रं राजनं वा समाहरेत्।
शालिजैस्तण्डुलैर्विप्र! भारमात्रैः सुपूजिते ॥१६॥
तदर्धैर्वापि तत्पादैः षडंशैर्वाष्टमांशकैः।
तदूर्ध्वे हेमजं सूत्रं क्षौमं कार्पासमेव च ॥१७॥
पट्टजं पञ्चभिः सूत्रैश्चतुभिः सप्तर्भिस्तु वा।
कृतं न्यस्य सतांबूल तत्पात्रं विन्यसेत्ततः ॥१८॥
गर्भाग्रमण्टपे पीठे शालिभिः परिकल्पिते।
भारमानैस्तदर्धैर्वा एवं शालिविनिर्मिते ॥१९॥
पीठे पात्रान्तरं न्यस्येदापूपिकसमन्वितम्।
अर्घ्यादिना समभ्यर्च्य सम्यगाच्छाद्य वाससा ॥२०॥
पात्रद्वयं दीक्षितयोर्न्यस्त्वा शिरसि देशिकः।
यानादिके वा संस्थाप्य विभवानुगुणं द्विज! ॥२१॥
सह ताभ्यां तु पात्राभ्यां नृत्तगीतादिसंयुतम्।
प्रदक्षिणं परिभ्रम्य सर्वेष्वावरणेष्वपि ॥२२॥
एकस्मिन् वा चतुः कृत्वा ग्रामादौ वा प्रदक्षिणम्।
नीत्वैकधा ततो विप्र! प्रविशेन्मूलमन्दिरम् ॥२३॥
यद्वा सुदर्शनोपेतं विष्वक्‌सेनं तु वा द्विज!।
खगेशं वा हनूमन्तं विभीषणसमन्वितम् ॥२४॥
यानादिके समारोप्य ब्रामयेत्तु यथारुचि।
गर्भगेहं प्रविश्याथ देवदेवस्य सन्निधौ ॥२५॥
पात्रद्वयं तु विन्यस्य आधारोपरि पूजयेत्।
द्वादशार्णेन मन्त्रेण अर्घ्यगन्धादिकैस्तथा ॥२६॥
कृत्वा पुण्याहघोषं च अर्घ्याद्यैर्देवमर्च्य च।
प्रथमं देवदेवस्य मूलमूर्तिगतस्य च ॥२७॥
बन्धयेत् कौतुकं सूत्रैर्हेमजैः पट्टजैस्तु वा।
हेमजं सूत्रमादाय गन्धेनालिप्य बन्धयेत् ॥२८॥
देवस्य दक्षिणे हस्ते यात्रामूर्तिगतस्य तु।
जितन्ताख्येन मन्त्रेण शंखगीतादिसंयुतम् ॥२९॥
स्पृष्ट्वा दक्षिणहस्तेन सूत्रमस्त्रशतं जपेत्।
श्रियो वामकरे कुर्यात् पट्टसूत्रेण कौतुकम् ॥३०॥
श्रीसूक्तमुच्चरन् वापि तन्मन्त्रेण द्विजोत्तम!।
पुष्ट्यास्तु बामहस्ते तु क्षौमसूत्रेण बन्धयेत् ॥३१॥
कुर्यात् स्नपनबिंबस्य पट्टसूत्रेण कौतुकम्।
कौतुकं देशिकेन्द्रस्तु कार्पासेन स्वदक्षिणे ॥३२॥
करे तु द्वादशार्णेन बन्धयेच्च ततः परम्।
देवमर्घ्यादिनाभ्यर्न्य अपूपान् विनिवेदयेत् ॥३३॥
सर्वदोषप्रशान्त्यर्थं दर्पणआदि च दर्शयेत्।
अनुक्तमत्र यत्किंचित् तत्सर्वं प्राग्वदाचरेत् ॥३४॥
एवं हि देवदेवस्य कृत्वा कौतुकबन्धनम्।
ततः समानयेद्देवं मण्टपे पुरतः स्थिते ॥३५॥
ततो देवं समभ्यर्च्य यावदात्मनिवेदनम्।
पूर्वोदितक्रमेणैव ततो वै स्नानविष्टरे ॥३६॥
स्नानासनोदितैर्भोगैः सर्वैरिष्ट्वा तु पूर्ववत्।
अलंकारासने नीत्वा पूजयेत् क्रमयोगतः ॥३७॥
नैवेद्यमधुपर्काद्यैर्हृद्यैश्च विविधैस्ततः।
प्राग्वदिष्ट्वा ततः स्तोत्रैः स्तुवीत पुरुषोत्तमम् ॥३८॥
ततस्तु नूपुरान्तैस्च विविधैर्हेमभूषणैः।
सद्रत्नघटितैश्चापि तथा मुक्तामयैर्द्विज! ॥३९॥
किरीटाद्यैरलंकृत्य प्रणामैः सप्रदक्षिणैः।
यथोदितं प्रतिष्ठायां तथाशयनकल्पनम् ॥४०॥
बिंबं चोपरि विन्यस्य शयने स्थापयेच्छुभे।
कोणेषु स्थापयेद्दीपान् पालिकाः सांकुरास्तथा ॥४१॥
तूर्यघोषैस्तथा वेदैः स्तोत्रैः स्तुत्वा मधुद्विषम्।
जागरेण निशां नीत्वा तस्मादुत्सवकौतुकम् ॥४२॥
प्रवेशयेद्गर्भगेहं प्रभातसमये ततः।
आचार्यः स्नानपूर्वं तु नित्यं निर्वर्त्य पूर्ववत् ॥४३॥
यागार्थमण्डपे सर्वसंभारान् संप्रवेश्य च।
अतीते याममात्रे तु पूर्वाह्ने देशिकः स्वयम् ॥४४॥
आचार्यैः साधकैश्चापि यजमानेन चान्वितः।
मुहूर्ते शोभने प्राप्ते प्रविश्य भगवद्‌गृहम् ॥४५॥
अग्रतो देवदेवस्य स्थित्वा विज्ञापयेदिदम्।
"प्रसीद देवदेवेश! उत्सवः क्रियते मया ॥४६॥
अस्मात् काललावद्यावत्पुष्पयागदिनान्तिमम्।
त्वत्प्रीतये जगन्नाथ! यद्यत् कर्म करोम्यहम् ॥४७॥
तत्सर्वमात्मसात्कृत्वा कृपया मे प्रसीद ओम्"।
इति विज्ञाप्य देवेशं मूलमूर्तिगतं विभुम् ॥४८॥
अर्घ्यगन्धादिनाभ्यर्च्य यात्रामूर्तिगतं तथा।
पूजयित्वा जगन्नाथं पादुके विनिवेद्य च ॥४९॥
श्रुतिघोषैश्च पुण्याहधोषैर्मङ्गलनिस्स्वनैः।
तथा जयजयारावैः शङ्खकाहलनिस्वनैः ॥५०॥
भेरीपटहवादित्रनृत्तगीतसमन्वितैः।
लाजानां प्रकरैः सार्धं पुष्पप्रकरमिश्रितै ॥५१॥
मूर्तिपैर्देवदेवेशं तस्मादानीय बाह्यतः।
देवं प्रागाननं कृत्वा दर्शयित्वा समागतान् ॥५२॥
पुरुषानुत्सवं द्रष्टुं यात्रोपकरणान्यपि।
छत्रचामरपूर्वाणि विविधानि विशेषतः ॥५३॥
यानमारोप्य देवेशं सौवर्णप्रभयान्विते।
अर्घ्याद्यैरर्चयित्वा तु पृथुकानि निवेद्य च ॥५४॥
वहेयुर्ब्राह्नणा यानं ध्यायन्तो विहगेश्वरम्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥५५॥
प्रदक्षिणक्रमेणैव परिभ्रमणमाचरेत्।
व्राह्नणैर्ध्रियमाणैश्च कञ्चुकोष्णीषधारिभिः ॥५६॥
मौलिकैरातपत्रैश्च मायूरैश्च सुशोभनैः।
हेमदण्डसमायुक्तैस्तालवृन्तैस्तथाविधैः ॥५७॥
पट्टजैर्विंविधैस्चापि चामरैश्च सितासितैः।
केतुदण्डैश्च विविधैर्वैजयन्तीविभूषितैः ॥५८॥
केवलै रत्नदण्डैश्च तथान्यैर्माङ्गलीयकैः।
वन्दिबृन्दैश्च विविधैर्वीणावणुस्वनैस्तथा ॥५९॥
सुवर्णश्रृंगघोषैश्च तथाऽन्यैर्मङ्गलस्वनैः।
गणिकादेवदासीभिस्तथा नागरिकैर्जनैः ॥६०॥
विप्रैर्वेत्रलताहस्तैः कञ्चुकोष्णीषभूषितैः।
अन्यैश्च भगवद्भक्तै र्ब्रह्णएः क्षत्रियादिभिः ॥६१॥
राजोचितैः परिकरैरन्यैश्च विविधैः सह।
एवं कृत्वा तु देवेशं नयेदास्थानमण्टपे ॥६२॥
समारोप्य च सौवर्णे विष्टरे जगतांपतिम्।
अर्घ्यं पाद्यं तथाचामं मन्धमाल्यैस्च धूपकम् ॥६३॥
अथार्हणजलं स्वच्छमपूपान् पृथुकानपि।
तर्पणं नारिकेलोत्थरसमाचमनं तथा ॥६४॥
मुखवाससमोपेतं ताम्बूलं च क्रमेण तु।
निवेद्य देवदेवाय उपहारांस्तु दर्शयेत् ॥६५॥
ततस्तु मण्टपात्तस्मादानयेद्यागमण्टपे।
तत्र देवेशमारोप्य सौवर्णे भद्रविष्टरे ॥६६॥
भूषणादीनि सर्वाणि तत्काले तु विसर्जयेत्।
स्नानपीठे समारोप्य नववस्त्रास्तृते विभुम् ॥६७॥
ततो यात्राधिवासार्थमारभेन्मूलपूजनम्।
कुम्भस्थानसमीपे तु उपविश्यासने शुभे ॥६८॥
करशुद्ध्यादिपूर्वं तु सर्वं कृत्वा विधानतः।
प्राग्वद्यजेद्वुभुं सास्त्रं कुम्भे च करकान्विते ॥६९॥
स्थापनं तोरणादीनामर्चनं प्राग्वदाचरेत्।
अर्चनं कुमुदादीनामाचरेत्तु समाहितः ॥७०॥
कुमुदादिद्वयोर्मध्ये गरुडं पूजयेत्ततः।
पुण्डरीकादिमध्ये च चक्रं संस्थाप्य पूजयेत् ॥७१॥
शंखं चक्रं तथा लक्ष्मीं कुम्भं श्रीवत्समेव च।
दर्पणं स्वस्तिकं मत्स्ययुग्मं वै मंगलाष्टकम् ॥७२॥
कुमुदादिसमीपे तु विन्यसेत् क्रमयोगतः।
सवस्त्रधान्यपीठे तु यथावित्तानुरूपतः ॥७३॥
एकभारैर्द्विभारैर्वा शालिभिः परिकल्पिते।
प्रत्येकं तण्डुलैश्चापि तिलैर्युक्ते सवस्त्रके ॥७४॥
अष्टमंगलवियासेप्येवं सर्वत्र कल्पयेत्।
प्राग्वत् स्थले समावाह्य मन्त्रेशं पूजयेत्ततः ॥७५॥
स्नपनाना पुरोक्तानां पूर्वस्मिन्नवके द्विज!।
अधमोत्तमसंत्रं तु स्वनापरिकल्पयेत् ॥७६॥
मण्डलस्येन्द्रदिग्भागे तत्पश्चाद्बिंबसन्निधिम्।
गत्वा समारभेत् पूजां यथोक्तविधिना द्विज! ॥७७॥
सर्वं कृत्वा क्रमेणैव यावदात्मनिवेदनम्।
कृत्वा पुण्याहघोषं च कुर्यात् कौतुकबन्धनम् ॥७८॥
स्नानासनादिभिर्भोगैरिष्ट्वा चामलकान्तिमम्।
स्नपनं विधिवत् कृत्वा शिरः प्लोतादिकं तथा ॥७९॥
दत्वा समानयेद्देवं प्राग्भागे मण्डलस्य तु।
सौवर्णे विष्टरे तत्र यजेत् सर्वेश्वरं विभुम् ॥८०॥
अलंकारासनाद्यैश्च भोगैः परमपावनैः।
प्रभूतमथ नैवेद्यं विनिवेद्य यथाक्रमम् ॥८१॥
सर्वं द्विजप्रदानान्तं कृत्वा वै कुण्डसन्निधिम्।
गत्वा संस्कारपूर्वं तु सर्वमापाद्य तत्र तु ॥८२॥
पूर्णाहुत्यवसानं तु गत्वा वै बिंबसन्निधिम्।
होमार्पणं समापाद्य संपूज्याज्यादिना ततः ॥८३॥
पितॄणां संविभागं तु कृत्वा दत्वा बलिं क्रमात्।
विष्वक्सेनं नयेत् सांगं ततस्तस्माज्जगत्पतिम् ॥८४॥
आस्थानमण्टपे नीत्वा समारोप्य च विष्टरे।
प्राप्तेऽपराह्नसमये कृत्वा संग्रहणं द्विज! ॥८५॥
पूर्ववत्तु मृदादीनां कृत्वा ग्रामप्रदक्षिणम्।
पूर्वोदितविधानेन कुर्यादंकुररोपणम् ॥८६॥
तत्काले देवदेवस्य विभवस्यानुगुण्यतः।
विधिवत् पूजनं कृत्वा प्रभूतान्नं निवेदयेत् ॥८७॥
स्थले भस्मनिभे पूर्वे पूजयेन्निष्फलं भवेत्।
योजयित्वा तु कुम्भस्थे वर्तयेन्मण्डलं ततः ॥८८॥
सिताद्यैः पावनै रागैस्ततः कुम्भे समर्पयेत्।
यथावद्देवदेवेशं पूजयेन्मण्डलं ततः ॥८९॥
यथोक्तेन विधानेन गत्वा वै बिंबसन्निधिम्।
तत्र संपूजयेद्देवं महता विभवेन तु ॥९०॥
अग्नौ सन्तर्पणं कुर्यात् यथोक्तविधिना ततः।
गत्वा विंवसमीपे तु कृत्वा होमनिवेदनम् ॥९१॥
सर्वं तु संविभागान्तं क्रमात् कृत्वा ततः परम्।
विभवे सति वै कुर्याद्‌भूयः संपूजनं विभोः ॥९२॥
होमान्तमखिलं कृत्वा ततस्त्वास्थानमण्टपात्।
नयेत्तु देवदेवेशं प्रासादमुखमण्डपे ॥९३॥
प्रागाननं समारोप्य सौवर्णे भद्रविष्टरे।
यात्रार्थं देवदेवस्य कुर्यात् कौतुकबन्धनम् ॥९४॥
आदाय चरुपूर्वाणि बलिद्रव्याणि होमयेत्।
प्रत्येकं मूलमन्त्रेण द्वाविंशत्परिसंख्यया ॥९५॥
ध्यात्वा ध्यात्वा तु होतव्यं तत्तद्रात्र्यधिदैवतम्।
भवेत् प्रथमरात्रं तु वासुदेवाधिदैवतम् ॥९६॥
संकर्षदैवतं विद्धि द्वितीयं तु, तृतीयकम्।
प्रद्युम्नदैवतं, चान्यदनिरुद्धाधिदैवतम् ॥९७॥
भवेत् पञ्चमरात्रं यत् तन्नारायणदैवतम्।
हयग्रीवाधिदैवं तु षष्ठरात्रमुदाहृतम् ॥९८॥
सप्तमं वैप्णवं त्वन्यन्नरसिंहाधिदैवतम्।
वराहदैवतं रात्रं नवमं द्विजसत्तम! ॥९९॥
एकाहमुत्सवं विद्धि वासुदेवाधिदैवतम्।
त्र्यहं तु वासुदेवादिप्रद्युम्नान्ताधिदैवतम् ॥१००॥
पञ्चाहं वासुदेवादिपञ्चमूर्त्यधिदैवतम्।
सप्ताहं वासुदेवादिसप्तमूर्त्यधिदैवतम् ॥१०१॥
द्वादशाहोत्सवं विप्र! केशवाद्यधिदैवतम्।
सर्वं पञ्चदशहादि वासुदेवाधिदैवतम् ॥१०२॥
दद्यात् प्रथमरात्रे तु बलिं बलिविधानवत्।
पललै रजनीचूर्णैः सलाजदधिसक्तुभिः ॥१०३॥
दिनेष्वपि च सर्वेषु द्रव्यैरेभिर्बलिं ददेत्।
यद्वा द्वितीयरात्रे तु दद्याच्च तिलतण्डुलैः ॥१०४॥
दद्यात् तृतीयरात्रौ तु धानास्त्वंबिकलाजकैः।
दद्याच्चतुर्थरात्रे तु बलिं देशिकसत्तमः ॥१०५॥
नालिकेरपयःसक्तुशालिपिष्टैर्विमिश्रितैः।
पञ्चमे तु बलिं दद्यात् पझबीजैः सहाक्षतैः ॥१०६॥
षष्ठरात्रे बलिं दद्यादपूपैश्चरुणा सह।
अथवा सर्वरात्रेषु प्रदद्याच्चरुणा सह ॥१०७॥
तत्तद्दिनोदितैर्द्रव्यैर्बलिं तु द्विजसत्तम!।
सप्तमे तु गुलान्नेन, पायसान्नेन चाष्टमे ॥१०८॥
नवमे कृसरान्नेन बलिं दद्याद्विचक्षणः।
द्वादशाहोत्सवे विप्र! माषान्नं दशमेऽहनि ॥१०९॥
शुद्धान्नमथवा विप्र! मुद्गान्नं तु परेऽहनि।
द्वादशे सर्वबलयः शुद्धान्नं शालिजं तु वा ॥११०॥
क्षीरं दध्याज्यसंयुक्तं गुलखण्डसमन्वितम्।
इतः परं तु सर्वत्र शुद्धान्नं पायसं तु वा ॥१११॥
एकाहादिचतुष्के तु भवेत्तत्तद्दिनोदितम्।
प्रत्येकमाढकं ग्राह्यं बलिद्रव्यं द्विजोत्तम! ॥११२॥
तदर्धं वाऽथ पादं वा यथावित्तानुरूपतः।
एवं द्रव्याणि हुत्वा तु अलंकृत्य विशेषतः ॥११३॥
यात्राबिंबगतं देवं विचित्रैर्वसनैस्तथा।
विचित्रैर्भूषणैश्चापि माल्यैर्नानाविधैस्तथा ॥११४॥
मुहूर्ते शोभने प्राप्ते सर्वमंगलसंयुतम्।
त्यन्दनं वा गजं वापि यानं सौपर्णमेव वा ॥११५॥
सपुष्पहेमप्रभया युक्तं पुष्पाद्यलंकृतम्।
सौवर्णेन विमानेन युक्तं मायूरकेन वा ॥११६॥
समानीय तु संप्रोक्ष्य ध्यात्वा गरुडरूपिणम्।
तन्मन्त्रेण समब्यर्च्य यानमर्घ्यादिभिस्ततः ॥११७॥
कृत्वा पुण्याहघोषं च श्रुतिघोषसमन्वितम्।
शङ्खतूर्यादिसंयुक्तं प्रादक्षिण्यक्रमेण तु ॥११८॥
याने तत्र समारोप्य यात्रामूर्तिगतं विभुम्।
यात्रार्थं तत्र देवाय सार्घ्यं पाद्यं तथैव च ॥११९॥
आचामं गन्धमाल्ये च दीपं धूपं तथैव च।
अर्हणं मधुपर्कं च नैवेद्यं विविधं तथा ॥१२०॥
पृथुकाद्यं पानकं च तर्पणाचमने तथा।
ताम्बूलं विनिवेद्याथ जपं कृत्वा विधानतः ॥१२१॥
अग्नौ संतर्पणं कुर्मात् तत्काले वापि होमयेत्।
बलिद्रव्याणि सर्वाणि यथाकालानुरूपतः ॥१२२॥
रथयाने विशेष तु समाकर्णय सांप्रतम्।
मुक्ताप्रपावितानैश्च सौवर्णैर्माञ्जरीगणैः ॥१२३॥
मुक्तादामसमेतैश्च विचित्रैः पुष्पदामभिः।
हैमेन च वितानेन प्रभया च विशेषतः ॥१२४॥
मध्यतो भद्रपीठेन सौवर्णेन तथैव च।
ध्वजैश्च विविधै रम्यै पताकाभिश्च सर्वतः ॥१२५॥
भूषयेद्रथयानं तु तथा गरुडकेतुना।
तत्र देवं समारोप्य पूजयेत् पूर्ववर्त्मना ॥१२६॥
आचार्याः साधकाश्चापि रथस्योर्ध्वतलस्थिताः।
तस्याधस्तात् स्थले स्थाप्याः पश्चिमे छत्रधारकाः ॥१२७॥
तत्र तत्पार्श्वतः स्थाप्यौ मायूरच्छत्रधारिणौ।
दक्षिणोत्तरपार्श्वस्थावग्रे चामरधारिणौ ॥१२८॥
सारथिस्तत्स्थले स्थाप्यस्त्वग्रतो मध्यदेशतः।
ततस्तु गरुडाद्यैश्च चक्रेण गरुडेन वा ॥१२९॥
अष्टाभिर्मंगलैश्चापि दीक्षितैर्ब्राह्नणैर्धृतैः।
अर्घ्यगन्धादिभिश्चैव सार्धं घण्टारवैस्तथा ॥१३०॥
शङ्खभेर्यादिभिश्चैव छत्रेण दीपधारकैः।
आचार्यः साधको वापि बलिं दद्याद्विधानतः ॥१३१॥
प्रासादद्वारमारभ्य ग्राममध्यान्तमेव च।
प्रथमावृतिमारभ्य सर्वेष्वावरणेष्वपि ॥१३२॥
देवयानं परिब्रम्य प्रादक्षिण्यक्रमेण तु।
रथ्यावरणपर्यन्तं तत्पश्चाद्भ्रामयेद्‌द्विज! ॥१३३॥
ग्रामे वा नगरे वापि पत्तेन वा महामते!।
बृहति स्यन्दने याने यानेनान्येन वान्तरा ॥१३४॥
भ्रामयित्वा तु तत्पश्चाद्‌बृहति स्यन्दनादिके।
देवेशं तु समारोप्य भ्रामयेद्‌ग्रामवीधिषु ॥१३५॥
देवस्य पुरतो दूराद्गच्छेयुर्बलिदायिनः।
ध्वजदण्डधराः पश्चाच्छंखकाहलधारकाः ॥१३६॥
भेरीपटहपपूर्वाणां वाद्यानां घोषणोन्मुखाः।
तत्पृष्टे गीतकाश्चापि वन्दिबृन्दास्तथैव च ॥१३७॥
सुवेषा भगवद्भक्तास्तथैव गणिकाजनाः।
दासीगणाश्च तत्पृष्टे शोणदण्डवहा जनाः ॥१३८॥
लीलांगानि विचित्राणि धारयन्तस्तथैव च।
वहन्तः पादुकादीनि ततो देवस्य पार्श्वतः ॥१३९॥
अग्रतः पृष्ठतश्चापि जनाश्चामरधारिणः।
आतपत्रांश्च विविधान् तालवृन्तांस्तथैव च ॥१४०॥
धारयन्तो द्विजाश्वापि ततो देवस्य दक्षिणे।
"कर्मारंभादि" पठतो विप्रानेकायनान् न्यसेत् ॥१४१॥
ऋक्सामपूर्वान् वामेपि पृष्ठतो वा निवेशयेत्।
सुमृष्टधूपपात्रांश्च वहन्तः पृष्ठतस्तथा ॥१४२॥
पुरतो "ऽस्त्रं" स्मरन् यायात् स्वयं विघ्नांस्तु सूदयन्।
अनेकशतसंख्यांश्च दीपानतिसमुज्ज्वलान् ॥१४३॥
धारयन्तो जना विप्र! देवस्योभयपार्श्वयोः।
गच्छेयुः पङ्‌क्तिरूपेण यावन्तो बलिवाहकाः ॥१४४॥
सर्वाणि राजचिह्नानि वहन्तो देवसन्निधौ।
गच्छेयुरन्ये भक्ताश्च ब्राह्नणाः क्षत्रियास्तथा ॥१४५॥
वैश्याः शूद्राश्च चत्वारो ह्याश्रमस्थास्तथैव च।
सर्वशास्त्रेषु कुशला भगवद्भाविनस्तथा ॥१४६॥
सेवेरन् सर्वतोदिक्कं वीक्षमाणाः परं विभुम्।
ग्रामस्यैन्द्रादियोगेन दिशासु विदिशासु च ॥१४७॥
मद्ये च कुमुदादीनां सगणानां क्रमेण तु।
पीठिकासु बलिं दद्यान्निर्मितासु पुरैव तु ॥१४८॥
कुमुदादेर्गणानां तु नामानि क्रमशः श्रृणु।
उत्कटः प्रकटश्चैव उन्मुखो विमुखस्तथा ॥१४९॥
अश्वग्रीवोऽश्ववदनः अश्वजिह्नस्तथैव च।
हस्तिवक्त्रश्च कुमुदः हस्तिपादश्च केशवः ॥१५०॥
वामनो नरकश्चापि नरो मर्दन एव च।
मन्ददृष्टिश्च कन्तुश्च तथा कन्तुकलोचनः ॥१५१॥
पटहाक्षो विशालाक्षः क्षामकः क्षमकस्तथा।
पाण्डरः पाण्डुपृष्ठश्च दुर्दिनः सुदिनस्तथा ॥१५२॥
वामदेवो महादेवो महाग्निर्मधुसूदनः।
कनकः कालकश्चैव भावनो भवनस्तथा ॥१५३॥
भानुमान् बानुवेगश्च भास्करश्चाप्यभास्करः।
विश्वसेनो विसेनश्च विष्वक्‌सेनो विसारणः ॥१५४॥
विस्तारो निस्तरश्चैव विदण्डी दण्ड एव च।
कामदः कामुकश्चापि कामभृत् कामनाशनः ॥१५५॥
पञ्चाशच्च गणा ह्येत् प्राचीं दिशमुपाश्रिताः।
एते पारिषदाः प्रोक्ताः कुमुदस्य वशानुगाः ॥१५६॥
शतं शतं गृहगणाः एकैकस्यानुयायिनः।
एषां कुमुदपूर्वाणां क्रमेण च बलिं हरेत् ॥१५७॥
पार्श्वस्थमण्डलेष्वेवं गृहेभ्यस्तु बलिं हरेत्।
देवा एते गृहाश्चापि ऐन्द्रे तु बलिभागिनः ॥१५८॥
आग्नेयो निधनस्चैव अग्निजिह्वो हुताशनः।
अग्निरूपोऽग्निवर्णश्चाप्यग्निवर्णोऽहिरेव च ॥१५९॥
अग्निवक्त्रो महावक्त्रे महासेनो महोदरः।
करालः काकजिह्वश्च काकवक्त्रोऽग्निवक्त्रकः ॥१६०॥
मण्डुर्मण्डूकवक्त्रश्च देवो देवलकस्तथा।
शर्वकः शमकश्चापि शंकुः शंकुश्रवास्तथा ॥१६१॥
मारीचो द्रोणमारीचो महिषो माहिषस्तथा।
कुम्भनासो विनासश्च कुम्भकर्णो विकर्णकः ॥१६२॥
विदारी विक्रमश्चैव मस्करी मस्करस्तथा।
सूकरः सूकरास्यश्च शशः शशमुखसस्तथा ॥१६३॥
सिंहः सिंहमुखश्चैव नरसिंहो नरस्तथा।
कालधृक्कालसूत्रश्च सूत्रकः सूत्र एव च ॥१६४॥
विनाली नालकण्ठश्च आग्नेयीं दिशमाश्रिताः।
कुमुदाक्षगणा ह्येते संयुक्ता आसुरैर्गणैः ॥१६५॥
आग्नेय्यां पीठिकायां तु कुमुदाक्षबलिं हरेत्।
धर्मो धर्मधरो धर्मो धर्मराजो धनुर्धरः ॥१६६॥
विनयः प्रश्रयश्चैव निश्रेयो निर्गुणस्तथा।
अलसः कुणपश्चैव क्रूरबाहुश्च कुंजरः ॥१६७॥
प्रांशुर्दमननिष्कोपौ निरनुक्रोशनिर्ममौ।
विभवोऽविभवश्चैव हुताशो बहुरेव च ॥१६८॥
ऊर्ध्वरक्षणसंज्ञश्च एकलः पाकलस्तथा।
कंकटः कटकश्चेव अवटः शंखचक्रिणौ ॥१६९॥
गदी खड्‌गी च शार्ङ्गी च तथा शार्ङ्गधरो मुने!।
वासुदेवोऽपि भद्रश्च केतुमान् केतुकस्तथा ॥१७०॥
क्षमी च ज्वलनश्चापि किन्नरोऽश्वत्थ एव च।
सुप्तः सुजपनश्चापि जपः पश्चिम एव च ॥१७१॥
कैक्षिकश्च तथा स्वजो बाडवश्चाक्षमी तथा।
गणाः पञ्छाशादेते तु दक्षिणां दिशमाश्रिताः ॥१७२॥
पुण्डरीक वशाह्येते पितृगृहसमन्विताः।
सर्वत्रैवं समृद्दिष्टाः पच्चाशच्छक्तिका गृहाः ॥१७३॥
प्रदद्यात् पुण्डरीकायएयैभिर्युक्ताय वै बलिम्।
निष्कृतिः प्रकृतिश्चैव सुकृतिर्विकृतिस्तथा ॥१७४॥
दारुणो दमकश्चैव रक्षको लक्षकस्तथा।
माधवो मांसकश्चैव निष्ठुरः खरभाषणः ॥१७५॥
प्रलंबो लम्बकश्चैव प्राणनः प्रणयस्तथा।
वीरसेनोंगदश्चैव विभाषश्च विभीषणः ॥१७६॥
रक्ताक्षो लोहिताक्षश्च रक्तजिह्वो विजिह्वकः।
विद्युत्केशो विशालाक्षो विक्षरो वीरहा तथा ॥१७७॥
अक्षरः प्राक्षरश्चैव कामरूपविरूपिणौ।
सर्वगः सर्वविद्गौरः संभवः प्रभवस्तथा ॥१७८॥
वारुणो वसुरेवापि विमर्दो दमनस्तथा।
वैकर्तनो विकर्ता च कपर्दी च प्रबुस्तथा ॥१७९॥
कन्दकी कन्दकश्रापि नाकी च वरुणोऽरुणः।
गणा एते च पञ्चाशन्नैर्ऋतिं दिशमाश्रिताः ॥१८०॥
यातुगृहैस्तु संयुक्ता वामनस्यानुगा इमे।
एभिर्युक्ताय विधिना वामनाय बलिं ददेत् ॥१८१॥
वरुणो वारुणश्चैव पाशी पाशधरो गुरुः
क्षेपणः क्षोभणश्चैव नारदः सर्वदो रविः ॥१८२॥
सुमना नामनो हंसो वैकुण्ठः परमः परः।
हनुमान् वसुमान् भद्रो भद्रवः प्रभवस्तथा ॥१८३॥
महाकर्णो विकर्णश्च शशकः शलकः पिकः।
वानरो नरकश्चैव कार्ष्णिः कर्णधरोंऽशुमान् ॥१८४॥
चक्रोऽग्रश्च तथा वज्री वज्रनाभो विनाभकः।
करभः कुरभश्चैव दाक्षिणो दक्षिणः सुहृत् ॥१८५॥
दुर्गन्धः पूतिगन्धश्च तार्क्ष्यो गरुड एव च।
विरोधो रोधको रोधः कंकणस्च वृकोदरः ॥१८६॥
एते गणाश्च पञ्चाशत् पश्चिमां दिशमाश्रिताः।
शंकुकर्णवशा ह्येते पाशग्रहगणान्विताः ॥१८७॥
सहैभिः शंकुकर्णाय पीठिकायां बलिं ददेत्।
मरुर्मारुतगो रुर्वी आखुर्वायुसुतोऽनिलः ॥१८८॥
गलर्तो वर्तकः कंको मार्गणः प्रांकणोऽचलः।
बलो बलनिधिर्वीरो विरोधो रोधको विधिः ॥१८९॥
सिद्धवः सुयवश्चैव शंकरो धीरकस्तथा।
माली मालाविधिर्वस्तुः समर्थः सुमहोत्सवः ॥१९०॥
कर्कटः कटकश्चैव गन्धो गन्धवहः परः।
सिक्तकः सिक्तरोगी च सेवकः सेवनः सवः ॥१९१॥
औषधो भेषजो वापि रोगी रोगभवस्तथा।
कारणः करणः कर्ता गरवीरोऽखलस्तथा ॥१९२॥
वलश्च वाकुवाहश्च सुचारश्च तथैव च।
गणाः पश्चाशदेते तु वायव्यां दिशमाश्रिताः ॥१९३॥
सर्वनेत्रानुगान् नित्यं गन्धर्वगृहसंयुताः।
प्रदद्यात् सर्वनेत्राय एभिर्युक्ताय वै बलिम् ॥१९४॥
सोमः सोमकलः सोम्यः सामवित् सामनायकः।
सुधा सुधाता धाता च सुराष्ट्रः काष्ठकः कलिः ॥१९५॥
कालधृक्कालचक्रश्च कालकूटविषो बल।
अमृतोऽमृतनाथश्च केयूरी केबली बली ॥१९६॥
विष्णुः कृष्णपिशंगांगी रेखालेखः पिक शुकः।
लूबकश्च शुकश्चैव श्येनः श्येनमुखस्तथा ॥१९७॥
मार्जारो मरुभृद्वालो गुल्मः कणवकः कणः।
शेषो विशेष उच्छेषः कर्दमः पूतिविग्रहः ॥१९८॥
साम्बः संवत्सरश्चैव वेगी वेगधरो मरुत्।
गणाः पञ्चाशदेते तु सोमस्य दिशमाश्रिताः ॥१९९॥
सुमुखस्य वशा ह्येते यक्षग्रहसमन्विताः।
सुमुखाय बलिं दद्यादेभिः सह यथाविधि ॥२००॥
ईशान ईश्वरो व्यापी व्यसनो विनशो बुधः।
धरो बको विशो वादः शकुनिः शकटो घटः ॥२०१॥
वृक्षः कक्षः क्षमी क्षान्तिर्मातृरोमा कपिंजलः।
ब्रह्नण्यो ब्रह्नविद्ब्रह्नी व्रह्नात्मा व्रह्नसाधनः ॥२०२॥
वेदी वेदविदुद्वन्धः शंकरः शांकरस्तथा।
धीमान् विसृष्टिरिष्टात्मा दुष्टात्मा दुष्टकर्मकृत् ॥२०३॥
विजेता विकचो वादी नोदी त्रिपक एकभुक्।
सर्वभुक सर्वगः सर्वः सर्वभंगः सनातनः ॥२०४॥
गोविन्दो गोपतिश्चेव गोप्ता चेव महेश्वरः।
पञ्चाशच्च गणा ह्येते ऐशानीं दिशमाश्रिताः ॥२०५॥
सुप्रतिष्ठवशा ह्येते पिशाचगृहसंयुताः।
सुप्रतिष्ठितसंज्ञाय एभिः सार्धं वलिं ददेत् ॥२०६॥
सिद्धो धाता विधाता च धाता चैव प्रजापतिः।
लोकेशो लोककृत् कर्ता स्रष्टा ब्रह्ना तथात्मभूः ॥२०७॥
सुतापश्च तुलश्चैव तथा वै रीतिवर्धनः।
अव्यक्तो गुणवान् गौणो गुणभुक्च तथैवहि ॥२०८॥
उद्गीतः प्रणवश्चापि हिरण्यगर्भसंज्ञितः।
विरिञ्चः पुष्करश्चैव भासनो भास एव च ॥२०९॥
विकर्णो विजयश्चैव तथा चैव रथंतरः।
छन्दो यजुस्तथा ऋक् च अथर्वा च ततः परम् ॥२१०॥
मरीचिरंगिराश्चैव पुलहः क्रतुरेव च।
वसिष्ठश्च प्रचेताश्च शलभो भीष्म एव च ॥२११॥
हेमन्तः शिशिरश्चापि कुसुमाकरसंज्ञितः।
कलहश्च विरागिश्च अमर्षो रोषणस्तथा ॥२१२॥
शोषणश्च गतिश्चैव हर्षणो वर्धनस्तथा।
गणाः पञ्चाशदेते तु व्योमसिद्धगृहान्विताः ॥२१३॥
प्रदद्यात् पृश्निगर्भाय सार्धमेभिर्बलिं द्विज!।
मनुष्यो मानवश्चैव मण्डको मानवस्तथा ॥२१४॥
मकरश्च तथा चोरः कंपश्चैव प्रकंपनः।
अलंपटश्च पटद योजको भजको ग्रहीः ॥२१५॥
रेचको रोचको मायो धारो वारो रसश्चलः।
चापालिकः कपिर्बाणो ग्रजनो गर्जनो गुडः ॥२१६॥
तित्तरश्चटको ध्वाङ्‌क्षो बलीवर्दो महानटः।
हर्षो धर्मप्रशास्ता च शमको दुन्दुभिः शठः ॥२१७॥
कुक्षिः कुमारः कायस्थो लावकोऽप्रशुनः शुनः।
लवणो रवणो ऋद्धो राजसस्तामसोऽचलः ॥२१८॥
कल्याणो भगदत्तश्च पृथिवीतलसंस्थिताः।
गणाः पञ्चाशदेते तु भूमिग्रहसमन्विताः ॥२१९॥
महाबला दुराधर्षा मानवस्य वशानुगाः।
मानवाय बलिं दद्यादेभिर्युक्ताय साधकः ॥२२०॥
एते पञ्चाशतः प्रोक्ता गणानामधिपा द्विज!।
ऐकैकस्य भवेदेषां गणाश्चान्ये शतं शतम् ॥२२१॥
एवं पञ्चाशत्‌सहस्रं एतेषां परिचारकाः।
चत्वरे च चतुष्के च सभायां ग्राममध्यके ॥२२२॥
ग्रामद्वारेषु सर्वेषु तिष्ठन्ति विविधायुधाः।
जनानयोग्यान् बाधन्ते तथा पाषण्डिनोपि च ॥२२३॥
नद्यादिषु च देशेषु संचरन्ति यथारुचि।
दशानां कुमुदादीनां गणेशानां द्विजोत्तम! ॥२२४॥
गणानामुत्कटादीनामुदितानां क्रमेण तु।
प्रणवाद्यैर्नमोन्तैस्तु स्वैस्वैर्नामभिरेव च ॥२२५॥
अर्ध्यं गन्धं तथा माल्यं धूपं गन्धाम्बुपूर्वकम्।
बलिं भूयो जलं चापि ताम्बूलं क्रमशो ददेत् ॥२२६॥
गीतनृत्तादिकं सर्वं पूर्ववत् परिकल्पयेत्।
पञ्चाशतां सहस्राणां गणशो गणशो द्विज! ॥२२७॥
नमः पारिषदेभ्यश्च इत्युक्त्वा वलिविस्तरम्।
भूमौ प्रतिदिशं कुर्यात् सर्वशान्तिकरं शुभम् ॥२२८॥
पञ्चाशतां सहस्राणा एकैकस्य पृथक् पृथक्।
शतं शतं परिवारा एते ग्रहगणाः स्मृताः ॥२२९॥
एषां ग्रहगणानां तु परिवाराः सहस्रशः।
असंख्येयाश्चरन्तस्तु सर्वतः पृथिवीमिमाम् ॥२३०॥
संचरान्ति ग्रहगणा उक्ता दशविधा महीम्।
देवा दैत्याश्च पितरः राक्षसा नागनायकाः ॥२३१॥
गन्धर्वयक्षाः पैशाचाः सिद्धाश्चापि धरागणाः।
एते दशविधा ब्रह्नन्! दशदिक्षु स्थिताः सदा ॥२३२॥
उक्ताः पञ्चदशानां तु एतेषां नायका गणाः।
तेषां तु पूजया सर्वे सुखं यान्ति न संशयः ॥२३३॥
पीठोर्ध्वे कुमुदादीनां बलिं दद्याद्विचक्षणः।
भूतले गोमयाद्येन लेपिते वा यथारुचि ॥२३४॥
गणानामुत्कटादीनां बलिं तत्परितो ददेत्।
अन्येषामापि सर्वेषां तद्बहिर्विकिरेद्बलिम् ॥२३५॥
अमुक्तानां च सर्वेषां ग्राममद्ये बलिं क्षिपेत्।
कुमुदादिगणेशानाम् अनुकल्पे विधानतः ॥२३६॥
बलिं दत्वाऽवशिष्टानां सर्वेषामपि वै पृथक्।
नमः पारिषदेभ्यश्चेत्युक्त्वा तस्माद्बलिं द्विज! ॥२३७॥
अवशिष्टं बलिद्रव्यं ग्राममध्ये विनिक्षिपेत्।
संतर्पणार्थं भूतानां सर्वदेशनिवासिनाम् ॥२३८॥
रात्र्यामावाहनं ब्रह्नन्! ध्वजारोहणवासरे।
न कृतं कुमुदादीनां सगणानां ततोद्य तु ॥२३९॥
तेषामावाहनं कुर्याद् बलिं दद्याद्विधानतः।
ध्वजारोहदिने पूर्वं तेषामावाहने कृते ॥२४०॥
तद्वासरात् समारब्य यावदुत्सववासरम्।
पायसेन बलिं दद्याच्छुद्धान्नेनाथवा द्विज! ॥२४१॥
दिवा वापि रजन्यां वा कालयोरुभयोस्तु वा।
भवेत् कर्तुर्महान् दोष आहूतानामनर्चनात् ॥२४२॥
केनापि हेतुना यत्र वलिदानं न शक्यते।
यात्रारंभदिने तत्र तेषामावाहनं चरेत् ॥२४३॥
एवन्तु बलिसंयुक्तं देवेशं भ्रामयेद्‌द्विज!।
प्रादक्षिण्येन वै ग्राणे नगरे वापि पत्तने ॥२४४॥
यात्रायां वर्तमानायां देवदेवाय भक्तितः।
मुखवासं सताम्बूलं बहुशोऽथ निवेदयेत् ॥२४५॥
चन्दनं श्रमशान्त्यर्थं कर्पूराद्यैः सुभावितम्।
प्रदद्याद्देवदेवाय माल्यानि विविधान्यपि ॥२४६॥
शीतलं तर्पणजलं नारिकेलजलान्वितम्।
श्रमशान्तिनिमित्तानि अन्यान्यपि निवेदयेत् ॥२४७॥
दिगष्टके तु ग्रामादेस्तन्मद्ये च विशेषतः।
गीतकैर्विविधैनर्त्तैस्तन्त्रीवाद्यसमन्वितैः ॥२४८॥
शंखभेरीमृदंगाद्यैर्देवेशं परितोषयेत्।
एवं देवं परिब्राम्य ग्रामादौ बलिसंयुतम् ॥२४९॥
पुनः प्रदक्षिणं कृत्वा प्रासादावरणेषु च।
प्रासादद्वारदेशे तु देवदेवस्य भक्तितः ॥२५०॥
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम्।
निवेद्य देवदेवेशं स्वस्थाने सन्निवेशयेत् ॥२५१॥
ततो यागगृहं गत्वा देशिकः सुसमाहितः।
तिलैराज्यैश्च पूर्णआन्तं यात्राहोमं समापयेत् ॥२५२॥
एवं बलिसमायुक्तमन्येषु दिवसेष्वपि।
अह्नि रात्रौ तु देवस्य परिब्रमणमारभेत् ॥२५३॥
तीर्थयात्रादिने कुर्यात् परिभ्रमणमह्नि वै।
कुर्यात् स्नपनबिंबे च स्नपनं तु दिवानिशम् ॥२५४॥
आरम्भदिनमारभ्य यावदन्तिमवासरम्।
तत्रापि चांकुरारोपं सप्तमे पञ्चमे तु वा ॥२५५॥
वासरे पूर्ववच्चापि कुर्यात् कौतुकबन्धनम्।
द्वितीये वासरे प्राप्ते देवमास्थानमण्टपे ॥२५६॥
यागागारेऽथवानीय समारोप्य च विष्टरे।
ततो यागगृहं गत्वा देशिको विधिना यजेत् ॥२५७॥
कलशे मण्डले चैव ततो गत्वा तु मण्डपम्।
पूजयेद्देवदेवेशं महता विभवेन तु ॥२५८॥
ततो यागगृहे सम्यग्‌वह्वौ सन्तर्प्य पूर्वबत्।
ततस्तस्मात् समानीय महदास्थानमण्टपम् ॥२५९॥
तत्र सम्यक् समब्यर्च्य देवं नीराजनान्तिमम्।
महाहविर्निवेद्याथापूपादिसमन्वितम् ॥२६०॥
तस्माद्देवं समानीय मण्टपे यागनिर्मिते।
तत्र देवं समब्यर्च्य अर्घ्यपाद्यादिभिस्ततः ॥२६१॥
अग्नौ सन्तर्य्य विधिवत् पूर्णाहुत्यावसानिकम्।
अलंकृतं तु देवेशं पूर्ववद्वसनादिकैः ॥२६२॥
यानादिके समारोप्य पूर्वोक्तक्रमयोगतः।
भ्रमयित्वा तु बेवेशं ग्रामे त्वन्तः प्रवेशयेत् ॥२६३॥
मण्टपे देवदेवेशमानीय स्नानविष्टरे।
समारोप्यार्घ्यपाद्यैश्च दद्यादाचमनं विभोः ॥२६४॥
गन्धं पुष्पं च धूपं च दीपं नीराजनान्तिमम्।
वेदघोषैश्च गीताद्यैरर्हणोदपुरस्सरम् ॥२६५॥
कदलीफलसंयुक्तमपूपं गुलसंयुतम्।
पानकं तर्पणजलं नालिकेररसान्वितम् ॥२६६॥
ताम्बूलं शशिसंयुक्तम् ततो यात्रार्थकल्पितम्।
वसनाद्यं परित्यज्य स्नानशाटीं निवेद्य च ॥२६७॥
तैलेनाभ्यंजनं कृत्वा समुद्वर्त्य यथाविधि।
शिरस्यामलकं दत्वा संस्नाप्य बहुभिर्जलैः ॥२६८॥
वर्णकेन समालिप्य क्षालयित्वा तु वारिणा।
समालिप्य सुगन्धेन भक्तितश्चान्दनादिना ॥२६९॥
सहस्रधारया विप्र! स्नानं कृत्वा ततः परम्।
दत्वा सवन्दनं पश्चात् शिरः प्लोतादिशाटकम् ॥२७०॥
दत्वा देवं समारोप्य तदन्यस्मिंस्तु विष्टरे।
करशुद्व्यादि सर्वं तु कृत्वान्तर्यागपश्चिमम् ॥२७१॥
ततो यथाक्रमेणैव देवं संपूजयेद् द्विज!।
यद्वा दिनोत्सवे वृत्ते देवमानीय मण्टपे ॥२७२॥
वितते भद्रपीठे तु समारोप्याथ पूर्ववत्।
अर्घ्यादि सकलं विप्र! ताम्बूलान्तं निवेद्य च ॥२७३॥
वस्त्राद्यं पूर्वक्लृप्तं यत् क्रमात् सर्वं विसृज्य च।
विनिवेद्य च वस्त्रं तु श्रमनिर्हरणार्थतः ॥२७४॥
समालब्य तु देवेशं सुगन्धैश्चन्दनादिकैः।
ततस्तु विधिना पूज्य यावदात्मनिवेदनम् ॥२७५॥
स्नानार्थं देवदेवस्य विज्ञाप्य विनिवेद्य च।
पादुके देवदेवेशं छत्राद्यैश्च समन्वितम् ॥२७६॥
तस्मादानीय पीठे तु स्नानार्थं परिकल्पिते।
समारोप्य तदाद्यैस्तु भोगैः सर्वैस्तु पूर्ववत् ॥२७७॥
इष्ट्वा ताम्बूलदानान्तं स्कन्धशाटीं निवेदयेत्।
ततस्तैलं समादाय कर्पूराद्यैः सुभावितम् ॥२७८॥
देवस्य केशानालोड्च हस्ताब्यां कंकतेन तु।
अधिवास्य सुगन्यैस्तु धूपैरभ्यंजयेत् ततः ॥२७९॥
शिरो निष्पीड्य देवस्य वहुधा च ततः परम्।
केशानाबघ्य मालाभिः सूक्ष्मेण प्लोतकेन तु ॥२८०॥
ललाटोपरि बध्वा तु तथा मुखसरोरुहे।
देवस्य तैलनिष्यन्दा नापतन्ति यथा द्विज! ॥२८१॥
ततः स्कन्धप्रदेशात्तु यावत्पादावसानकम्।
अब्यंजयेच्च तैलेन सर्वगात्राणि मर्दयेत् ॥२८२॥
तस्मिन् काले बहुविधैस्तालवृन्तैश्च चामरैः।
तत्तापशमनार्थं तु वीजयेयुः समन्ततः ॥२८३॥
ततस्तु वाससोद्वर्त्य तथा चूर्णैः पुरोदितैः।
चमषीं च खलिं दत्वा दद्यादुष्णोदकं ततः ॥२८४॥
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम्।
ततस्त्वामलकं कल्कं गन्धद्रव्यैः सुसंस्कृतम् ॥२८५॥
दत्वा शिरसि देवस्य प्रक्षाल्य वहुभिर्जलैः।
शनैः शनैः समालोड्य ततोऽर्घ्यं विनिवेद्य च ॥२८६॥
लोध्रं कालेयकं चैव क्षालनार्घ्यसमन्वितम्।
दत्वा केशान् समाबध्य देवस्य प्लोतवाससा ॥२८७॥
अधः शटीं निवेद्याथ पात्रे कृत्वा तु वर्णकम्।
कर्पूरचूर्णसंमिश्रं सम्यग्धूपाधिवासितम् ॥२८८॥
तेन देवस्य गात्राणि लेपयेत्तु शनैः शनैः।
आकण्ठात् पादपर्यन्तं ततः प्रक्षालयेज्जलैः ॥२८९॥
अपास्याथ शिरःप्लोतम् दद्यादर्घ्यं तु मूर्धनि।
ग्रन्थिपल्लवतोयादि सर्वरत्नोदकान्तिमम् ॥२९०॥
संस्नाप्य सप्तभिस्तोयैः शिरःप्लोतं ददेद्विज!।
विनिवेद्याप्यधःशाटीं चन्दनेन सुगन्धिना ॥२९१॥
शशिचूर्णसमेतेन वासितेन हिमांबुना।
धूपाधिवासितेनापि समालभ्य विशेषतः ॥२९२॥
गात्राणि देवदेवस्य तथा वै कुंकुमेन च।
उपवीतं सोत्तरीयं दत्वा प्लोतमपास्य च ॥२९३॥
शिरस्यमथ केशांस्तु गन्धधूपाधिवासितान्।
आबद्य विविधैर्माल्यैः स्रग्दामानि निवेद्य च ॥२९४॥
ततस्तु बहुभिस्तोयैः संस्कृतैश्चन्दनादिना।
सहस्रधारया स्नानमाचरेद्देशिको विभोः ॥२९५॥
व्यापकान् चतुरो मन्त्रान् जपेदेकाग्रमानसः।
तस्मिन् काले बह्‌वृचाद्या द्बिजाः प्रागादिदिक्स्थिताः ॥२९६॥
सृक्तानि पौरुषाद्यानि अधीयीरन् समाहिताः।
शंखभेर्यादिकान् सम्यग् धोषयेयुः समन्ततः ॥२९७॥
मंगलानि च गीतानि तदा गायन्तु गायकाः।
एवं स्नाने कृते पश्चात् देशिकेन्द्रः समाहितः ॥२९८॥
पूर्णकुम्भं समादाय विभोः स्नपनमाचरेत्।
जपन् पवित्रमन्त्रं च तस्य निर्वचनं तथा ॥२९९॥
एवं स्नानं समापाद्य दद्यान्नीराजनं विभोः।
सवन्दनाख्यं तत्पश्चच्छाटकं विनिवेद्य च ॥३००॥
कचोदकापकर्षार्थमपरं देहवारिभृत्।
अधरोत्तरवस्त्रेद्वे गन्धधूपाधिवासिते ॥३०१॥
स्कन्धप्लोतं निवेद्याथ शिरः स्नानं निवेद्य च।
चन्दनादि सुगन्दं समाल्यानि विनिवेद्य च ॥३०२॥
पादुके विनिवेद्याथ तस्मात् स्थानात् समानयेत्।
तृतीयं रत्नखचितं आसनं विनिवेद्य च ॥३०३॥
तत्रस्थं देवदेवेशमर्घ्याद्यैः पूजयेत् क्रमात्।
सर्वं होमावसानं च कृत्वा भूयः प्रपूज्य च ॥३०४॥
महाहविर्निबेद्याथ सर्वं प्राग्वत् समाचरेत्।
एवं प्रतिदिनं चैव यावत्तीर्थदिनान्तिमम् ॥३०५॥
स्नपनं पूजनं चैव विभोः कुर्यादतन्द्रितः।
नित्योत्सवादौ देवस्य स्नपनं तु समाचरेत् ॥३०६॥
दिनोत्सवसमारम्भे नाचरेत् स्नपनं विभोः।
यद्वोभयसमारम्भे कुर्यादिच्छानुरूपतः ॥३०७॥
कलशे मण्डले चैव अह्नि रात्रौ च पूजनम्।
कुर्यात् प्रतिदिनं सम्यगेकवारं यथाविधि ॥३०८॥
बिंबंस्थं देवदेवेशमह्नि रात्रौ च पूजयेत्।
एकवारं द्विवारं वा त्रिवारं वा यथारुचि ॥३०९॥
प्रासादे मूलबिंबस्थं सविशेषं यजेत् सदा।
पञ्चमे वासरे प्राप्ते पूर्वाह्ने तु दिनोत्सवम् ॥३१०॥
कृत्वा ततस्तु देवेशं महास्नपनपूर्वकम्।
महता विभवेनैव लक्ष्मीपुष्टिसमन्बितम् ॥३११॥
महाहविर्विधानेन विभवे सति पूजयेत्।
षष्ठे दिने तु संप्राप्ते कुम्भाचनपुरस्सरम् ॥३१२॥
अग्निसंतर्पणान्तं च पूजयित्वा विधानतः।
पूर्ववद्देवदेवेशं लक्ष्मीपुष्टिसमन्वितम् ॥३१३॥
यानादिके समारोप्य प्रासादस्य बहिः व्कचित्।
उद्याने सुशुभे रम्ये पादपैर्वकुलादिभिः ॥३१४॥
प्रोच्छ्रितैर्विविधैर्वापि समन्तात् परिशोभिते।
पुष्पिताभिर्लताभिश्च सर्वतः परिभूषिते ॥३१५॥
नीत्वा देवं समारोप्य यथार्हे विष्टरे पुरः।
श्रीपुष्टिसहितं प्राग्वद्धोमान्तं परिपूजयेत् ॥३१६॥
सूक्ष्मवस्त्रदुकूलानि सरत्नाभरणान्यपि।
सुधाकस्तूरिकर्पूरदिव्यगन्धसमन्वितम् ॥३१७॥
सर्वांङ्गदेवदेवेशं मृगस्नेहेन लेपयेत्।
पुष्पापचयमाल्यादिभूषितानां विशेषतः ॥३१८॥
परस्परं वा शक्तीनां क्रीडार्थं वाप्यलंकृताम्।
गरुडारूढदेवाय पारिजातहरं स्मरन् ॥३१९॥
प्राभृतान्यपि पुष्पाणि देवदेवाय दर्शयेत्।
इदमस्मात् समायातं इत्युक्त्वा देशिकः स्वयम् ॥३२०॥
पुष्पापचयकर्मार्थमेवं कृत्वा निवेद्य च।
तत्र वाऽन्यत्र वा स्थाने कर्तुरिच्छानुरूपतः ॥३२१॥
ततस्तु देवदेवेशं लक्ष्मीपुष्टिसमन्वितम्।
पूर्ववद्भ्रामयेत् ग्रामे शेषं प्राग्वत् समाचरेत् ॥३२२॥
सप्तमे दिवसे प्राप्ते प्रासादं संप्रविश्य च।
देशिकः साधकैः सार्धं प्रणिपत्य जगद्‌गुरुम् ॥३२३॥
विज्ञापयेत्तु देवाय सम्यगुच्चस्थया गिरा।
"भगवन् पुण्डरीकाक्ष शरणागतवत्सल! ॥३२४॥
अस्मिन्नहनि कर्तव्या जलक्रीडा त्वया विभो।
शुद्धये सर्वलोकानां देवानां प्रीतयेपि च ॥३२५॥
यात्रा तदर्थं कर्तव्या मदनुग्रहकाम्यया।"
इति विज्ञाप्य देवाय प्रणम्य च पुनः पुनः ॥३२६॥
यानादौ देवमारोप्य लक्ष्मीपुष्टिसमन्वितम्।
नीत्वा मज्जनशालां तु स्नानोपकरणैर्युताम् ॥३२७॥
तद्गतान् सर्वसंभारान् दर्शायित्वा विभोस्ततः।
चन्दनाद्यैः समालभ्य देवं माल्यैर्विभूष्य च ॥३२८॥
विनिवेद्य च ताम्बूलं मुखवाससमन्वितम्।
समाहूय च तत्रस्थानाज्ञाप्य परिचारकान् ॥३२९॥
प्राप्तेऽपराह्वसमये जलक्रीडा भविष्यति।
तदर्थाः सर्वसंभाराः स्थापितव्यास्तु मण्डपे ॥३३०॥
इत्याज्ञाप्य ततस्तस्माद्‌धान्यागारं प्रविश्य च।
दर्शयित्वा तु धान्यानि विभोस्तेषां समृद्धये ॥३३१॥
उद्यानादौ समानीय विनिवेद्य च तत्स्थितान्।
उपहारान् यथायोगं तत आस्थानमण्टपे ॥३३२॥
पूजयेद्देवदेवेशं श्रीपुष्टिभ्यां समन्वितम्।
सविशेषं ततो लक्ष्मीं पुष्टिमन्तः प्रवेशयेत् ॥३३३॥
प्राग्वद्दिनोचितं सम्यक् कृत्वा पश्चात्तु मण्टपे।
देवदेवं समानीय समारोप्य च विष्टरे ॥३३४॥
अर्ध्यात् ताम्बूलपर्यन्तं सर्वं प्राग्वन्निवेद्य च।
स्नानार्थं शाटिकां वापि विनिवेद्य जगत्पतेः ॥३३५॥
मण्डपस्यैकदेशे तु शालितण्डुलनिर्मिते।
विष्टरे तु जलद्रोणीं सौवर्णीं वापि राजतीम् ॥३३६॥
ताम्रजं वा यथालाभं चतुस्त्रिद्विकरायताः।
तदर्धविस्तृतामूर्ध्वे मूले तत्पादविस्तृताम् ॥३३७॥
वृत्तायतामधोभागे प्रणालेन समन्विताम्।
उन्मत्तकुसुमाकारसदृशामथवा द्विज! ॥३३८॥
बिंबमानानुरूपां तां सर्वलक्षणसंयुताम्।
निवेश्य तां समापूर्य गालितेन जलेन तु ॥३३९॥
कुंकुमक्षोदयुक्तेन चन्दनेनान्वितेन च।
कर्पूरचूर्णयुक्तेन कुसुमैर्वासितेन च ॥३४०॥
तत्पार्श्वे देवमानीय चार्घ्याद्यैः परिपूज्य च।
भेरीपटहवादित्रशंखघोपसमन्वितम् ॥३४१॥
स्तुतिमंगलघोषैस्तु श्रुतिघोषसमन्वितम्।
सूक्तेन पौरुषेणैव विभोः कृत्वावगाहनम् ॥३४२॥
याने देवं समारोप्य सह स्नानार्द्रवाससा।
कुंकुमेन समालिप्य आपादान्मस्तकावधि ॥३४३॥
ब्रामयेत् प्रांकणं वीधीं प्रीतये वरुणस्य च।
जनानामपि सर्वेषां पवित्रीकरणाय च ॥३४४॥
तत्काले देवदेवेशं भक्त्या पश्यन्ति ये जनाः।
ते सर्वे धूतपाप्मानो भवन्ति निरुपद्रवाः ॥३४५॥
ततस्तु मण्डपे देवं विष्टरे विनिवेश्य च।
स्नानवस्त्रादि सकलमाचार्यः स्वयमाहरेत् ॥३४६॥
ततो निशोत्सवान्तं च सर्वं पूर्ववदाचरेत्।
अष्टमे दिवसे प्राप्ते आचरेन्मृगयां विभोः ॥३४७॥
प्रातरारभ्य पूर्वाह्वे देवमिष्ट्वा तु पूर्ववत्।
अश्वरत्नं समानीय सर्वालंकारशोबितम् ॥३४८॥
बहुभिस्तुरगैः सार्धं हस्तिनं वा तथाविधम्।
स्वभावं कृत्रिणं वापि तत्रारोप्य जगत्पतिम् ॥३४९॥
मृगयानुगुणैः सर्वैर्भूषणाद्यैर्विभूषितम्।
आरोप्य याने सौवर्णे श्रियं च धरणीं तथा ॥३५०॥
ताभ्यां सह परिब्राम्य ग्रामादौ पूर्ववद्विभुम्।
सैन्यैश्च विविधैः सार्धं भक्ताद्यैश्च तथैव हि ॥३५१॥
ततो ग्रामस्य बाह्ये तु क्रोशमात्रान्तरीकृते।
उद्याने वितते रम्ये विचित्रैः पादपैर्द्विज! ॥३५२॥
सरसीभिर्विचित्राभिः लताब-न्दैश्च पुष्पितैः।
शोभिते च समानीय देवं तन्मध्यसंस्थिते ॥३५३॥
मण्टपे तु वितानाद्यैः सर्वतः परिभूषिते।
सौवर्णे विष्टरे रम्ये समारोप्य जगत्पतिम् ॥३५४॥
श्रीभूमिसहितं पश्चाच्छीतलैर्व्यजनानिलैः।
चन्दनाद्यैः सुगन्धैश्च हिमतोयैस्च शीतलैः ॥३५५॥
स्वेदशान्तिं समापाद्य विशेषाद्राजराजवत्।
ततोऽर्घ्यादिबिरभ्यर्च्य दघ्यन्नं विनिवेदयेत् ॥३५६॥
मरीचिचूर्णसंमिश्रं जीरकादिसन्वितम्।
गुलखण्डयुतं शुद्धं पानकानि बहूनि च ॥३५७॥
कदलीफलपूर्वाणि मधुराणि फलान्यपि।
सर्वं ताम्बूलदानान्तं क्रमात् कृत्वा ततः परम् ॥३५८॥
स्नानपूर्वं समभ्यर्च्य महता विभवेन तु।
यथाक्रमेण देवेशं लक्ष्मीपुष्टिसमन्वितम् ॥३५९॥
निवेद्य च प्रमूतान्नमलंकृत्य विशेषतः।
तुरगादौ समारोप्य अस्तं याते दिवाकरे ॥३६०॥
दीपानेकशतैर्युक्तं ग्रामं नीत्वा प्रदक्षिणम्।
देवं गेहे प्रवेश्याथ प्राग्वत् कुर्यान्निशोत्सवम् ॥३६१॥
तद्रात्रौ तीर्थबिंबस्य कुर्यात् कौतुकबन्धनम्।
आचार्यो यजमानेन साधकैश्च समन्वितः ॥३६२॥
प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः।
दण्डवत्प्रणिपातेन इमं मन्त्रमुदीरयेत् ॥३६३॥
"तीर्थयात्रा त्वया देव! श्वः कर्तव्या सुरेश्वर!।
तत्र प्रतिसरारम्भं त्वमनुज्ञातुमर्हसि" ॥३६४॥
इति विज्ञाप्य देवस्य तीर्थबिंबं समानयेत्।
तदलाभे मुनिश्रेष्ठ! नित्यस्नपनकौतुकम् ॥३६५॥
अलाभे त्वस्य बिंबस्य बलिबिंबं तु वा द्विज!।
मूलिबंबस्य पुरतः संस्थाप्यावाह्य पूज्य च ॥३६६॥
प्रासादाब्यन्तरे कुर्याद्‌वेदिकां व्रीहिभिः शुभाम्।
हस्तमात्रोन्नतायामविस्तारां पझसन्निभाम् ॥३६७॥
वासोभिर्वेष्टयित्वा तां चतुरश्रायतां ततः।
पालिकाः सांकुरा बाह्ये स्थापयेत् ककुभष्टके ॥३६८॥
तद्बहिर्घटिकास्तद्वच्छरावांस्तद्वहिस्तथा।
तद्‌र्ध्वे देवमारोप्य घृतारोपणमाचरेत् ॥३६९॥
देवस्य पुरतः स्थाप्य पात्रं लोहविनिर्मितम्।
घृतेनापूर्य तत् पात्रं प्राग्वत् संस्कृत्य देशिकः ॥३७०॥
उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः।
घृते निमज्य चाग्राणि देवपादेषु सेचयेत् ॥३७१॥
ततस्तु कण्ठपार्श्वे तु ततो देवस्य भूर्धनि।
पाणिप्रक्षालनं कुर्यादन्तरान्तरयोगतः ॥३७२॥
दूर्वाभेदस्तथा प्रोक्तो घृतारोपणकर्मणि।
हस्तव्यत्यासमार्गेण घृतारोपणमाचरेत् ॥३७३॥
पादे "सुमंगलं चे" ति कठे भद्रमिति द्विज!।
"सुशोभनं" तु शिरसि क्रमान्मन्त्रः प्रतिष्ठितः ॥३७४॥
यद्वा सर्वस्य मन्त्रस्य द्वादशाक्षरसंज्ञितः।
अक्षतस्यार्पणं कृत्वा कुर्यात् कौतुकबन्धनम् ॥३७५॥
ऊर्णामयेन सूत्रेण क्षौमसूत्रेण तेन च।
प्राग्विधानेन तत्पस्चाच्चामराद्यैश्च वीजयेत् ॥३७६॥
दर्शयेद्दर्पणं छत्रमन्यानि मंगलान्यपि।
निवेद्य पायसं पश्चाद्‌विभवानुगुणं ततः ॥३७७॥
शिरसा शाययित्वा तु देवेशं शयनोपरि।
गुग्गुल्वगरुधूपैश्च धूपयित्वा समन्ततः ॥३७८॥
अनिर्वाणैः प्रदीपैस्तु रात्रिशेषं समापयेत्।
आचार्यः प्रातरुथाय कृत्वा स्नानादिकं ततः ॥३७९॥
देवमुत्सवबिंबस्थं प्राग्वत्पूज्य विधानतः।
पूर्वाह्वे वाथ मध्याह्वे कृत्वा पूर्वं रथोत्सवम् ॥३८०॥
कारयेत्तीर्थपूर्वाह्ने अथ मध्याह्वपूर्ववत्।
देवं गेहे समानीय स्वस्थाने सन्निवेशयेत् ॥३८१॥
देवोपयुक्तमाल्यानि चन्दनादीन्यपि द्विज!।
प्रदद्याद्देशिकेन्द्राय सोपि तैः परिभूषितः ॥३८२॥
कारयेत्तीर्थयात्रां चदेवेशस्य विधानतः।
तीर्थबिंबगतं देवं शयनात् प्रतिबोध्य च ॥३८३॥
पूजयित्वार्घ्यगन्धाद्यैरानीयास्थानमण्टपे।
पूजयित्वार्घ्यपाद्याद्यैर्धृतारोपं तु पूर्ववत् ॥३८४॥
कृत्वा पुरोदितानां तु स्नपनानां चतुर्थके।
नवके स्नपनं स्थाष्य मद्यमद्यमसंज्ञितत् ॥३८५॥
पुरतः स्थण्डिलं कृत्वोलूखलं तत्र विन्यसेत्।
मुसलानि चतुर्दिक्षु विन्यस्योलूखलोपरि ॥३८६॥
मुसरोलूखले गृह्य दूर्वाकाण्डानि बन्धयेत्।
नववस्त्रेण संवेष्ट्य तत्र चूर्णं विनिक्षिपेत् ॥३८७॥
सौवर्णरजनीचूर्णसंमिश्रं गन्धसंयुतम्।
चतुर्भिर्वैष्णवैर्विप्रैर्वैष्णवीभिस्तु वा द्विज! ॥३८८॥
कारयेदवघातं तु गीयमानेपि मंगले।
स्थापितस्नपनाद्विप्र! प्राग्भागे वा तदुत्तरे ॥३८९ ।
तण्डुलैः पीठिकां कृत्वा तत्र कुंभं निवेश्य च।
ससूत्रं तत्र निक्षिष्य चूर्णं वस्त्रेण वेष्ट्य च ॥३९०॥
अथवा पञ्च नव वा कलशांश्चूर्णपूरितान्।
अर्चयित्वा तु मूलेन ततः संस्नापयेद्विभुम् ॥३९१॥
तैलेनाभ्यज्य देवेशं समुद्वर्त्य च पूर्ववत्।
ततः संस्नाप्य विधिना घृताद्यं मंगलान्तिमम् ॥३९२॥
सहस्रधारया स्नानं कृत्वा संशुद्धवारिणा।
अधरोत्तरवस्त्राभ्यां नवाभ्यां परिधाप्य च ॥३९३॥
सूक्ष्माभ्यां धूपिताभ्यां च ततो देवं समर्च्य च।
अर्घ्यालभनमाल्याद्यैर्हेमचूर्णादिपूरितम् ॥३९४॥
कुम्भमादाय तेनैव चूर्णैः समभिषेचयेत्।
अर्घ्याद्यैः पूजयित्वा तु बिंबं तु परिमृज्य च ॥३९५॥
भुक्रावशिष्टं तच्चूर्णं भक्तानां मूर्ध्नि दापयेत्।
गंगास्नानफलं चूर्णं सर्वपापप्रणाशनम् ॥३९६॥
क्रीडया वापि तच्चूर्णं शिरसा धारयेन्नरः।
तस्य देहगतं पापं तत्क्षणादेव नश्यति ॥३९७॥
ततो देवं समभ्यर्च्य परमान्नं निवेद्य च।
मुद्गान्नं चापि शुद्धान्नं तदन्यत्र विधानतः ॥३९८॥
सर्वं द्विजप्रदानान्तं कृत्वा देशिकसत्तमः।
यात्रावसानात् प्रागेव सर्वं चोक्तं समाचरेत् ॥३९९॥
ततस्तु रजनीपिण्डं प्रबूतं कुंकुमान्वितम्।
निवेद्य देवदेवाय दद्याद्वै देशिकोत्तमः ॥४००॥
आचार्येभ्यः साधकेभ्यस्तथा चान्येभ्य एव च।
तत्तत्कर्म नियुक्तेब्यस्तेऽपि पिण्डेन तेन वै ॥४०१॥
आलब्य सर्वगात्राणि तथा संहृष्टमानसाः।
उपतिष्टन्तु देवेशं प्रणामैः सप्रदक्षिणैः ॥४०२॥
यात्रावाहनमानीय रथाद्येकतमं तु यत्।
तत्र देवं समारोप्य ततोऽन्यस्मिंस्तु यानके ॥४०३॥
आरोप्य चक्रं तार्क्ष्यं वा हनुमन्तं विभीषणम्।
छत्रचामरशङ्खादिसर्वसाधनसंयुतम् ॥४०४॥
प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेष्वपि।
तीर्थपार्श्वे समासाद्य बिंबं पीठे निवेश्य च ॥४०५॥
प्रभया पुष्पया चैव वितानाद्यैरलंकृते।
प्रणामं दण्डवत् कृत्वा पुष्पांजलिपुरस्सरम् ॥४०६॥
ततः संस्थाप्य देवेशं साधकस्यैव मूर्धनि।
भूषितस्य च वस्त्राद्यैस्तीर्थमासाद्य तत्र तु ॥४०७॥
नाभिदघ्ने जले स्थित्वा देशिकेन्द्रः समाहितः।
तत्रीर्थे सर्वतीर्थानि समावाह्य द्विजोत्तम! ॥४०८॥
कृत्वा पुण्याहघोषं च अर्घ्याद्यैः संप्रपूज्य च।
मुहूर्ते शोभने प्राप्ते रवौ मध्यन्दिनं गते ॥४०९॥
शंखतूर्यादिसंयुक्तं देवमादाय देशिकः।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ॥४१०॥
विधृयान्मध्यभागे तु पाणिना दक्षिणेन तु।
जपन् वै मूलमन्त्रं तु निमज्जेत् सह तेन वै ॥४११॥
तार्क्ष्यादिमूर्तिभिः सार्धमाचार्यः साधकैस्तथा।
स्वयंव्यक्तादिके स्थाने मध्याह्ने वाऽपराह्नके ॥४१२॥
रजन्यां पूर्वभागे वा कुर्यादवभृथं विभोः।
मुहूर्तातिक्रमप्राप्तदोषस्तत्र न विद्यते ॥४१३॥
जलद्रोण्यादिके पात्रे गन्धतोयैः सुपूरिते।
मुहूर्ते मज्जयेद्देवं अर्ग्याद्यैः संप्रपूज्य च ॥४१४॥
तत्काले ये नराः स्नानं कुर्वन्ति विमलाशयाः।
विमुक्तकल्मषास्ते वै प्राप्नुयुः परमां गतिम् ॥४१५॥
ततस्तीरे समारोप्य विष्टरे हेमनिर्मिते।
शाटकद्वितयं दत्वा स्नानवस्त्रे विसृज्य च ॥४१६॥
देशिकः स्वयमादाय ते वस्त्रे मूर्घ्नि धारयेत्।
अर्ध्याद्यैस्तु समभ्यर्च्य अलंकृत्य बिशेषतः ॥४१७॥
याने देवं समारोप्य प्रासादं प्रविशेत् ततः।
सुस्नाता धौतवसनास्तत्काले गणिकाजनाः ॥४१८॥
जलेनापूरितं पात्रं दौपपात्रं च दर्पणम्।
धारयन्त्योऽग्रतो विप्र! गच्छेयुर्मंगलार्थतः ॥४१९॥
अनुधारापदेनैव प्रादक्षिण्यक्रमेण तु।
द्वितीयावरणद्वारं समासाद्याथवा द्विज! ॥४२०॥
प्रथमावरणद्वारमन्तः कृत्वा तु मण्डलम्।
सुवृत्तं गोमयेनैव सुधाचूर्णैरलंकृतम् ॥४२१॥
आशासु दीपान् संस्थाप्य पालिका विदिशासु च।
संपूर्णमंभसा कुंभं स्रगाद्यैः परिभूषितम् ॥४२२॥
आधारस्योपरि स्थाप्य मध्ये पुष्पेण पूज्य च।
सकृत् प्रणवजप्तेन ततो वै तज्जलेन तु ॥४२३॥
अर्चयेद्देवदेवेशं पुष्पांजलिपुरस्सरम्।
प्रासादद्वारदेशे तु अर्घ्याद्यैः संप्रपूज्य च ॥४२४॥
देवं निवेश्य स्वस्थाने मूलबिंबे विसर्जयेत्।
पश्चादुत्सवबिंबं तु स्नानाद्यैस्तु विधानतः ॥४२५॥
पूर्ववत् पूजयेद्विप्र! परिभ्रमणवर्जितम्।
दशमेऽहनि संप्राप्ते देशिकेन्द्रः समाहितः ॥४२६॥
प्रातस्नानादिकं कृत्वा वसनाद्यैर्विभूषितः।
देशिकैः साधकैः सार्धं यजमानेन चैव हि ॥४२७॥
प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः।
देवेशस्याग्रतः स्थित्वा विज्ञापनमथाचरेत् ॥४२८॥
"भगवन्! पुण्डरीकाक्ष! शरणागतवत्सल!।
ध्वजार्थांकुरमारम्य उत्सवावभृथान्तिमम् ॥४२९॥
यन्मयानुष्टितं कर्म तव संप्रीतये विभो!।
तथाऽन्यैर्मदनुज्ञातैर्देशिकैश्चापि यत् कृतम् ॥४३०॥
साधकैश्च तथान्यैश्च विविधैः परिचारकैः।
तत्तत्संपूरणार्थं च न्यूनाधिक्योपशान्तये ॥४३१॥
त्वामद्य वासरे यष्टुं चतुःस्थानस्थितं विभो!।
प्रवृत्तामनुजानीहि मदनुग्रहकाम्यया" ॥४३२॥
इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च।
देवमुत्सवबिंबस्थं यानमारोप्य देशिकः ॥४३३॥
आस्थानमण्टपं नीत्वा तत्र वै दर्भविष्टरे।
देवमारोप्य तत्पश्चात् वेदाध्ययनतत्परान् ॥४३४॥
इतिहासपुराणज्ञान् तथा मंगलगायकान्।
नर्तकांश्च यथायोगं विनोदार्थं जगत्पतेः ॥४३५॥
तत्तत्स्थाने समावेश्य ततो देशिकसत्तमः।
तस्मिन् वा मण्टपे न्यस्य विस्तारस्यानुरूपतः ॥४३६॥
यागगेहोदितैः सर्वैर्वितानाद्यैरलंकृते।
तन्मध्यदेशमाश्रित्य कुर्याच्चक्राब्जमण्डलम् ॥४३७॥
मातुलंगसमाकारैर्द्वादशारैः परिष्कृतम्।
सपीठद्वारमार्गाद्यं पञ्चरंगपुरान्वितम् ॥४३८॥
अथवा भूषितं विप्र! पीठेन सपुरेण तु।
पञ्चपुष्पोज्वलेनैव केवलेन पुरेण वा ॥४३९॥
यथाकालोद्भवै रम्यैस्तत्तद्वर्णसमन्वितैः।
स्वयं भगवता प्रोक्तः पौष्करे त्वस्य विस्तरः ॥४४०॥
एवं सर्वं समापाद्य साधकैश्चक्रपंकजम्।
संप्राप्य साधकैः सार्धं देशिको देवसन्निधिम् ॥४४१॥
विज्ञाप्य देवमानीय पश्चिमे मण्डपस्य तु।
भद्रासने तु सौवर्णे मसूरकवरान्विते ॥४४२॥
शुभास्तरणसंयुक्ते प्राङमुखं विवनिवेश्य च।
यागपूर्वोक्तमार्गेण कलशे चक्रपंकजे ॥४४३॥
गीतं नृत्तं च वाद्यं च चतुर्दिग्वेदघोषितम्।
बिंबे च पूजनं कुर्याद्‌देशिकः सुसमाहितः ॥४४४॥
सविशेषं यथावद्वै द्विजदानावसानकम्।
तत्काले तु विशेषेण गुरोः संमानमाचरेत् ॥४४५॥
वसनैश्च दुकूलाद्यैर्देवस्य प्राङ्‌निवेदितैः।
विविधैः स्रग्वरैश्चापि सुगन्धैश्चन्दनादिकैः ॥४४६॥
आचार्योपि समादाय दुकूलाद्यमनुत्तमम्।
बद्ध्वा चोष्णीषवत् स्वस्मिन् शिरसि द्विजसत्तम! ॥४४७॥
माल्यादि च यथायोगं धारयन् प्रणिपत्य च।
मुहुर्मुहुर्देवदेवं ततो यागनिकेतनम् ॥४४८॥
संप्राप्य तत्र वैकुण्डे होमं कृत्वा यथापुरम्।
गत्वा देवसमीपं तु कृत्वा होमसमर्पणम् ॥४४९॥
संविभागं पितॄणां च यथावत् प्रतिपाद्य च।
कुमुदादींश्च चक्रं च खगेशं गणनायकम् ॥४५०॥
इन्द्रादिलोकपालानां दापयित्वा बलिं क्रमात्।
ततश्चैकायनीं शाखां त्रयीं चाथर्वसंयुताम् ॥४५१॥
इतिहासं पुराणं च वैष्णवं स्तोत्रमद्भुतम्।
गीतं नृत्तं च वाद्यं च शंखभेर्यादिकांस्तथा ॥४५२॥
वन्दिमंगलशब्दांश्च तथा मंगलगीतकम्।
श्रावयित्वा यथायोगं दर्शयित्वा विभोस्ततः ॥४५३॥
कुम्भस्थं मण्डलस्थं च देवं हृदि विसृज्य च।
विष्वक्सेनं समभ्यर्च्य प्राग्वन्मण्डलमध्यतः ॥४५४॥
ततो देवं समारोप्य यानादौ हेमनिर्मिते।
सर्वमंगलसंयुक्तं सर्वाण्यावरणानि च ॥४५५॥
परिब्रम्य च बाह्यादि त्वन्तरावरणान्तिकम्।
प्रथमावरणे वापि द्वितीयावरणेपि च ॥४५६॥
मण्डपे देवदेवेशं विष्टरे विनिवेशयेत्।
तत्काले यजमानस्तु अलंकृत्य तु देशिकम् ॥४५७॥
वस्त्रस्रक्‌चन्दनाद्यैश्च समारोप्य च यानके।
शंखकाहलवादित्रभेरीपटहसंयुतम् ॥४५८॥
छत्रदीपसमायुक्तं गायकादिसमन्वितम्।
देशिकं देववत् स्मृत्वा स्वगृहे संप्रवेशयेत् ॥४५९॥
अथानुयागमाचार्यः कुर्याद्वन्धुसमन्वितः।
अस्तंगते दिनकरे देवं संपूज्य वै क्रमात् ॥४६०॥
गुलखंडादिसंयुक्तं मुद्गान्नं तु निवेदयेत्।
ततस्तु भगवद्भक्ताः देशान्तरनिवासिनः ॥४६१॥
देवस्योत्सवसेवार्थं ये नराः पूर्वमागताः।
तेषां स्वदेशयानार्थं देवानुज्ञापुरस्सरम् ॥४६२॥
कृत्वा विसर्जनं पश्चात् देवं यागनिकेतने।
नीत्वा तत्र समावेश्य विष्टरे शुभसंस्तरे ॥४६३॥
कुम्भपूर्वं क्रमेणैव चतुः स्थानस्थितं विभुम्।
यथाविधि समभ्यर्च्य प्रभूतान्नसमन्वितम् ॥४६४॥
उत्सवान्तोदितं कृत्वा स्नपनं चापि कल्पयेत्।
यात्राबिंबे द्विजश्रेष्ठ! बिंबे वा स्नपनार्थतः ॥४६५॥
एवं क्रमेण संपूज्य प्रदाप्य विधिना बलिम्।
कुम्भमण्डलकुण्डस्थान् मन्त्रेशान् मन्त्रवित्तमः ॥४६६॥
विसर्जयेद्यथावच्चयथोक्तविधिना ततः।
विष्वक्सेनं यजेत् पश्चाद्देवमन्तः प्रवेशयेत् ॥४६७॥
अर्घ्यगन्धादिनाभ्यर्च्य मूलबिंबे विसर्जयेत्।
ग्रामे चावाहितान् विप्र! कुमुदादीन् गणान्वितान् ॥४६८॥
सन्तोष्य बलिदानेन सविशेषं विसर्जयेत्।
ध्वजस्थानं समासाद्य कुम्भं संस्थाप्य पूर्ववत् ॥४६९॥
पतत्रीशं समभ्यर्च्य ध्वजस्थं च विशेषतः।
महाहविर्निवेद्याथ ध्वजस्थं विहगेश्वरम् ॥४७०॥
विसर्जयित्वा स्वहृदि कुम्भस्थे वा खगेश्वरे।
ततोऽवरोहयेद्विप्र ध्वजं पूर्वक्रमेण तु ॥४७१॥
कुम्भस्थं विहगेशं तु स्वस्मिन् हृदि विसर्जयेत्।
यद्वा गरुडगेहं तु गत्वा कुम्भस्थवारिणा ॥४७२॥
संप्रोक्ष्य गरुडं तत्र कुम्भस्थं तु विसर्जयेत्।
ध्वजदण्डं ध्वजपटं तद्यष्टिं तत्प्रपां तथा ॥४७३॥
आचार्यः स्वयमादद्याद् यागोपकरणान्यपि।
अन्यथा चेन्महान् दोषः कर्तुर्देशाधिपस्य च ॥४७४॥
निष्फलं स्यात् कृतं कर्म विहगेशोपि कुप्यति।
यागकर्मणि पर्याप्ते तद्रात्रौ वाऽपरेहनि ॥४७५॥
यजमानो गुरुं हैमैर्भूषणैः कटकादिभिः।
वसनैर्गन्धपुष्पाद्यैः अलंकृत्याभिपूज्य च ॥४७६॥
उत्तमां दक्षिणां दद्यात् खर्णनिष्कशतान्विताम्।
ततोधिकां तु वा दद्यात् विभवस्यानुगुण्यतः ॥४७७॥
तदर्धं मद्यमं विद्धि तत्पादं ह्यधमं भवेत्।
यथावित्तानुरूपं तु यथाश्रद्धं तु वा ददेत् ॥४७८॥
तदर्धं ऋत्विजां दद्यात् तदर्धं परिचारके।
अन्यान् गायकपूर्वांस्तु यथावित्तानुसारतः ॥४७९॥
यागस्तु दक्षिणाहीनो निष्फलः स्यान्न संशयः।
तस्माद्वित्तानुगुण्येन देया चाल्पापि दक्षिणा ॥४८०॥
एवं तु गदितः सम्यक् यात्राख्योत्सवविस्तरः।
तत्र यो यो विशेषस्तु तं तमाकर्णयाधुना ॥४८१॥
देशिके साधके वापि एकस्मिन्नेव कल्पिते।
स एव सकलं कर्म कुर्यात्‌ पूर्वोदितं क्रमात् ॥४८२॥
बहुष्वेतेषु क्लृप्तेषु त्वेकः कुर्याद्यथाक्रमम्।
ध्वजांकुरं ध्वजारोपं उत्सवार्थांकुरार्पणम् ॥४८३॥
उत्सवारम्भदिवसात् पूर्वेद्युः कौतुकक्रियाम्।
उत्सवारम्भदिवसे अधिवासार्थमीरितम् ॥४८४॥
चतुः स्थानार्चनं विप्र! तथा तीर्थांकुरार्पणम्।
तद्रात्रावपि यात्रार्थं चतुः स्थानार्चनक्रियाम् ॥४८५॥
यात्राप्रतिसराबन्धं तथा चावभृधक्रियाम्।
पुष्पयागदिने वापि चतुः स्थानार्चनं तथा ॥४८६॥
कुम्भमण्डलकुण्डस्थमन्त्राणां च विसर्जनम्।
ध्वजावरोहणं चैव प्रयत्नान्नियतव्रतः ॥४८७॥
तदन्ये देशिकाः कुर्युः साधका वा यथाक्रमम्।
अन्यानि सर्वकर्माणि यथायोगं समाचरेत् ॥४८८॥
कुम्भस्थस्यार्चनं केचित् केचिद्बिं बस्य पूजनम्।
अग्नौ संतर्पणं केचित् केचित् स्नपनकौतुके ॥४८९॥
स्नपनाद्यर्चनं केचित् यथाकालं यथाविधि।
यद्येकेनैव शक्यं स्याच्चतुः स्थानार्चनं द्विज! ॥४९०॥
कर्तुं न कर्तृभेदः स्याच्चतुःस्थानार्चनाविधौ।
एकस्मिन् पूजने विप्र! वर्तमानेपि मध्यतः ॥४९१॥
केनचिद्व्याधिना कर्तुरशाक्तिर्यदि संभवेत्।
अंगादंगान्तरारम्भे आसनादासनस्य हि ॥४९२॥
शेषमन्येन कर्तव्यं जष्त्वा मूलं सहस्तकम्।
अन्यथासंभवेत्सा चेत् कर्तुरन्यस्तु पूजकः ॥४९३॥
भूयश्चादित आरभ्य पूजनं तु समाचरेत्।
दिनोदितेन मार्गेण कुर्याच्चेदन्यथा द्विज! ॥४९४॥
कर्तुः स्यान्मानसी पीडा पूजनं चापि निष्फलम्।
यदोत्सवे नियुक्तं तु नित्यस्नपनकौतुकम् ॥४९५॥
तदेकदैव कुर्वीत रात्रावहनि वोत्सवम्।
यदा महोत्सवविधौ बलिबिंबं प्रयुज्यते ॥४९६॥
कालयोरुभयोः कुर्यात् कर्तुरिच्छानुरूपतः।
यात्राबिंबे नियुक्ते तु कुर्यात् कालद्बये सदा ॥४९७॥
उत्सवं मुखयकल्पे तु अनुकल्पे महामते।
दिवा वापि रजन्यां वा कुर्याद्यात्रोत्सवं द्विज! ॥४९८॥
कुम्भे वा विष्टरे चक्रे यदा कुर्यान्महोत्सवम्।
तदानीं मूलबिंबे तु यात्रा बिंबोदितां क्रियाम् ॥४९९॥
सर्वामपि क्रमात् कृत्वा परिभ्रमणवर्जितम्।
कुम्भे वा विष्टरे वापि दर्भमंजरिजे शुभे ॥५००॥
चक्रे वा देवमावाह्य अर्घ्याद्यैः परिपूज्य च।
यानादिके समारोप्य सर्वसाधनसंयुतम् ॥५०१॥
ग्रामादौ भ्रामयेत् प्राग्वत् बलिदानसमन्वितम्।
ग्रामादि बलिदानोक्तकाले दद्यात् बलिं सदा ॥५०२॥
कुमुदादि गणेशानां पालिकावसथेपि च।
उत्सवे देवदेवेशं सदा सर्वत्र पूजयेत् ॥५०३॥
वस्तुपुष्पादिकैर्भोगैः यथाभिमतदिङ्‌मुखः।
आसीनो वा स्थितो बापि साधकस्तु यथारुचि ॥५०४॥
एवं तु भ्रमणं कुर्यात् एकाहाद्युत्सवेष्वपि।
एकाहे पूर्वरात्रे वा यात्रा बिंबाधिवासनम् ॥५०५॥
तीर्थबिंबाधिवासं च तथा कर्मदिने ततः।
प्रातर्ग्रामं परिभ्राम्य यात्राबिंबं तु पूर्ववत् ॥५०६॥
तत्पश्चादाचरेत् प्राग्वत् तीर्थबिंबाधिवासनम्।
अपरस्मिन् दिने कुर्यात् पुष्पयागं न वा द्विज ॥५०७॥
त्रिवासरेपि पञ्चाहे सप्ताहे तूत्सवे द्विज!।
आरंभाहात्तु पूर्वेद्युः यात्रा बिंबाधिवासनम् ॥५०८॥
तीर्थाहात् पूर्वरात्रौ तु तीर्थबिंबादिवासनम्।
तीर्थाहादपरस्मिन् वै पुष्पयागं समाचरेत् ॥५०९॥
एकाहात् सप्तरात्रान्तमुसवानां चतुष्टये।
पुष्पापचयलीलां च मृगयामपि नाचरेत् ॥५१०॥
दशाहादिषु सर्वेषु नवाहोदितवर्त्मना।
सर्वं कुर्याद्यथायोगं कर्तुरिच्छानुरूपतः ॥५११॥
स्वयं व्यक्ते विमानादौ स्थाने तु न समाचरेत्।
एकाहात् सप्तरात्रान्तमुत्सवानां चतुष्टयम् ॥५१२॥
तथा तत्रानुकल्पोक्तमुत्सवं न समाचरेत्।
स्वयं व्यक्ते जलक्रीडा भवेन्नान्यत्र कल्पयेत् ॥५१३॥
एकाहाद्यास्तु सकला उत्सवा वत्सरीन्तिमाः।
बहुबेरविधाने तु कर्तव्या द्विजसत्तम! ॥५१४॥
एकत्रिपञ्चसप्ताहनवाहद्वादशाहिकाः।
एकबेरविधाने तु कर्तव्या नान्यथा भवेत् ॥५१५॥
ग्रामे वा नगरे वापि प्रतिलोमानधिष्ठिते।
अशून्ये पत्तने वापि रथ्यासु सुसमाचरेत् ॥५१६॥
बलिदानादिकं सर्वं अन्यथा चेद् द्विजोत्तम!।
अन्तरावरणेष्वेव विभोः कुर्यान्महोत्सवम् ॥५१७॥
देवस्य यात्राकर्मार्थं प्रवेशश्च विनिर्गमः।
भवेत्तदग्रद्वारेण सर्वेष्वावरणेष्वपि ॥५१८॥
प्रवेशनिर्गमऔ स्यातां ग्रामाद्यभिमुखेन वा।
प्रधानैर्नेतरैर्द्वारैः कार्यौ वेशविनिर्गमौ ॥५१९॥
नोपद्वौरैर्न शौभैस्च नोपशोभैः कदाचन।
यदि कुर्यात् प्रमादेन तद्देशनृपतेर्भवेत् ॥५२०॥
प्रधानस्य विपर्यासः स्वस्थानप्रच्युतिस्तथा।
ग्रामादावपि विप्रेन्द्र! प्राकारादिपरिष्कृते ॥५२१॥
यात्रा कर्मणि देवस्य प्रवेशश्चापि निर्गमः।
उपद्वारैर्न कर्तव्यः कृते यात्रादि निष्फलम् ॥५२२॥
ग्रामस्यापि विनाशः स्यात् ततो देशाधिपस्य च।
चतुर्ष्वपि प्रधानेषु विशेषमवधारय ॥५२३॥
देवागारस्य पूर्वस्यां दिशि ग्रामादिकं यदि।
प्रत्यक्‌दिक्संस्थितद्वारा भवेत्तत्रोदितद्वयम् ॥५२४॥
ग्रामादिकं भवेत् प्रत्यक् यदा देवगृहस्य तु।
प्राग्द्वारेण तदा स्यातां प्रवेशश्च विनिर्गभः ॥५२५॥
यदा ग्रामादिकं क्लृप्तं प्रासादस्य तु दक्षिणे।
तदानीमुत्तरद्वारा प्राग्द्वारा वा पुरोदिता ॥५२६॥
यदा देवगृहस्योदक् ग्रामाद्यं परिकल्पितम्।
तदानीं दक्षिणद्वारा प्रत्यग्द्वारेण वा भवेत् ॥५२७॥
प्रवेशाद्यं द्वयं यद्वा दक्षिणोत्तरदिक्स्थिते।
ग्रामादावपि विप्रेन्द्र! प्राक्‌प्रत्यक्द्वारदेशतः ॥५२८॥
प्रवेशनिर्गमौ मुख्यकल्पे तु विहितौ द्विज!।
अनुकल्पे तदन्याभ्यां द्वाराभ्यां परिकीर्तितौ ॥५२९॥
देवागारांगभूते तु तस्माद्‌दूरेण संस्थिते।
ग्रामादौ देबदेवस्य यात्रायां वेशनिर्गमौ ॥५३०॥
कथितौ, सन्निकृष्टेथ विधानमवधारय।
प्रासादपूर्वदिक्‌संस्थे ग्रामे प्रागग्रवीधिषु ॥५३१॥
मध्यवीथ्यग्रदेशेन पश्चिमश्थेन वै विभोः।
प्रवेशनिर्गमौ स्यातां एतत्पश्चिमसंस्थिते ॥५३२॥
मध्यवीथ्यग्रदेशेन पूर्वदिकसंस्थितेन च।
दक्षिणोत्तरसंस्थे तु यथायोगं समाचरेत् ॥५३३॥
ग्रामाद्यं न कृतं यत्र कृता रथ्यावृतिस्तदा।
रथ्यावरणदेवानां बलिं दत्वा तु पूर्वतः ॥५३४॥
पश्चाद्‌ग्रामोक्तदेवानां तत्रैव च बलिं ददेत्।
सर्वेषां च क्रमादेवं देवयात्रां द्विराचरेत् ॥५३५॥
ग्राममध्योदितं कुर्यान्मुख्यद्वारार्थदेशतः।
रथ्यावृतिस्तु न कृता यदा ग्रामः कृतस्तदा ॥५३६॥
यथ्यावृत्युक्तदेवानां न तत्र प्रददेद्बलिम्।
तदर्थी देवयात्रापि न कर्तव्या महामते! ॥५३७॥
यदा तु वीथ्यावरणं ग्रामश्चापि न कल्पितः।
तदा ग्रामोक्तदेवानां बहिरावरणे बलिम् ॥५३८॥
तदुक्तदेवबल्यन्ते प्रदद्यात्तु दिने दिने।
ग्रामोक्त देवयात्रां च तथा तत्र समाचरेत् ॥५३९॥
ग्राममध्ये तु यत् कर्म विहितं तत् समाचरेत्।
बलिषीठे तदा सर्वं यथोक्तविधिना द्विज! ॥५४०॥?
बाह्यावृत्यादौ न तदा कुर्यात्तत् प्रथमावृतौ।
तदभावे तु तत् सर्वं प्रासादद्वारपूर्वतः ॥५४१॥
यदा ग्रामादिके क्लृप्ता देवयात्रोत्सवक्रिया।
राष्ट्रक्षोभादिविघ्नेन यदि कर्तुं न शक्यते ॥५४२॥
एवमेव तदापि स्यात् देवयात्रोत्सवक्रमः।
बलिदानोदिते काले बलिदानं समाचरेत् ॥५४३॥
कुमुदादिगणेशानां प्रथमावरणेपि च।
पालिकावसथे चापि मण्डपे यागनिर्मिते ॥५४४॥
ग्रामादिकेपि विप्रेन्द्र नित्यं स्थानचतुष्टये।
यदि रथ्यावृतिः क्लृप्ता तत्रापि च बलिं ददेत् ॥५४५॥
ग्रामाद्ये सगणानां तु बलिं दद्याद्दिने दिने।
अन्यस्थानचतुष्के तु केवलानां बलिं ददेत् ॥५४६॥
ग्रामाद्यं पालिकावासं विनान्यत्र समाचरेत्।
देवप्रागादियोगेन बलिं स्थानत्रयेपि च ॥५४७॥
ग्रामादौ नोत्सवं कुर्याद्योजनात् परतः स्थिते।
नद्यादिव्यवधानेपि क्लृप्ते वा योजनावधेः ॥५४८॥
ग्रामादौ उत्सवं कुर्यात् स्वतन्त्रे वांग एव वा।
देवतान्तरयात्रार्थं निर्मिंते नगरादिके ॥५४९॥
न कुर्याद्देवदेवस्य विभोर्यात्रोत्सवक्रियाम्।
विभोर्यात्रोत्सवार्थं तु कल्पिते नगरादिके ॥५५०॥
देबतान्तरयात्रां तु न कदाचित् समाचरेत्।
ग्रामाद्यंगतया क्लृप्ते प्रासादे तु महमते ॥५५१॥
तदंगिनं तु ग्रामाद्यं विनान्यत्र बलिक्रियाम्।
न कल्पयेद्देवयात्रां तथैव न समाचरेत् ॥५५२॥
देवतान्तरकल्याणे वर्तमाने कदाचन।
देवतान्तरयात्रार्थं तोरणानि कृतान्यपि ॥५५३॥
देवदेवस्य यागार्थं न स्बीकुर्यात् कदाचन।
एकस्मिन्नुत्सवेनैव दद्याद् ग्रामद्वये बलिम् ॥५५४॥
न कुर्याद्देवयात्रां च कृता चेन्निप्फला भवेत्।
तथा ध्वजद्वयं न स्यात् भेदछिद्रादिदूषिते ॥५५५॥
पटस्थे विहगेन्द्रे तु कुर्यात् सन्धानमेव तु।
तच्चेदशक्यं तत्त्यकत्वा कृत्वान्यं प्राग्वदाचरेत् ॥५५६॥
अन्यथा तत्परित्यागे दोषः स्याद्राजराष्ट्रयोः।
एवं तु देवदेवस्य उत्सवं कल्पयेत्तु यः ॥५५७॥
इह लोके सुखं भुक्त्‌वा चिरं भोगान् यथेप्सितान्।
देहसन्यासकाले तु प्राप्नोति भगवत्पदम् ॥५५८॥
यात्रायां वर्तमानायां अनुगच्छन्ति ये विभुम्।
पदे पदे क्रतुफलं लभन्ते ते नरोत्तमाः ॥५५९॥
ये तोषयन्ति ते काले देवदेवं जगत्पतिम्।
विविधैरूपचारैस्तु छत्रचामरपूर्वकैः ॥५६०॥
ऐहिकामुप्मिकान् भोगान् प्राप्नोत्यभिभतान् सदा।
इति सम्यङ्‌मुनिश्रेष्ठ! कीर्तितो वत्सरोत्सवः ॥५६१॥
एवं नैमित्तिकं चान्यं कुर्यादेकाहमुत्सवम्।
ध्वजारोहादिपूर्वोक्तयात्रांगपरिवर्जितम् ॥५६२॥
विभवानुगुणं विप्र! विशेषस्नपनान्वितम्।
महता हविषा युक्तं यथाश्रद्धानुरूपतः ॥५६३॥
तस्मिन् प्रदाननक्षत्रे पत्रपुष्पफलान्विते।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥५६४॥
चैत्रे मासि पुनर्वस्वोः वसन्तोत्सवमाचरेत्।
तस्मिंस्तु शुक्लद्वादश्यां कुर्याद्दमनकोत्सवम् ॥५६५॥
पवित्रारोहवत् कुर्यात् चतुस्थानार्चनादिकम्।
भूषणान्युत्तमादीनि कुर्याद्दमनकैस्तथा ॥५६६॥
तत्तु संख्याविरहितं यथाशोभानुरूपतः।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥५६७॥
एको ह वै नारायण इति प्राव्कलशेन तु।
तस्य ध्यानान्तस्थस्येति द्वितीयकलशेन तु ॥५६८॥
अथ पुनरेव नारायण इति तृतीयकलशेन तु।
अथ पुनरेव नारायण इति चतुर्थतः ॥५६९॥
सहस्रशीर्षा पुरुष इति पञ्चमकुम्भतः।
पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः । ५७०॥
नारायण परं ब्रह्न इति वै सप्तमेन तु।
यच्च किंचिज्जगत्यस्मिन् इति ह्यष्टमकुम्भतः ॥५७१॥
अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत्।
अतो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ॥५७२॥
सन्ततं सिराभिस्तु लमित्येकादशेन तु।
तस्य मद्ये महानग्निरिति द्वादशमेन वै ॥५७३॥
सन्तापयति स्वं देहमिति त्रयोदशमेन वै।
नीलतोयदमद्यस्था इति चतुर्दशमेन वै ॥५७४॥
तस्याश्शिखाया मध्ये इति पञ्चदशमेन वै।
सर्वस्य वशिनं देवं इति षोडशमेन तु ॥५७५॥
बहिरावरणस्थैस्तु कलशैरभियेचयेत्।
बहिरावरणे नास्ति इति प्राक्‌संस्थितेन तु ॥५७६॥
यन्नाबिपझादभवदिति वह्निगतेन तु।
धृतोर्ध्वपुम्ड्रं परमेति याम्यदिकसंस्थितेन तु ॥५७७॥
दक्षिणे तु भुजे विप्रः इति यातुगतेन वै।
विष्णुनाक्तमश्रन्तीति वारुणीदिक्स्थितेन तु ॥५७८॥
पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै।
य इमां महोपनिषदमिति सोमगतेन तु ॥५७९॥
ओमिते प्रथमं नाम इतीशानगतेन तु।
पुरुषोहं वै वासुदेव इति मध्यगतेन तु ॥५८०॥
यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात्।
बहिरावरणस्थैस्तु कलशैरमिषिच्य च ॥५८१॥
पूर्वोक्तैर्ब्रह्नसूक्तस्थैर्मन्त्रैर्द्विद्विकसंख्यया।
अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ॥५८२॥
अवशिष्टैस्त्रिभिश्चान्ते मध्यकुंभेन सेचयेत्।
रजनीचूर्णसंपूर्णान् संस्थाप्य नवकुम्भकान् ॥५८३॥
अर्घ्याद्यैरर्चयित्वा तु चक्ररश्मिसमप्रभान्।
रजनीचूर्णनिचयान् ध्यात्वा तैरमिषेचयेत् ॥५८४॥
सर्वविघ्ननिरासार्थं सर्वसंपूरणाय च।
दक्षिणे तु भुजे विप्र! इति प्राक्‌संस्थितेन च ॥५८५॥
निचिकिद्वा सुषणमिति वह्निगतेन तु।
प्रते विष्णो अब्ज चक्रे इति याम्यगतेन तु ॥५८६॥
एभिर्वयमुरुक्रमस्येति यातुगतेन तु।
धृतोर्ध्वपुण्ड्रः कृतचक्रेति पश्चिमाशागतेन तु ॥५८७॥
पवित्रमित्यग्निरिति वायुगतेन तु।
चरणं पवित्रं विततमिति सोमगतेन तु ॥५८८॥
लोकस्य द्वारमर्चिमदिति रुद्रगतेन तु।
मन्त्रैरेतैस्तु चाष्टाभिः अन्यैः सौदर्शनैस्तथा ॥५८९॥
संस्नाप्य मध्यकुम्भेन शुद्धोदैरभिषिच्य च।
महोपनिषदन्तस्थैः ब्रह्नसूक्तैः पुरोदितैः ॥५९०॥
मन्त्रैश्चतुर्भिः पुंसूक्तैः मन्त्रैः षोडशभिस्तथा।
वासुदेवद्विषट्‌कार्णब्राह्नणद्वितयेन तु ॥५९१॥
ओंकारादिपवित्रान्तैः चतुभिर्व्यापकैस्तथा।
सहस्रधारया देवं स्नापयेद्विधिपूर्वकम् ॥५९२॥
यद्वा द्विषट्‌कमन्त्रेण सर्वं स्नपनमाचरेत्।
ततोऽन्यैः सकलैर्भोगैः प्राग्वदिष्ट्वा क्रमेण तु ॥५९३॥
सर्वैः पुरोदितैर्मन्त्रैः द्विषट्‌कार्णेन वा द्विज!।
होमं कृत्वा विशेषेण समिद्भिस्त्रिमधुप्लुतैः ॥५९४॥
ततो दमनकारोपमाचरेत्तु यथाविधि।
अत्रानुक्तं तु सकलं पवित्रारोहवद्भेत् ॥५९५॥
माघमासे पुनर्वस्वोश्चैत्रे वा द्वितयेपि वा।
वैशाखे श्रवणे ऋक्षे रोहिण्यां श्रवणे तथा ॥५९६॥
आर्द्रायां मार्गशीर्षाख्ये आषाढे हस्ततारके।
कार्तिके मासि रोहिण्यामन्येष्वेवंविधेष्वपि ॥५९७॥
अवतारदिनेष्वेवं कुर्यादेकाहमुत्सवम्।
ग्रामे वा नगराद्ये वा सर्वेष्वावरणेषु वा ॥५९८॥
शुभलीलासमायुक्तमाचरेत्तु परिभ्रमम्।
पक्षे पक्षे च द्वादश्यां मासि मासि तथैव च ॥५९९॥
अमावास्यां पौर्णमास्यां श्रवणे चोत्तरे दिने।
अन्येष्वपि प्रशस्तेषु विभवेच्छानुरूपतः ॥६००॥
यजमानादिजन्मर्क्षे चैत्रादि विषुवद्वये।
अयनद्वितये चापि सूक्ष्मस्थूले विशेषतः ॥६०१॥
तथा चाग्रयणाख्यं तु वत्सरे वत्सरे द्वयम्।
आषाढे पूर्वफल्गुन्यां पुष्ये चैव विशेषतः ॥६०२॥
माघमासे तु पञ्चम्यां सप्तम्यामथवा द्विज!।
विशेषयजनं कुर्याद्विभवेच्छानुरूपतः ॥६०३॥
एकादश्यां मार्गशीर्षे पूर्वपक्षे विशेषतः।
कुर्याद्विशेषयजनं त्त संश्रावयेद्विभुम् ॥६०४॥
सदागमादिकान् सर्वान् वेदान् वै वेदघोषणम्।
इतिहासपुराणं च तथा दैवं च मानुषम् ॥६०५॥
वेदेपवृह्नणं त्वन्यत् संस्कृतं प्राकृतं तु वा।
भाषान्तरगतं वापि यथाश्रद्धानुरूपतः ॥६०६॥
एवं विशेषयजनं द्वादश्यां तु समाचरेत्।
पायसान्नं गुलान्नं वा प्रभूतं विनिवेदयेत् ॥६०७॥
समाप्ते भगवद्व्यागे पारणं तु समाचरेत्।
एतत्तिथिद्वययुतमुत्तमं व्रतमीरितम् ॥६०८॥
अतः परं स्याद्विस्तारो विभवेच्छानुरूपतः।
तदादिपौर्णमास्यान्तं पञ्चम्यन्तं तु वा द्विज ॥६०९॥
दशम्यमावास्यान्तं वा पञ्चमी दशमी तु वा।
एवं त्रिंशद्दिनान्तं तु विभवानुगुणं भवेत् ॥६१०॥
वैशाखे च विशाखर्क्षे विशेषयजनं भवेत्।
सहकारफलैः पव्कैः गुलक्षीरादिपाचितैः ॥६११॥
कार्तिके मासि कार्तिक्यां विशेषार्चनमाचरेत्।
घृततैलमहादीपैः प्रभूतैर्दर्शयेत् प्रबुम् ॥६१२॥
शुभैरन्यैर्लाजपूर्वैः शुभैर्भक्ष्यादिभिः सह।
फलपुप्पादिकैः पूतैः तत्तत्काले समर्चयेत् ॥६१३॥
पौषे मासि च पुष्ये तु विशेषस्नपनान्वितम्।
कार्तिके मासि विप्रेन्द्र! शुक्लैकादशिका तु या ॥६१४॥
तस्यामुपोष्य रात्र्यां तु जागरेण जगत्पतिम्।
तत्कालोचितरागोत्थैः तोषयित्वा तु गीतकैः ॥६१५॥
ब्राह्ने मुहूर्ते संप्राप्ते विशेषेण यजेद्विभुम्।
संश्रावयेद्गीतकानि स्तोत्राणि विविधाः कथा ॥६१६॥
होमावसानं सर्वं तु सविशेषं समाचरेत्।
तत्काले ये च गायन्ति तच्च श्रृण्वन्ति ये जनाः ॥६१७॥
तेषां पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम्।
आचार्याः साधका वापि कुर्वीरन्नेवमुत्सवम् ॥६१८॥
आचार्यास्तेषु सोष्णीषा भवेयुस्सोत्तरीयकाः।
अकंचुकाः सदा विप्र! साधकाः स्युः सकञ्चुकाः ॥६१९॥
सकञ्चुका यद्याचार्यास्तत्पूजा निष्फला भवेत्।
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे महोत्सवादिविधिर्नाम सप्तदशोऽध्यायः॥

N/A

References : N/A
Last Updated : January 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP